Table of Contents

<<2-1-41 —- 2-1-43>>

2-1-42 ध्वाङ्क्षेन क्षेपे

प्रथमावृत्तिः

TBD.

काशिका

ध्वाङ्क्षेण इत्यर्थग्रहनम्. धवाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने. तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः. अनवस्थितः इत्यर्थः. तीर्थकाकः. तीर्थवायसः. क्षेपे इति किम्? तीर्थे ध्वाङ्क्षस्तिष्थति.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

710 ध्वाङ्क्षेण क्षेपे। `ध्वांक्षे'त्यर्थग्रहणम्, व्याख्यानात्। तदाह– ध्वाङ्क्षवाचिनेति। `क्षेप'पदं व्याचष्टे–निन्दायामिति। तीक्र्षध्वाङ्क्ष इति। ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः। एवं हि निन्दा भवति। अर्थग्रहणस्य प्रयोजनमाह–तीर्थकाक इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.