Table of Contents

<<1-3-38 —- 1-3-40>>

1-3-39 उपपराभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

वृत्तिसर्गतायनेषु इति वर्तते। उपपरापूर्वात् क्रमतेर् वृत्त्यादिश्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हि इदम् उच्यते? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, न अन्यपूर्वातिति। उपक्रमते। पराक्रमते। उपपराभ्याम् इति किम्? सङ्क्रामति। वृत्त्यादिष्वित्येव। उपक्रामति। पराक्रामति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

569 राधीक्ष्योः। यदीय इति। यद्विषयक इत्यर्थः। `विप्रश्न' इत्येतद्व्याचष्टे– विविधः प्रश्न इति। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्ग इति। गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः। `राध संसिद्धौ ' `ईक्ष दर्शने'। इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, `यस्य विप्रश्न' इति लिङ्गात्। तदाह–शुभाशुभं पर्योलोचयतीत्यर्थ इति। अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ। अत एव राध्यतीति श्यन्नुपपद्यते। अन्यथा `राधोऽकर्मकादि'ति नियमाच्छ्यन्न स्यात्। एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः। कृष्णस्य संप्रदानत्वं। षष्ठ\उfffद्पवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.