Table of Contents

<<1-4-73 —- 1-4-75>>

1-4-74 साक्षात्प्रभृतीनि च

प्रथमावृत्तिः

TBD.

काशिका

विभाषा कृञि इति वर्तते। साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति। साक्षात्प्रभृतिषु च्व्यर्थवचनम्। साक्षात्कृत्य, साक्षात् कृत्वा। मिथ्याकृत्य, मिथ्या कृत्वा। साक्षात्। मिथ्या। चिन्ता। भद्रा। लोचन। विभाषा। सम्पत्का। आस्था। अमा। श्रद्धा। प्राजर्या। प्राजरुहा। वीजर्या। वीजरुहा। संसर्या। अर्थे। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। गतिसंज्ञासंनियोगेन लवणादीनाम् मकारन्तत्वम् निपात्यते। अग्नौ। वशे। विकम्पते। विहसने। प्रहसने। प्रतपने। प्रादुस्। नमस्। आविस्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

765 साक्षात्प्रभृतीनि च। शेषपूरणेन सूत्रं व्याचष्टे–कृञि वेति। साक्षादित्यव्ययम्। वक्तव्यमित्यर्थः। साक्षात्कृत्येति। अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः। गतित्वपक्षे क्त्वो ल्यप्। तत्र सुब्लुकमाशङ्क्याह–मान्तत्वमिति। लवणम्, उष्णम्, शीतम्, उदकम्, आमिति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यत इत्यर्थः।

तत्त्वबोधिनी

675 साक्षात्कृत्येति। असाक्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः। च्व्यन्तेषु तु पूर्वविप्रतिषेधात् `ऊर्यादिच्विडाचश्चे'ति नित्यैव गतिसंज्ञा। तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति। तद्धि पाक्षिकं। गतिसंज्ञासंनियोगेनेह गणे निपातनात्। भाष्यकृता `लवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द आदिश्यते तस्य च संज्ञाविकल्प'इत्युक्तम्। उभयथापि त्रैरूप्यं निर्बाधम्।

Satishji's सूत्र-सूचिः

TBD.