Table of Contents

<<2-3-53 —- 2-3-55>>

2-3-54 रुजाऽर्थानां भाववचनानाम् अज्वरेः

प्रथमावृत्तिः

TBD.

काशिका

रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर् भवति। चौरस्य रुजति रोगः। चौरस्यामयत्यामयः। रुजार्थानाम् इति किम्? एति जीवन्तमानन्दो नरं वर्षशतादपि। जीव पुत्रक मा मैवं तपः साहसमाचर। भाववचनानाम् इति किम्? नदी कूलानि रुजति। अज्वरेः इति किम्? चौरं ज्वरयति ज्वरः। अज्वरिसन्ताप्योरिति वक्तव्यं। चौरं सन्तापयति तापः। शेषे इत्येव, चौरं रुजति रोगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

607 रुजार्थानाम्। रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः। भाववचनानामित्येतद्व्याचष्टे–भावकर्तृकाणामिति। वक्तीति वचनः, कर्तरि ल्युट्। प्रकृत्यर्थौ न विवक्षितः। भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः। भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम्। शेष इति कर्मणीति चानुवर्तते। तदाह– कर्मणि शेष इति। इदमपि समासाऽभावार्थमेव। चौरस्य रोगस्य रुजेति। अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते। रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः . रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः। अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः। सच रुजायां कर्ता। तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी। `रोगस्य चोररुजे'ति समासो न भवतीति बोध्यम्। \र्\नज्वरिसंताप्योरिति। `रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना'मिति सूत्रं वक्तव्यमित्यर्थः। रोगस्य चौरज्वर इति। अत्र चौरज्वरशब्दे शेषषष्ठ\उfffदा समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात्। एवं `रोगस्य चौरसंताप' इत्यत्रापि बोध्यम्। अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्या\उfffद्प्त दर्शयितुमाह–रोगकर्तृकमिति। रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत्। एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा। अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः।

तत्त्वबोधिनी

543 रुजार्थानाम्। `रुजो भङ्गे'। भिदादिपाठादत एव निपातनाद्वा अङि टाप्। रुजा व्याधिरर्थो येषां तेषां रुजार्थानां धातूनां भाववाचकत्वाऽव्यभिचाराद्भावशब्देनाऽत्र घञादिवाच्यः सिद्धरूपो भाव उच्यते। वक्तीति वचनः। बाहुलकात्कर्तरि ल्युट्। प्रकृत्यर्थस्तु न विवक्षितः, नहि भावो वक्ता सम्भवति। तस्मात्प्रत्ययस्य साधुत्वनिर्वाहायैव वचिरिति बोध्यम्। तथा चायमर्थः,— भावो वचनः=कर्ता येषां तेषां भाववचनानामिति, तदेतव्द्याचष्टे—भावकर्तृकाणामिति। `रुजार्थानां भावकर्तृकाणाम्' इत्येव सूत्रयितुं युक्तम्। चौरस्येति। चुरा शीलमस्य चौरः। अत्र कर्मणि शेषत्वविवक्षायामनेन षष्ठी।\र्\नज्वरिसंताप्योरिति वाच्यम्। रोगस्येति। `पदरुज–' इति घञा रोगो भावोऽभिधीयते, स च रुजायां कर्ता। `कर्तृकर्मणोः–' इति रोगशब्दात्षष्ठी। भावाकर्तृकाणां किम्?। श्लोष्ममश्चौररुजा। `मायुः पित्तं कफः श्लेष्मा' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.