Table of Contents

<<2-2-14 —- 2-2-16>>

2-2-15 तृजकाभ्यां कर्तरि

प्रथमावृत्तिः

TBD.

काशिका

कर्तृग्रहणं षष्ठीविशेषणम्। कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते। भवतः शायिका। भवत आसिका। भवतो ऽग्रगामिका। तृच् चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति। तस्मात् तृज्ग्रहनम् उत्तरार्थम्। कर्तरि इति किम्? इक्षुभक्षिकां मे धारयसि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

700 तृजकाभ्यां कर्तरि। कर्तरीति तृजकयोरेव विशेषणं, श्रुतत्वात्, नतु षष्ठ्याः। तदाह–कत्र्रर्थतृजकाभ्यामिति। अपां रुआष्टा वज्रस्य भर्तेति। `ण्वुल्तृचौ' इति कर्तरि तृच्। `कर्तृकर्मणोः' इति कर्मणि षष्ठी। एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल्। अकादेश इति विशेषः। इक्षुभक्षिकेति। `स्त्रियां क्ति'न्नित्यदिकारे धात्वर्थनिर्देसे ण्वुल्। कर्मणि षष्ठ\उfffदा समासः। `कर्मणि चे'ति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः। ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधः स्यात्। न च भर्तृशब्दस्य याजकादौ पाठाद्भवत्येव षष्ठीसमासः, `याजकादिभिश्चे'त्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं तति `वज्रस्य भर्ते'त्यत्रापि समासप्रसङ्गादित्यत आह–पत्यर्थेति। याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात्। ततश्च `वज्रस्य भर्ते'त्यत्र `याजकादिभिश्चे'ति समासो नेति भावः। कथं तर्हीति। त्रायाणां भुवनानां समाहारस्त्रिभुवनं। `तद्धितार्थे'ति द्विगुः। `अकारान्तोत्तरपदो द्विगुः स्त्रिया'मिति तु न भवति, `पात्राद्यन्तस्य ने'त्युक्तेः। `त्रिभुवनस्य विधाते'ति तृचो योगे कथं कर्मणि षष्ठ\उfffदा समास इत्याक्षेपः। परिहरति–शेषषष्ठ\उfffदेति। प्रत्यासत्या कारकषष्ठ\उfffदा एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः।

तत्त्वबोधिनी

622 तृजकाभ्यामिह `कर्तृषष्ठ\उfffदा तृजकाभ्या'मिति वृत्तिकारव्याख्यानमयुक्तमिति ध्वयन्नाह–कत्र्रपर्थतृजकाभ्यामिति। `कर्तृ'ग्रहणं तृजकयोरेव विशेषणमिति युक्तं, तयोः श्रुतत्वात्, न तु षष्ठ\उfffदा इति भावः। यद्यपि `कर्तरी'ति तृचो न विशेषणमव्यभिचारात्, तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह–इक्षुभक्षिकेति। `पर्यायार्हणे'ति भावे ण्वुच्। कर्मणि षष्ठ\उfffदा समासः। ननु `वज्रस्य भर्ते' त्युदाहरणयुक्तम्, भर्तृशब्दस्य याजकादित्वेन समासाऽवश्यम्भावादित्याशङ्क्याह– पत्यर्थभर्तृशब्दस्येति। यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्यैव तत्र ग्रहणम्, न तु यौगिकस्येति भावः। शेषषष्ठ\उfffदेति। न्यासकारस्तु तृन्नन्तमेतत् `न लोके'ति निषेधस्त्वनित्यः, `त्रकाभ्या'मिति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह। केचुत्तु– `जनिकर्तुः', `तत्प्रयोजको हेतुश्चे'ति निर्देशादनित्योऽयं समासनिषेधैत्याहुः। तन्मन्दम्। शेषषष्ठीसमासेनोक्तनिर्देशोपपत्तेः।

Satishji's सूत्र-सूचिः

TBD.