Table of Contents

<<2-3-3 —- 2-3-5>>

2-3-4 अन्तरा ऽन्तरेण युक्ते

प्रथमावृत्तिः

TBD.

काशिका

द्वितीया स्वर्यते, न तृतीया। अन्तरान्तरेण शब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर् भवति। षष्ठ्यपवादो ऽयम् योगः। तत्र अन्तराशब्दो मध्यमाधेयप्रधानम् आचष्टे। अन्तरेण शब्दस् तु तच् च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल् लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

537 अन्तरान्तरेणयुक्ते। `अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम्। अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम्। अन्तरा त्वां मां हरिरिति। तव च मम च मध्ये हरिरित्यर्थः। `अन्तरा मध्ये' इत्यमरः। अन्तरेण हरिमिति। हरेर्वर्जने सुखं नास्तीत्यर्थः। `पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः। `किमनयोरन्तरेण गतेने'त्यत्र तु अन्तरशब्दो विशेषवाची। अनयोर्विशेषेण ज्ञातेनेत्यर्थः। अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया। नचैवं सति `हलोऽनन्तराः संयोगः' इत्यत्र द्वयोश्चैवान्तरा कश्चि'दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया। ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठ\उfffदेव भवति युक्तग्रहणादिति कैयटः।

तत्त्वबोधिनी

483 अन्तरान्तरेण। प्रतिपदोक्तत्वान्निपातयोरेव ग्रहणं न तु टाबन्ततृतीयान्तयोः, परस्परसाहचर्याच्च। तद्यथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न त्वाचर्यपरशुरामयोः। तेन किमनयोरन्तरेणावगतेनेति सिद्धम्। किमनयोर्विशेषण ज्ञातेनेत्यर्थः। अन्तरा त्वां मामिति। तव मम च मध्ये इत्यर्थः। हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः। अन्तरेण हरिमिति। हरिं विनेत्यर्थः। `मध्ये'इत्यर्थेऽप्यन्तरेणशब्दो वर्तते, `मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोद्र्वयं सः' इति। चलच्चामरयोद्र्वयं यस्य मध्ये इत्यर्थः। युक्ताग्रहणान्नेह,–`अन्तरा त्वां मां कृष्णस्य मूर्तिः'। इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनाऽनन्वयात्।

Satishji's सूत्र-सूचिः

TBD.