TBD.
समुदाया एव निपात्यन्ते। मयूरव्यंसकाऽदयः शब्दाः तत्पुरुषसंज्ञा भवति। चकारो ऽवधारणार्थः , परममयूरव्यंसकः इति समासान्तरं न भवति। मयूरव्यंसकः। छात्रव्यंसकः। काम्बोजमुण्डः। यवनमुण्डः। छन्दसि हस्तेगृह्य। पादेगृह्य। लाङ्गलेगृह्य। पुनर्दाय। एहीडादयो ऽन्यपदार्थे एहीडम्। एहियवं वर्तते। एहिवाणिजाक्रिया। अपेहिवाणिजा। प्रेहिवाणिजा। एहिस्वागता। अपोहिस्वागता। प्रेहिस्वागता। एहिद्वितीया। अपेहिद्वितीया। इहवितर्का। प्रोहकटा। अपोहकटा। प्रोहकर्दमा। अपोहकर्दमा। उद्धरचूडा। आहरचेला। आहरवसना। आहरवनिता। कृन्तविचक्षणा। उद्धरोत्सृजा। उद्धमविधमा। उत्पचिविपचा। उत्पतनिपता। उच्चावचम्। उच्चनीचम्। अचितोपचितम्। अवचितपराचितम्। निश्चप्रचम्। अकिञ्चनम्। स्नात्वाकालकः। पीत्वास्थिरकः। भुक्त्वासुहितः। प्रोष्यपापीयान्। उत्पत्यपाकला। निपत्यरोहिणी। निषण्णाश्यामा। अपेहिप्रसवा। इहपञ्चमी। इहद्वितीया। जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति जहिजोडः। उज्जहिजोडः। जहिस्तम्बः। उज्जहिस्तम्बः। आख्यातमाख्यातेन क्रियासातत्ये अश्नीतपिबता। पचतभृज्जता। खादतमोदता। खादतवमता। खादताचमता। आहरनिवपा। आवपनिष्किरा। उत्पचच्विपचा। भिन्धिलवना। छिन्धिविचक्षना। पचलवना। पचप्रकूटा। अविहितलक्षनस् तत्पुरुषो मयूरव्यंसकाऽदिषु द्रष्टव्यः। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ द्वितीयाध्यायस्य प्रथमः पादः। द्वित्तियो ऽध्ययः द्वितीयः पादः
TBD.
–
744 मयूरव्यंसका। एते निपात्यन्त इति। कृतसमासकार्या निर्दिश्यन्त इत्यर्थः। मयूरव्यंसक इति। व्यंसकश्चासौ मयूरश्चेति विग्रहः। व्यंसको धूर्त इति। ?त्र कोशो मृग्यः। गुणवचनत्बाद्ब्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम्। उच्चावचमिति। उदक्शब्दस्य उच्चेत्यादेशः। अवाक्शब्दस्य अवचादेशश्च। उच्चावचयं नैकबेद'मित्यमरः। निश्चप्रचमिति। निश्चितशब्दस्य निश्चादेशः। प्रचितशब्दस्य प्रचादेशः। नास्ति `किंचनेति। चनेत्यव्ययमप्यर्थे। नास्ति किमपि यस्येत्यर्थे बहुव्रीह्रपवादस्त्रिपदस्तत्पुरुषः। नञो नकारस्य लोपश्च निपात्यते। `नलोपो नञः' इति तु नात्र प्रवर्तते, किंशब्दस्य उत्तरपदत्वाऽभावात्, समासचरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात्। नास्ति कुत इति। कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः। अकुतोभय इति। बहुव्रीह्रपवादस्तत्पुरुषः। राजान्तरमिति। अत्राऽन्तरशब्दोऽन्यपर्यायः। तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात्। नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम्। अत्र अन्तरशब्दस्य परनिपातः। चिन्मात्रमिति। `मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः। नित्यसमासत्वसूचनाय अस्वपदविग्रहः। निपातनादनुनासिकनित्यतेत्याहुः। आख्यातमिति। गणसूत्रम्। क्रियासातत्ये गम्ये तिङन्तं तिङन्तेन समस्यते, स तत्पुरुष इत्यर्थः। अश्नीतपिवतेति। इहाऽसुबन्तत्वेऽपि समासः। क्रियारूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप्। एवं पचतभृज्जतेत्यादावपि। एहीजादय इति। इदमपि गणसूत्रम्। अन्यपदार्थधे एहीडादयो निपात्यन्त इत्यर्थः। एहि ईडे इति विग्रहः। `ईडे' इति लडुत्तमपुरुषैकवचनम्। डकारादेकारस्य अकारादेशः। एहियवमिति। `यौमी'त्यस्य यवादेशः। `उत्सृजे'त्यस्य विवरणं-देहीति। इह पाठ इति। एहीडादिष्वत्यर्थः। `जहि कर्मणा बहुल'मित्यपि गणसूत्रम्। कर्ताऽभिधीयते। इति। उक्तेः कर्तेत्यर्थः। जहिजोड इति। `जोड' इति कस्यचित्संज्ञा। जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। जहि स्तम्बं, जहि स्तम्बमिति य आहेति विग्रहः। [इति समानाधिकरणाधिकारः]।
659 मयूर। चकारोऽत्रावधारणार्थः। तेन `परमयूरव्यंसकः'इत्यादि समासान्तरं न भवति। धूर्त इति। एवं च गुणवचनत्वात्पूर्व निपाते प्राप्ते इदं वचनमारब्धमिति भावः। अन्ये तु `मयूर इव व्यंसको मयूरव्यसक'इत्यादौ `उपमनानि सामान्यवचनै'रिति समासस्यापवादोऽयम्। तेन `समासस्ये त्यन्तोदात्तत्वमिह सिध्यिति, `तत्पुरुषे तुल्यार्थे'त्युपमानपूर्वपदप्रकृतिस्वरस्योपमानसंशब्दनेन विहिते प्रतिपदोक्तसमासे चरितार्थत्वादित्याहुः। अश्रीतपिवतेति। इह क्रिया रूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप्। एवमग्रेऽपि। राजन्तरामिति। अन्तरशब्दोऽत्र भिन्नवाची। चिन्मात्रमिति। `मात्रं कार्त्स्न्येऽवधारणे'इत्यमरः। अन्तर– मात्रशब्दाभ्यां सह नित्यसमास इत्युभयत्राऽस्वपदविग्रहोदर्शितः। नित्यसमासत्वं त्ववधारणार्तकचकारेण लब्धमित्याहुः। उद्धर कोष्ठादित्यादि। उद्धर उत्सृजेत्येतावानेव विग्रहः। उत्सृजेत्यस्य विवरणं–देहीति। कोष्ठादिति तूद्धरेत्यस्याकाङ्क्षापूरणार्थमुक्तम्। समासेन चेत्कर्तेति। `जहि जोड'मित्याभीक्ष्ण्येन य आह स जहिजोडः। एवं जहि स्तम्बमिति य आह स जहिस्तम्बः।
TBD.