Table of Contents

<<2-4-44 —- 2-4-46>>

2-4-45 इणो गा लुङि

प्रथमावृत्तिः

TBD.

काशिका

इणः गा इत्ययम् आवेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङि इति वर्तमाने पुनर् लुङ्ग्रहणम् आत्मनेपदेष्वन्यतरस्याम् 2-4-44 इत्येतन् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता। इण्वदिक इत वक्तव्यम्। अध्यगात्, अध्यगाताम्, अध्यगुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

585 गातिस्थेति सिचो लुक्. अगात्. ऐष्यत्.. शीङ् स्वप्ने.. 19..

बालमनोरमा

289 इणो गा। इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः। अगा स् त् इति स्थिते आह– गातिस्थेतीति। लृङि ऐष्यते। इङ् अध्ययने इति। अधिरुपरिभावे। `उपरिभावश्च पठने नियमपूर्वकत्व'मिति भूवादिसूत्रे भाष्ये स्पष्टम्। नित्यमधिपूर्व इति। धातुपाठे वचनमिदम्। अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये। अधीते इति। `सार्वधातुकमपि'दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः। अजादौ तु इयङ्।तदाह–अधीयाते अधीयते इति। अधीषे अधीयाथे अधीध्वे। अधीये अधीवहे अधीमहे।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: इणो गा इत्ययमादेशो भवति लुँङि। When the intention is to add the affix “लुँङ्”, there is a substitution of “गा” in the place of √इ (इण् गतौ २. ४०).

उदाहरणम् – अगु: derived from √इ (इण् गतौ २. ४०). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

Since the intention is to add the affix लुँङ्, we start the derivation by substituting “गा” in the place of √इ (इण् गतौ २. ४०).

गा + लुँङ् 3-2-110
= गा + ल् 1-3-2, 1-3-3, 1-3-9
= गा + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= गा + जुस् 3-4-109. Note: Since “गा” ends in a आकार:, 3-4-110 cannot stop 3-4-109 here.
= गा + उस् 1-3-7, 1-3-9. 1-3-4 prevents the ending सकार: of “जुस्” from getting the इत्-सञ्ज्ञा
= गा + च्लि + उस् 3-1-43
= गा + सिँच् + उस् 3-1-44
= गा + उस् 2-4-77, 1-1-61
= गुस् 6-1-96
= अट् गुस् 6-4-71, 1-1-46
= अगुस् 1-3-3, 1-3-9
= अगु: 8-2-66, 8-3-15