Table of Contents

<<1-3-22 —- 1-3-24>>

1-3-23 प्रकाशनस्थेयाऽख्यहोश् च

प्रथमावृत्तिः

TBD.

काशिका

स्वाभिप्रायकथनं प्रकाशनम्। स्थेयस्य आख्या स्थेयाख्या। तिष्ठत्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः। तस्य प्रतिपत्त्यर्थम् आख्याग्रहणम्। प्रकाशने स्थेयाऽख्यायां च तिष्ठतेरात्मनेपदं भवति। प्रकाशने तावत् तिष्ठते कन्या धात्रेभ्यः। तिष्ठते वृषली ग्रामपुत्रेभ्यः। प्रकाशयत्यात्मानम् इत्यर्थः। स्थेयाऽख्यायाम् त्वयि तिष्ठते। मयि तिष्ठते। संशय्य कर्णादिषु तिष्ठते यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

515 प्रकाशन। प्रकाशनं– स्वाभिप्रायाविष्करणम्। स्थेयः– विवादपदनिर्णेता। तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे `अचो यत्' इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः। `स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते' इति मेदिनी। इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः। आख्या = अभिधानम्। प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः। प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति। `श्लाघह्नुङ्स्थाशपा'मिति संप्रदानत्वाच्चतुर्थी। स्थेये उदाहरति- - संशय्येति। कर्णादिष्विति विषयसप्तमी। फलितमाह– कर्णादीनिति।

तत्त्वबोधिनी

440 प्रकाशन। प्रकाशनं – ज्ञापनम्। स्थेयो– विवादपदनिर्णेता, तिष्ठन्तेऽस्मिन् विवादपदनिर्मयार्थमिति व्युत्पत्तेः। बाहुलकादधिकरणे `अचो यत्' `स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी। कर्णादिष्विति अधिकरणे सप्तमी। तेषां स्थेयत्वं `तिष्ठते'इत्यात्मनेपदेन द्योत्यते। तमेवाऽर्थमाह– कर्णादानिति। प्रकाशनेत्यादि। चैत्रे तिष्ठति।

Satishji's सूत्र-सूचिः

TBD.