Table of Contents

<<1-2-63 —- 1-2-65>>

1-2-64 ससूपाणाम् एकशेष एकविभक्तौ

प्रथमावृत्तिः

TBD.

काशिका

समानं रूपम् एषाम् इति सरूपाः। सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति। एकः शिष्यते तरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च Vर्क्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशान् न एकेन अनेकस्य अभिधानम्। तत्र अनेकार्थाभिधाने ऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः। सरुपाणाम् इति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्ने ऽप्यर्थे यथा स्यात्। अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहनं किम्? आदेशो मा भूत्। एकविभक्तौ इति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

125 एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते..

बालमनोरमा

187 अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते–सरूपाणाम्। `एकविभक्ता'विति `सरूपाणा' मित्यत्रान्वेति। समानं रूपं येषां तानि सरूपाणि। ज्योतिर्जनपदेत्यादिना समानस्य सभावः। निर्धारणषष्ठी। `वृद्धो यूने'त्युत्तरसूत्रादेवेत्यपकृष्यते। शिष्यते इति शेषः। कर्मणि घञ्। एकश्चासौ शेषश्चेति पूर्वकालैकेति समासः। एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यते इति फलति। तदाह–एकविभक्ताविति। एवेति कम् ?। मातृशब्दस्तावज्जननीवाची परिच्छेतृवाची च। त्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः। यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति। तथापि एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानित्यर्थो विवक्षितः। एतद्दयोतनायैव एकविभर्तावित्यत्र `एक'ग्रहणम्। एवकारापकर्षसिद्धार्थकथनपरमेकग्रहणं स्पष्टार्थमेवेति केचित्। `एकशेष' इत्येकपदोपादानं तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम्। `शेष' पदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात्। ततश्च अ\उfffदाश्च अ\उfffदाश्चेति द्वयुदात्तवतः स्थाने द्व्युदात्तवानादेशः स्यात्। तन्निवृत्त्यर्थं शेषग्रहणम्। एकविभक्ताविति सारूप्ये उपलक्षणम्। न तु एकविभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम्, जननीपरिच्छेत्तृवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम्। अत्र `तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ' इति पूर्वसूत्राद्द्वन्द्व इत्यनुवर्त्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम्। ततश्च `देवदवः' `राजराज' इत्यादौ नैकशेषः। द्वन्द्वापवाद एकशेष इति फलितम्। यद्यप्यनैमित्तिकत्वादन्तरह्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते, तथापि द्वन्द्वापवाद एवायम्। असति ह्रेकशेषे सुबुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात्। सति तु अनेकसुबन्तीविरहाद्द्वन्द्वस्याऽप्राप्तिः फलिता। घटश्च घटश्च घटश्च तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः, अनभिधानात्। द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम्। `पन्थान' इत्यादौ ऋक्?पूरित्यादिसमासान्तापत्तेः। करावित्यादौ `द्वन्द्वश्च प्राणितूर्ये'त्याद्यापत्तेः। पूर्वसूत्रादिह द्वन्द्वग्रहणानुवृत्तौ च `इदितो नुम्धातो'रित्यत्र `इदित' इति निर्देशो लिङ्गम्। इत्=इकार इत्संज्ञको यस्य स इदित्। अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाऽभावान्नैकशेषः। अन्यथा तत्राप्येकशेषः स्यादित्यलम्। इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना। वृदिं?ध बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति। तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः।

तत्त्वबोधिनी

156 सरूपाण्येवेति। एतच्च उत्तरसूत्रस्थस्यैवकारस्येहानुकर्षणाल्लभ्यते। अत्र च `एकस्यापि विभक्तौ परतो विरूपाणि न दृष्टानी'ति पर्यवसन्नोऽर्थः, तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचनिनोर्नैकशेषः, `मातृभ्यां' `मातृभि'रित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात्। नन्वेवं `पयः पयो नयति' `देवदेवे'त्यादावतिप्रतिप्रसङ्ग स्यादेवेति चेत् ; उच्यते-सहविविक्षायामेवैकशेषः प्रवर्तते। इतरेतरयोगद्वन्द्वस्य विषय इति यावत्। यत्र ह्रनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः। इदं च `इदितो नुम्धातो'रिति लिङ्गाल्लभ्यते, न्यायाच्च। तथाहे-`यः शिष्यते स लुप्यमानार्थाभिधायी'ति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वयितुमर्हति। यद्वा `तिष्यपुनर्वस्वो'रिति सूत्राद्द्वन्द्वे इत्यनुवर्त्त्य `द्वन्द्वे प्रसक्ते सती'ति व्याख्येयं, न तु द्वन्द्वे कृते सती'ति। `पन्थानौ' `पन्थान' इत्यादौ `ऋक्पूरब्धू'रित्यादिना समासान्तापत्तेः, `करौ'`करा' इत्यादौ `द्वन्द्वश्च प्राणितूर्ये'त्यादिना एकवद्भावापत्तेश्चेति दिक्। सूत्रे `शेष' शभ्दः कर्मसाधन इत्याह-एक एव शिष्यत इति। असत्येकग्रहणे द्विबह्वोरपि शेष#ः स्यादित्येकग्रहणम्। न चैवमप्येकविभक्तावित्यत्र एकग्रहणं व्यर्थमिति शङ्क्यम्, `एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानी'व्यर्थलाभाय तस्यावश्यकत्वात्। किंच `स्वसा च स्वसारौ चे'त्यादौ विभक्तौ परतः पूर्वभागयोर्वैरूप्यदर्शनात्स्वसार इत्येकशेषस्तत्र न स्यात्। तथा `स्वसरि च स्वस्त्रोश्चे'त्यत्र वैरूप्यदर्शनात्स्वसृष्विति न स्यात्। किं तु `कमलौ' `कमल' इत्यादिष्वेव स्यात्। कृते त्वेकग्रहणे नायं दोषः प्रसज्यते। एकविभक्तौ परतः पूर्वत्र वैरूप्याऽदर्शनात्। यदा तु विभक्तावित्यत्रैकत्वस्य विवक्षितत्वान्मास्त्वत्र एकग्रहणमित्युच्यते, तर्हि स्पष्टप्रतित्त्यर्थमेवास्त्विति केचित्। अन्ये त्वाहुः- एकग्रहणमेकैकविभक्तावित्यर्थलाभार्थम्। तथा च सकलविभक्तावित्यर्थलाभादेवकारापकर्षणं विनैव सिद्धमिष्टमिति दिक्।\र्\नेकश्च एकश्च द्वौ च द्वौ चेत्यादावेकशेषो न भवत्यनभिधानात्। द्वन्द्वोऽप्यत्रानभिधानेनैव वारणीयः। उत्सर्गतः सङ्ख्याशब्दे\उfffदोवमेव। विंशत्यादौ त्वेकशेष इष्ट एवेति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.