TBD.
चकारो द्वयोः इत्यनुकर्षणार्थः। फल्गुन्योर् द्वयोः प्रोष्ठपदयोश्च द्वयोर् नक्षत्रयोर् बहुवचनम् अन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रे इति किम्? पल्गुन्यौ मणविके।
TBD.
–
809 फल्गुनी। `नक्षत्रे' इति प्रथमाद्विवचनम्। नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः। तदाह–द्वित्वे इति। पूर्वं प्रोष्ठपदे इति। स्त्रीत्वादौङः शीभावः। `प्रोष्ठपदा भाद्रपदा स्त्रिया'मित्यमरः। फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः। `नक्षत्रेण युक्तः' इत्यण्। `लुबविशेषे' इति लुप्। ततो जातार्थे `फल्गुन्यषाढाभ्यां टाऽनौ' इति टः। टित्त्वान्ङीप्।
710 फल्गुनीप्रोष्ठपदानां च। चकारेण द्वयोरनुकर्षणादाह–द्वित्व इति। फल्गुन्यौ माणविके इति। फल्गुनीशब्दात् `नक्षत्रेण युक्तः कालः ' इत्यण्। तस्य `लुबविशेषे'इति लुप्। ततो जातार्थे `फल्गुन्यषाढाभ्यां टाऽनौ'इति टः। टित्त्वन्ङीप्। न चायं गौणः, यौगिकत्वात्। तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः।
TBD.