TBD.
शेषे इति वर्तते। अधीगर्थाः स्मरनार्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर् भवति। मातुरध्येति। मातुः समरति। सर्पिषो द्यते। सर्पिष ईष्टे। मधुन ईष्टे। कर्मणि इत्येव, मातुर् गुणैः स्मरति। शेषे किम्? मातरं स्मरति।
TBD.
–
605 अधीगर्थ। एषामिति। `इक्स्मरणे'नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः। स्मरणार्थक इति यावत्। शेष इति। `षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः। मातुः स्मरणमिति। वस्तुतःकर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः। सर्पिषो दयनमिति। वस्तुतः कर्मींभूतसर्पिःसंबन्धि दयनमित्यर्थः। `दय दानगतिरक्षणहिंसादानेषु'। दीनान्दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः। परदुःखापहरणेच्छा दया। ईशनं वेति। `सर्पिष' इत्यनुषज्यते। वस्तुतः कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोग इत्यर्थः। इदमपि समासनिषेधार्थमेव। `लोकानीष्टे' इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः।
542 अधीगर्थ। अधिशब्दोच्चारणम् `इङिकावध्युपसर्गं न व्यभिचरतः'इति ज्ञापनार्थम्। अन्यथा `स्मृत्यर्थदयेशाम्' इत्येव ब्राऊयात्, `इगर्थे'ति वा। इङंशे नेदं ज्ञापकमिति चेत्तर्हि तदंशे `णेरध्ययने वृत्तम्' इत्यत्राऽधिशब्दोच्चारणं ज्ञापतमस्तु। अत्र व्याचख्युः–कर्मणि किम्?। करणे शेषत्वविवक्षायां मा भूत्। मातुर्गणस्मरणम्। अत्र माता कर्म, गुणास्तु करणम्, उभयत्र शेषत्वविवक्षायमपि मातृशब्दादेवानेन सूत्रेण षष्ठी, गुणशब्दात्तु `षष्ठी शेषे'इत्यनेन। तेन `गुणस्मरण'मितित समासो भवतीति।
TBD.