Table of Contents

<<1-3-47 —- 1-3-49>>

1-3-48 व्यक्तवाचां समुच्चारणे

प्रथमावृत्तिः

TBD.

काशिका

वदः इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्। तत्र वर्तमानाद् वदतेरात्मनेपदं भवति। ननु वद व्यक्तायां वाचि इत्येव पठ्यते, तत्र किं व्यक्तवाचाम् इति विशेषणेन? प्रसिद्ध्युपसंग्रहार्थम् एतत्। व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः। तेषां समुच्चारणे यथा स्यात्। संप्रवदन्ते ब्राह्मणाः। संप्रवदन्ते क्षत्रियाः। व्यक्तवाचाम् इति किम्? संप्रवदन्ति कुक्कुटाः। समुच्चारणे इति किम्? ब्राह्मणो वदति। क्षत्रियो वदति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

545 व्यक्तवाचाम्। व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः। समित्येकीबावे। तदाह– मनुष्यादीनामिति। संप्रवदन्ते ब्राआहृणा इति। संप्रवदन्ते ब्राआहृणा इति। संभूयोच्चारयन्तीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.