Table of Contents

<<1-4-36 —- 1-4-38>>

1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः

प्रथमावृत्तिः

TBD.

काशिका

अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमा ईर्ष्या। गुणेषु दोषाविष्करणम् असूया। क्रुधाद्यर्थानाम् प्रयोगे यं प्रति कोपः, तत् कारकं सम्प्रदानसंज्ञम् भवति। क्रोधस्तावत् कोप एव। द्रोहादयो ऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेसणम् यं प्रति कोपः इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्ताय ईर्ष्यति। देवदत्ताय असूयति। यम् प्रति कोपः इति किम्? भार्याम् ईर्ष्यति, मा एनाम् अन्यो द्राक्षीतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

567 क्रुधद्रुह। क्रुधाद्यर्थानामिति। `क्रुध क्रोधे' `द्रुह द्रोहे' श्यन्विकरणौ। `ईष्र्य ईष्र्यायां' शब्विकरणः। `असूञ् उपतापे' कण्ड्वादिः। एषामर्था एवार्था येषामिति विग्रहः। हरये क्रुध्यतीति। `रावणादि'रिति शेषः। हरिविषयकं कोपं करोतीत्यर्थः। घातेच्चासमनियतश्चित्तवृत्तिविशेषः कोपः। अकर्मकत्वात्षष्ठी प्राप्ता। द्रुह्रतीति। कोपाद्धरिविषयकमपकारं करोतीत्यर्थः। अकर्मकत्वात्षष्ठी प्राप्ता। अपकारो दुःखजनिका क्रिया। धात्वर्थोपसङ्ग्रहादकर्मकः। ईष्र्यतीति। ईष्र्या असहनम्। हरिं कोपान्न सहत इत्यर्थः। कर्मणि द्वितीया प्राप्ता। असूयति वेति। असूया गुणेषु दोषारोपः। यथाविहितकर्माचारे दम्भादिकृत्वारोपणम्। इहग कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः। मैनामिति। एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः। नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम्। एवंच क्रोधद्रोहेष्र्यासूयानां कोपमूलकत्वएवेदमिति भाष्ये स्थितम्। तथाच कुप्यति कस्मै चिदित्याद्यसाध्वेव, कोपमूलकत्वाऽभावात्क्रुधार्थकत्वाऽभावाच्च। प्ररूढकोप एव हि क्रोधः, `नह्रकुपतः क्रुध्यति' इति भाष्यात्।

तत्त्वबोधिनी

511 क्रुधद्रुह। `क्रुधे क्रोधे', द्रुह जिघांसायाम्', `ईष्र्य ईष्र्यायाम्', असूयतिः कण्ड्वादियगन्तः, एषामर्थ इवार्थे येषां धातूनामित्यर्थः। द्रोहोऽपकार इति। द्रुह द्रोहे'इति पाठाभिप्रायेणोक्तं, जिघांसाद्रोह एवेत्यर्थतोऽनुभाषणं वा। अक्षमेति। परसंपत्त्यसहनमित्यर्थः। क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोस्तु सकर्मकत्वाद्द्वितीया प्राप्ता। ननु चित्तदोषार्थानामित्येवास्तु, किं क्रोधादीनां विशिष्योपादानेनेति चेत्?अत्राहुः– द्विषादावतिप्रसङ्गवारणाय विशिष्योपादानम्। तेन `योऽस्मान्द्वेष्टि यं च वयं द्वि ष्मः' इत्यत्र चतुर्थी न भवति। तत्र ह्रनभनन्दनं द्विषेरर्थः। अत एवाऽचेतनेषु न प्रयुज्यते `–औषधं द्वेष्टि देवदत्त'मिति। कोपप्रभवा एवेति। कथं तर्हि `कुप्यसि कस्मैचित्'इति। न हि कोपः कोपप्रभवः। अत्र व्याचख्युः–कुपिरत्र द्रोहार्थ इति। पत्ये शेते इतिवत् `क्रिययायम्—' इत्येव सिद्धे क्रुधद्रुहोग्र्रहणं चिन्त्यप्रयोजनमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.