Table of Contents

<<1-3-46 —- 1-3-48>>

1-3-47 भासनौपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः

प्रथमावृत्तिः

TBD.

काशिका

शेषात् कर्तरि परस्मैपदे प्राप्ते भासनाऽदिशु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति। भासनं दीप्तिः वदते चार्वी लोकायते। भासमानो दीप्यमानस् तत्र पदार्थान् व्यक्तीकरोति इत्यर्थः। उपसम्भाषा उपसान्त्वनम् कर्मकरानुपवदते। उपसान्त्वयति इत्यर्थः। ज्ञानं सम्यगवबोधः वदते चार्वी लोकायते। जानाति वदितुम् इत्यर्थः। यत्न उत्साहः क्षेत्रे वदते। गेहे वदते। तद्विषयम् उत्साहम् आविष्करोति इत्यर्थः। विमतिर्नानामतिः क्षेत्रे विवदन्ते। गेहे विवदन्ते। विमतिपतिता विचित्रं भाषन्ते इत्यर्थः। उपमन्त्रणं रहस्युपच्छन्दनम् कुलभार्याम् उपवदते। परदारानुपवदते। उपच्छन्दय्ति इत्यर्थः। एतेषु इति किम्? यत् किञ्चिद् वदति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

244 अजन्तस्येत्येव. श्रीपं ज्ञानवत्..

बालमनोरमा

544 भासनोपसंभाषा। `आत्मनेपद'मिति शेषः। इतरे इति। भासनज्ञानादय इत्यर्थः। प्रयोगोपाधय इति। इदं `सम्माननोत्सञ्जने'त्यत्र व्याख्यातं प्राक्। भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः। शास्त्रे वदते इति। विषयसप्तम्येषा इति। भासमान इति। नवनवयुक्तीरुल्लिखतीत्यर्थः। शास्त्रे वदते इति - विषसप्तमी। व्यवहरतीत्यर्थः। व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम्। ज्ञात्वा व्यवहरतीति फलितम्. क्षेत्रे विवदन्ते इति। विरुद्धं व्यवहरन्तीत्यर्थः। विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति। उपपूर्वस्य वदेः प्रार्थनमर्थः। तदाह– प्रार्थयते इत्यर्थ इत।

तत्त्वबोधिनी

457 भसनोपसंभाषा। एषु किम् ?। य\उfffद्त्कचिद्वदति।

Satishji's सूत्र-सूचिः

TBD.