Table of Contents

<<2-1-40 —- 2-1-42>>

2-1-41 सिद्धशुष्कपक्वबन्धैश् च

प्रथमावृत्तिः

TBD.

काशिका

सप्तमी इति वर्तते। सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। शुष्क आतपशुष्कः। छायाशुष्कः। पक्व स्थालीपक्वः। कुम्भीपक्वः। बन्ध चक्रबन्धः। बहुलग्रहणस्य एव अयम् उदाहरणप्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

709 सिद्धशुष्क। `सप्तमी'त्यनुवर्तते। तदाह–एतैः सप्तम्यन्तमिति। साङ्काश्यसिद्ध इति। सङ्खाशेन निर्वृत्तं नगरं साङ्काश्यम्। तत्र सिद्धः=उत्पन्नो ज्ञातो वेत्यर्थः। आतशुष्क इति। आतपे शुष्क इति विग्रहः। स्थालीपक्व इति। स्थाल्यां पक्व इति विग्रहः। `चक्रबन्ध इति। चक्रे बन्ध इति विग्रहः। शौण्डादिगणे एतेषां पाठाऽभावात्पृथगुक्तिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.