Table of Contents

<<1-2-2 —- 1-2-4>>

1-2-3 विभाषाऊर्णोः

प्रथमावृत्तिः

TBD.

काशिका

इटिति वर्तते। ऊर्णुञाच्छादने, अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति। प्रोर्णुविता। प्रोर्णविता। इटित्येव प्रोर्णवनम्। प्रोर्णवतीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

604 इडादिप्रत्ययो वा ङित्स्यात्. ऊर्णुनुविथ, ऊर्णुनविथ. ऊर्णुविता, ऊर्णविता. ऊर्णुविष्यति, ऊर्णविष्यति. ऊर्णौतु, ऊर्णोतु. ऊर्णवानि. ऊर्णवै..

बालमनोरमा

278 विभाषोर्णोः। `गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते, `विज इ' डित्यत इडिति, –इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे– इडादीति। ऊर्णुनुविथेति। ङित्त्वपक्षे गुणाऽभावादुवङ्। ऊर्णुनविथेति। ङित्त्वाऽभावपक्षे गुणः। ऊर्णुनुवथुः ऊर्णुनुव। ऊर्णुनाव – ऊर्णुनव। लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह- - ऊर्णविता ऊर्णुवितेति। ऊर्णविष्यति ऊर्णुविष्यति। ऊर्णविष्यते– ऊर्णुविष्यते। लङि और्णुदिति स्थिते `ऊर्णोतेर्विभाषे'ति वृद्धिविकल्पे, गुणे च प्राप्ते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.