Table of Contents

<<1-1-3 —- 1-1-5>>

1-1-4 न धातुलोप आर्धधातुके

प्रथमावृत्तिः

TBD.

काशिका

धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः। लोलुवः। पोपुवः। मरीमृजः। लोलूयाऽदिभ्यो यङन्तेभ्यः पचाऽद्यचि विहिते यङो ऽचि च 2-4-74 इति यङो लुकि कृते तम् एव अचम् आश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः। धातुग्रहणं किम्? लूञ्, लविता। रेडसि। पर्णं न वेः। अनुबन्धप्रत्ययलोपे मा भूत्। रिषेर्हिसार्थस्य विच्प्रत्ययलोप उदाहरणं रेटिति। आर्धधातुके इति किम्? त्रिधा बद्धो वृषभो रोरवीति इति। सार्वधातुके मा भूत्। इकः इत्येव अभाजि, रागः। बहुव्रीहिसमाश्रयणं किम्? क्नोपयति, प्रेद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

413 ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ `झलादौ क्ङिती'त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह– क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। `ज्वरत्वरे'त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु– जूर्तिः। जूर्णः। जूर्णवान्। त्वर– तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि– ऊः। उवौ। उवः।ऊतिः। मव– मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। `च्छ्वोः शू'डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं–तूः। तुरौ तुरः। धुर्वी– धूः। धुरौ। धुरः। मुच्र्छा–मूः। मुरौ। मुरः।

Satishji's सूत्र-सूचिः

वृत्तिः धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । A गुणः or वृद्धिः substitute (which would have otherwise taken place) is not allowed for a इक् letter when followed by a आर्धधातुक-प्रत्ययः which is the cause of elision of a portion of the verbal root.

Example continued from 2-4-74

लोलू + अ Note: 1-1-4 stops the गुणादेशः which would have been done by 7-3-84
= लोल् उवँङ् + अ 6-4-77, 1-1-53
= लोल् उव् + अ 1-3-2, 1-3-3, 1-3-9
= लोलुव

Since the affix “अच्” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “लोलुव” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
लोलुव + सुँ 4-1-2
= लोलुव + स् 1-3-2, 1-3-9
= लोलुवः 8-2-66, 8-3-15