Table of Contents

<<1-2-33 —- 1-2-35>>

1-2-34 यज्ञकर्मण्यजपन्यूङ्खसामसु

प्रथमावृत्तिः

TBD.

काशिका

त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते। तेषां यज्ञक्रियायाम् अपि तथैव प्रयोगे प्राप्ते एकश्रुतिर् विधीयते जपन्यूङ्खसामानि वर्जयित्वा। यज्ञकर्मणि मन्त्राणाम् ऐकश्रुत्यं भवति। अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्। अपां रेतंसि जिन्वतो3म्। यज्ञकर्मणि इति किम्? सम्पाठे मा भूत्। अजपेष्विति किम्? ममाग्ने वर्चो विहवेष्वस्तु। जपो ऽनुकरणमन्त्र उपांशुप्रयोगः। अन्यूङ्खाइति किम्? न्यूङ्खा ओकाराः षोडश। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामसु इति किम्? विश्वं समत्रिणं दह। सामानि वाक्यविशेषस्थगीतय उच्यन्ते। तत्रैकश्रुतिर् न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.