TBD.
अकस्य भविष्यति काले विहितस्य, इनस् तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्थी विभक्तिर् न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि ग्रामं गमी। ग्रामं गामी। शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोः इति किम्? यवनां लावकः। सक्तूनां पायकः। अवश्यंकारी कटस्य। इह कस्मान् न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति? भविष्यदधिकारे विहितस्य अकस्य इदं ग्रहणम्।
TBD.
–
–
552 अकेनोः। आधमण्र्ये अकस्याऽसम्भवाह—भविष्यत्यकस्येति। इनस्तु उभयोः सम्भवादाह–भविष्यदाधमण्र्यार्थेनश्च योग इति। यथासंख्यं तु न भवति, भाष्ये `अकस्य भविष्यति' `इन आमण्र्ये च 'इति योगं विभज्य व्याख्यानात्।इह भविष्यदिति स्वर्यते, तेन `भविष्यति गम्यादयः'इत्यधिकारे विहितः `तुमुन्?ण्वुलौ–' इति ण्वुलेव गृह्रत इत्याशयेनोदाहरति—सतः पालक इतिष सत इति शत्रन्तम्। यस्तु कालसामान्ये `ण्वुल्तृचौ–'इति ण्वुलुक्तस्त्तर न निषेधः, `ओदनस्य पाचकः' `पुत्रपौत्राणां दर्शक'इतीति भावः। व्रजं गामीति। `आवश्यकाधमण्र्ययोर्णिनिः' इत्यावश्यके णिनिः। यद्यप्ययं कालसामान्ये विहिकस्तथापि `भविष्यति गम्यादयः' इत्युक्तेर्भविष्यदर्थकः। गम्यादयः केचिदुणादयः, केचिदष्टाध्यायीगता इति हरदत्तः। ननु `गत्यर्थकर्मणि चतुर्थी च' इत्येव सिद्धे द्वितीय ग्रहणमपवादविषयेऽपि द्वितीयाप्रवृत्त्यर्थमिति व्रजङघ्गमिति सिध्यत्येवेति चेत्, अत्राहुः–इहैव सूत्रे ग्रामङ्गमीति भाष्योदाहरणात्तत्सूत्रं नाङ्गीक्रियते। तेन ग्रामस्य गन्तेति षष्ठ\उfffदेव साध्वी, न तु ग्रामं गन्तिति द्वितीयते। शतंदायीति। `आवश्यके'त्याधर्मण्ये णिनिः। `भविष्यदाधर्मण्यार्थेनश्च योग' इत्युक्तत्वान्नेह निषेधः। अवश्यं करोत्य वश्यङ्कारी कटस्य। गम्यादित्वाऽभावाद्वर्तमानेऽप्ययम्।
TBD.