Table of Contents

<<1-2-62 —- 1-2-64>>

1-2-63 तिष्यपुनर्वस्वोर् नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। निष्यपुनर्वस्वोः नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गो नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोः इति किम्? विशाखानुराधाः। नक्षत्रे इति किम्? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतम् एव नक्षत्रग्रहणं किमर्थं पुनरुच्यते। पर्यायाणाम् अपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्वे इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः। उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एव अयम्। बहुवचनस्य इति किम्? एकवचनस्य मा भूत्। निष्यपुनर्वसु इदम् इति। सर्वो द्वन्द्वो विभाषा एकवद् भवति इत्यस्य एतद एव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

810 तिष्यपुनर्वस्वो। विशाखानुराधा इति। विशाखे च अनुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यश्च पुनर्वसू चेति विग्रहः। तिष्यशब्दात्पुनर्वसुशब्दाच्च `नक्षत्रेण युक्तः' इत्यण्। `लुबविशेषे' इति लुप्। ततो जातार्थे सन्धिवेलाद्यण्। `श्रविष्ठाफल्गुनी'त्यादिना लुक्। `जात्याख्याया'मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या।

तत्त्वबोधिनी

711 तिष्यपुनर्वस्वोः। विशाखानुराधा इति। विशाखे चानुराधाश्चेति विग्रहः। तिष्यपुनर्वसव इति। तिष्यपुनर्वसुशब्दाभ्यां पूर्ववत् `नक्षत्रेण युक्तः कालः'इत्यण्, `लुबविशेषे'इति च लुप्। ततो जातार्थे सन्धिवेलादिसूत्रेण अण्, तस्य तु `श्रविष्ठाफल्गुन्यनुराधे'त्यादिना लुक्। नक्षत्र इत्यनुवर्तमाने पुनर्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकारः। एवं च `सिध्यपुनर्वसू'इत्यपि सिध्यतीति दिक्। बहुवचनस्य किम्?।, इदं तिष्यपुनर्वसु। `चार्थे द्वन्द्व'इति समाहारद्वन्द्वोयम्।

Satishji's सूत्र-सूचिः

TBD.