Table of Contents

<<1-4-82 —- 1-4-84>>

1-4-83 कर्मप्रवचनीयाः

प्रथमावृत्तिः

TBD.

काशिका

कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः कर्मप्रवचनीय. संज्ञास्ते वेदितव्याः अधिरीश्वरे 1-3-97 इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया 2-3-8 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

538 कर्मप्रवचनीयाः। इत्यधिकृत्येति। `प्राग्रीस्वरान्निपाताः' इति पर्यन्तमिति बोध्यम्।

तत्त्वबोधिनी

484 कर्मप्रवचनीयाः। इत्यधिकृत्येति। रू\उfffदारात्प्रागिति बोध्यम्। गुरुसंज्ञाकरणमन्वर्थत्वाय। कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः। बाहुलकाद्भूते कर्तर्यनीयर्। तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते। तथा च हरिः–`क्रियाया द्योतको नाऽयं सम्बन्खस्य न वाचकः। नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः'इति। तथाहि `जपमनु प्रावर्ष'दित्यत्र अनुना न क्रियाविशेषो द्योत्यते, `अनुभूयते सुख'मित्यदौ यथा। नापि षष्ठ\उfffदेव सम्बन्ध उच्यते, द्वितीययैवो तस्योक्तत्वात्। नापि `प्रादेशं विपरिलिखति'विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात्। किं तु जपसम्बन्धि वर्षणमिति द्वितीययावगतः सम्बन्धो लक्ष्यलक्षणभाव एवेत्यवगमात्सम्बन्ध एवानुना विशेषेऽवस्थाप्यते। क्विचित्तु क्रियागतविशेषद्योतकेऽपि इयं संज्ञा वचनात्प्रवर्तते। `सुःपूजायाम्'`अतिरतिक्रमणे च 'इति यथा। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञ इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.