Table of Contents

<<1-3-23 —- 1-3-25>>

1-3-24 उदो ऽनूर्ध्वकर्मणि

प्रथमावृत्तिः

TBD.

काशिका

उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वताविशिष्टक्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेहे उतिष्ठते। कुटुम्बे उत्तिष्ठते। तदर्थं यतते इत्यर्थः। उद ईहायाम् इति वक्तव्यम्। इह मा भूत्, अस्माद् ग्रामात् शतम् उत्तिष्ठति। शतम् उत्पद्यते इत्यर्थः। ईहग्रहणम् अनूर्ध्वकर्मण एव विशेषनं, न अपवादः। अनूर्ध्वकर्मणि इति किम्? आसनादुत्तिष्ठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

516 उदोऽनुध्र्वकर्मणि। ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म। तद्भिन्नमनूध्र्वकर्म। तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः। मुक्तावुत्तिष्ठते इति। गुरूपगमनादिना यतते इत्यर्थः। पीठादुत्तिष्ठतीति। उत्पततीत्यर्थः। ईहायामेव - इति वार्तिकम्। ईहा कायपरिस्पन्दः। ग्रामाच्छतमुत्तिष्ठतीति। उत्पद्यत इत्यर्थः।

तत्त्वबोधिनी

441 उदोऽनुर्द्ध्वकर्मणि। `स्थ' इत्यनुवर्तते। ऊर्द्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्द्ध्वकर्म। `उदोऽनूर्ध्वे' इत्युक्तेऽप्यनूध्र्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव, तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह– ईहायामेवेति। इच्छापूर्विका चेष्टा– ईहा। सा च `ग्रामाच्छत'मित्यत्र नास्ति।

Satishji's सूत्र-सूचिः

TBD.