Table of Contents

<<2-3-71 —- 2-3-73>>

2-3-72 तुल्यार्थैरतुलाउपमाभ्यां तृतीया ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

तुल्यार्थैः शब्दैर् योगे तृतीया विभक्तिर् भवत्यन्यतरस्याम्, पक्षे षष्थी च, तुलाउपमाशब्दौ वर्जयित्वा। शेषे विषये तृतीयाविधानात् तया मुक्ते षष्थ्येव भवति। तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य। सदृशो देएवदत्तेन, सदृशो देवदत्तस्य। अतुलोपमाभ्याम् इति किम्? तुला देवदत्तस्य न अस्ति। उपमा कृष्णस्य न विद्यते। वा इति वर्तमाने ऽन्यतरस्यां ग्रहनम् उत्तरसूत्रे तस्य चकारेन अनुकर्षणार्थम्। इतरथा हि तृतीया ऽनुकृष्येत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

622 अथोपपदविभक्तयः। तुल्यार्थैः। शेषषष्ठ\उfffदां नित्यं प्राप्तायां तृतीयाविकल्पोयम्। तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम्। तेन `गौरिव गवय' इत्यादौ नेत्याहुः। अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये।

तत्त्वबोधिनी

554 तुल्य इति। तुलया संमितस्तुल्यः। `नौवयोधर्म–'इत्यादिना यत्। तुला उपमा वेति। तोलनं तुला। अस्मिन्नेव सूत्रे णिलुगङोर्निपातनात्साधुरिति माधवः। उपमितिरुपमा। `आतश्चोपसर्गे'इत्यङ्।

Satishji's सूत्र-सूचिः

TBD.