Table of Contents

<<1-4-72 —- 1-4-74>>

1-4-73 उपाजे ऽन्वाजे

प्रथमावृत्तिः

TBD.

काशिका

विभाषा कृञि इति वर्तते। उपाजे ऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते। तौ कृञि विभाषा गतिसंज्ञौ भवतः। उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

764 उपाजेऽन्वाजे। उपाजेकृत्येति। गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप्। अन्वाजेकृत्येत्यपि तथैव `उपाजे' `अन्वाजे' इत्यव्यये दुर्बलस्य बलाधाने वर्तेते। तदाह–दुर्बलस्येति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.