Table of Contents

<<1-1-29 —- 1-1-31>>

1-1-30 तृतीयासमासे

प्रथमावृत्तिः

TBD.

काशिका

तृतीयासमासे सर्वाऽदीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीयासमासार्थवाक्ये ऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। पूर्वसदृशसमौउनार्थकलहनिपुणमिश्रश्लक्ष्णैः 2-1-31 इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्यैदं ग्रहणम्। न यस्य कस्यचित् तृतीयासमासस्य। कर्तृ करणे कृता बहुलम् 2-1-32 इतित्वयका Kऋतम्, मयका कृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

221 तृतीयासमासे। `सर्वादीनी'त्यतः सर्वनामग्रहणम् , `न `बहिव्रीहा'वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह–इहेति। मासूपार्वायेति। मासेन पूर्व इति विग्रहः। हेतौ तृतीया। `पूर्वसदृशे'ति तृतीयातत्पुरुषसमासः। मासात्पूर्वभावीत्यर्थः। `विभाषा दिक्समासे बहुव्रीहा'वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह– तृतीयासमासार्थेति। द्वन्द्वे च। सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते।

तत्त्वबोधिनी

186 तृतीयासमासे। अत्र `विभाषा दिक्समासे' इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह–तृतीयासमासार्थेति। इह `पूर्वसदृशे'ति विहितः समासो गृह्रते, प्रतिपदोक्तत्वात्। न तु `कर्तृकरणे' इति समासः, तेन त्वयका कृत'मित्यत्र निषेधो न भवति। `ओकारसकारभकारादौ सुपी'ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच्।

Satishji's सूत्र-सूचिः

TBD.