TBD.
सनि परतः इणो ऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधने इत्येव, अर्थान् प्रतीषिषति। इण्वदिक इत्येव, अधिजिगमिषति। योगविभाग उत्तरार्थः। इङश्च 2-4-48 इति सन्येव यथा स्यात्।
TBD.
–
442 सनि च। `इणो गा लुङी'त्यत इण इति, `णौ गमिरबोधने' इत्यतो `गमिरबोधने' इति चानुवर्तते। तदाह– इणो गमिरित्यादि। जिगमिषतीति। `गमे'रिति इट्। अत्र `अज्झनगमा'मिति दीर्घो स्थिते `अजादेर्द्वितीयस्ये'ति सनो द्वित्वे अभ्यासेत्त्वम्। प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः। `इक स्मरणे' इत्यस्याह– इण्वदिक इति। अनेन वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थः। ततस्च `सनि चे'ति गमिरादेश इति भावः। कर्मणि तङिति। इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्र्थः। `भावकर्मणो'रित्यनेनेति भावः। परस्मैपदेष्विति। `गमेरिट्परस्मैपदेषु' इत्युक्तेस्तङि नेडित्यर्थः। झलादाविति। `अज्झने'ति झलादौ सनि वहितो दीर्घ इत्यर्थः। जिगांस्यते इति। गन्तुमिष्यते इत्यर्थः। इणो रूपम्। अधिजिगांस्यते इति। स्मर्तुमिष्यत इत्यर्थः। इको रूपम्। जिगंस्यते इति। गम्लृधातोः सन्नन्तात्कर्मणि तङि रूपम्। गमेरजादेशत्वाऽभावान्न दीर्घः।
386 सनि च। `णौ गमिरबोधने'इत्यतोऽबोधन इत्यनुवर्तते। प्रतीषिषतीति। तक्रकौण्डिन्यन्यायस्याऽनित्यत्वात्सन्रूपस्याभ्यासस्येत्वम्। अनित्यत्वे लिङ्गं तु `नित्यं कौटिल्ये गतौ'इत्यत्र नित्यग्रहणमिति वक्ष्यते। संजिगंसते इति। `समो गम्यृच्छिभ्या'मिति तङ् `पूर्ववत्सनः' इति सन्नन्तादपि भवति।
वृत्तिः इणो गमिः स्यात्सनि न तु बोधने । When the affix सन् follows, the verbal root √इ (इण् गतौ २. ४०) is replaced by “गम्” as long as the sense is not that of “comprehending.”
उदाहरणम् – जिगमिषति is a desiderative form derived from √इ (इण् गतौ २. ४०). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
गम् + सन् 2-4-47, 3-1-7
= गम् + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35, but the special rule 7-2-58 applies in the next step.
= गम् + इट् स 7-2-58, 1-1-46
= गम् + इस 1-3-3, 1-3-9
= गम् गम् + इस 6-1-9
= ग गम् + इस 7-4-60
= ज गम् + इस 7-4-62
= जि गम् + इस 7-4-79
= जिगमिष 8-3-59
“जिगमिष” has धातु-सञ्ज्ञा by 3-1-32
जिगमिष + लँट् 3-2-123 = जिगमिषति 1-3-62, 1-3-78
उदाहरणम् – प्रतीषिषति is a desiderative form derived from √इ (इण् गतौ २. ४०) with the उपसर्गः “प्रति”। विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: The सूत्रम् 2-4-47 does not apply here because प्रति + √इ (इण् गतौ २. ४०) is used in the sense of comprehending.
प्रति इ + सन् 3-1-7, 1-4-59, 1-4-80
= प्रति इ + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35.
= प्रति ई स 6-4-16
= प्रति ई स स 6-1-9. Note: Since the multi-syllabic verbal root “ईस” begins with a vowel, duplication is done for the second portion (“स”) containing a single vowel.
= प्रति ई सि स 7-4-79
= प्रति ईषिष 8-3-59
“ईषिष” has धातु-सञ्ज्ञा by 3-1-32
प्रति ईषिष + लँट् 3-2-123 = प्रति ईषिषति 1-3-62, 1-3-78 = प्रतीषिषति 6-1-101