Table of Contents

<<2-2-2 —- 2-2-4>>

2-2-3 द्वितियतृतीयचतुर्थतुर्याण्यन्य्तरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

एकदेशिना एकाधिकरने इति वर्तते। षस्ठीसमासापवादो ऽयं योगः। अन्यतरस्यां ग्रहणात् सो ऽपि षष्ठीसमासो भवति। पूरणगुण 2-2-11 इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान् न प्रवर्तते। द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा। तुरीयशब्दस्य अपीष्यते। तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा। एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

705 द्वितीयतृतीय। द्वितीयं भिक्षाया इति। विग्रहोऽयम्। भिक्षाया द्वितीयमर्धमित्यर्थः। द्वितीयभिक्षेति। द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः। `परवल्लिङ्ग'मिति स्त्रीत्वम्। द्वितीयं भिक्षाया भिक्षुकस्येति। भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः। `भिक्षाया' इत्यवयवषष्ठी `द्वितीय' मित्यत्रान्वेति। `द्वितीय'मित्येतत्तु `भिक्षुकस्ये'त्यत्र कर्मत्वेनान्वेति। ` न लोके'ति निषेधान्न षष्ठी। अत्र `द्वितीय'मित्यस्य `भिक्षुकस्ये'त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः। ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह–अन्यतरस्यामिति। अन्यतरस्याङ्रग्रहणसामथ्र्यात्पक्षे षष्ठीसमास इत्यन्वयः। अन्यथा षष्ठ\उfffद्पवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत। महाविभाषाधिकारे `अपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इति `पारेमध्ये षष्ठ\उfffदा वे'ति वाग्रहणेन ज्ञापितत्वादिति भावः। ननु `पूरणगुणे'ति निषेधात्कथमिह षष्ठीसमास इत्यत आह–पूरणगुणेति निषेधं बाधित्वेति। अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः। [इत्येकदेशिसमासनिरूपणम्]।

तत्त्वबोधिनी

627 द्वितीयतृतीया। षष्ठीसमासा पवादोऽयं योग इति वृत्तिकृतोक्तमयुक्तमति ध्वनयन्नाह–निषेधं बाधित्वेति।

Satishji's सूत्र-सूचिः

TBD.