TBD.
रमः इत्येव। उपपुर्वात् रमतेः प्रस्मैपदं भवति। देवदत्तम् उपरमति। जज्ञदत्तम् उपरमति। उपरमयति इति यावत्। अन्तर्भावितन्यर्थो ऽत्र रमिः। पृथग् योगकरणम् उत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात्।
TBD.
753
575 उपाच्च। उपपूर्वादपि रमेः परस्मैपदमित्यर्थः। उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तये `व्याङ्पर्युपेभ्यो रमे'रिति नोक्तम्। अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात्। अतः सकर्मकमुदाहरति– यज्ञदत्तमुपरमतीति। ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह– उपरमयतीत्यर्थ इति। ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह– अन्तर्भावितण्यर्थोऽयमिति। धातूनामनेकार्थत्वादिति भावः।
473 उपाच्च। `व्याङपर्युपेभ्यः' इति नोक्तम्, उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति।
TBD.