Home » Example for the day » मन्त्री mNs

मन्त्री mNs

Today we will look at the form मन्त्री mNs from श्रीमद्भागवतम् 10.62.14.

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ।। १०-६२-१३ ।।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता ।। १०-६२-१४ ।।
कं त्वं मृगयसे सुभ्रूः कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ।। १०-६२-१५ ।।

तं कान्तमपश्यन्ती सा उत्तस्थौ ।। १३ ।। ततः किं वृत्तं तत्राह – बाणस्येति ।। १४ ।। हस्तग्राहं भर्तारम् ।। १५ ।।

Gita Press translation – Not finding him there (on opening her eyes), she got up in a state of excitement saying, “Where are you, my darling!” in the midst of her girl companions, and felt greatly abashed (13). Kumbhāṇḍa was the minister of Bāṇa and Citralekhā, his daughter. Full of curiosity she, a (constant) companion of Ūṣā, questioned her friend (thus) : – (14) O princess of charming eyebrows! whom are you looking for and what is the nature of your longing? I do not find till today anyone who has espoused you (15).

मन्त्रयत इति मन्त्री।

मन्त्री is derived from the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९).
The इकारः at the end of “मत्रिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) मत्रिँ = मत्र् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) म नुँम् त्र् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the अकार:) of the अङ्गम् “मत्र्”।

(3) मन्त्र् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) मन्त्र् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) मन्त्रि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

“मन्त्रि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(6) मन्त्रि + णिनिँ । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। Note: The word मन्त्री is listed in the नन्द्यादि-गण:।

(7) मन्त्रि + इन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) मन्त्र् + इन् = मन्त्रिन् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

‘मन्त्रिन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(9) मन्त्रिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) मन्त्रिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) मन्त्रीन् + स् । By 6-4-13 सौ च – The penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows. See easy question 2.

(12) मन्त्रीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। “मन्त्रीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(13) मन्त्री । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Where has a इदित् (one which has इकारः as a इत्) verbal root (like “मत्रिँ”) been used in a तिङन्तं पदम् in Chapter Six of the गीता?

2. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have seen in a prior comment) by which only आत्मनेपदम् may be used in the form मृगयसे?

3. Where has the affix “तृच्” been used in the commentary?

4. Which सूत्रम् is used for the “औ”-आदेशः in the form तस्थौ?

5. How would you say this in Sanskrit?
“I am a resident of India.” For “resident” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।

6. How would you say this in Sanskrit?
“All the students in this class are enthusiastic.” For “enthusiastic” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।

Easy Questions:

1. Can you spot an augment नुँट् in the verses?

2. In step 11 why do we need 6-4-13 सौ च? Why not just use 6-4-8 सर्वनामस्थाने चासम्बुद्धौ?


1 Comment

  1. 1. Where has a इदित् (one which has इकारः as a इत्) verbal root (like “मत्रिँ”) been used in a तिङन्तं पदम् in Chapter Six of the गीता?
    Answer: The verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) used in the form चिन्तयेत्। The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is a इदित्।

    शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया |
    आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ || 6-25||

    चितिँ = चित् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति । “चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    चिन्ति + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = चिन्ति + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = चिन्ति + त् । By 3-4-100 इतश्च।
    = चिन्ति + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = चिन्ति + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = चिन्ति + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = चिन्ति + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चिन्ते + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चिन्तय् + अ + यास् त् । By 6-1-78 एचोऽयवायावः।
    = चिन्तय + इय् त् । By 7-2-80 अतो येयः।
    = चिन्तय + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = चिन्तयेत् । By 6-1-87 आद्गुणः।

    2. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have seen in a prior comment) by which only आत्मनेपदम् may be used in the form मृगयसे?
    Answer: The form मृगयसे is derived from √मृग (मृग अन्वेषणे १०. ४४२) which belongs to the class of verbal roots called आगर्वीयाः (verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९)). As per the गणसूत्रम् “आ गर्वादात्मनेपदिनः” (in the चुरादि-गण: of the धातुपाठ:) – The verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९) take आत्मनेपद-प्रत्यया: (only.)

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

    मृग + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मृग + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृग् + इ । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
    Note: The गुणादेशः by 7-3-86 पुगन्‍तलघूपधस्‍य च does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुण:) that would be performed to the left of it. Hence as far as 7-3-86 is concerned, the उपधा of the अङ्गम् is the गकार: and hence it cannot apply.
    = मृगि । “मृगि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मृगि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मृगि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगि + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, गणसूत्रम् “आ गर्वादात्मनेपदिनः”।
    = मृगि + से । By 3-4-80 थासस्से।
    = मृगि + शप् + से । By 3-1-68 कर्तरि शप्।
    = मृगि + अ + से । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगे + अ + से । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मृगयसे । By 6-1-78 एचोऽयवायावः।

    3. Where has the affix “तृच्” been used in the commentary?
    Answer: The affix “तृच्” has been used in the commentary in the form भर्तारम् (प्रातिपदिकम् “भर्तृ”, पुंलिङ्गे द्वितीया-एकवचनम्)।

    The कृदन्त-प्रातिपदिकम् “भर्तृ” is derived from √भृ (डुभृञ् धारणपोषणयोः ३. ६) as follows:
    भृ + तृच् । By 3-1-133 ण्वुल्तृचौ।
    = भृ + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भर् + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = भर्तृ । “भर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
    भर्तृ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।
    = भर्तर् + अम् । By 7-3-110 ऋतो ङि-सर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = भर्तारम् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्।

    4. Which सूत्रम् is used for the “औ”-आदेशः in the form तस्थौ?
    Answer: The सूत्रम् 7-1-34 आत औ णलः has been used in the form तस्थौ derived from √स्था (ष्ठा गतिनिवृत्तौ #१. १०७७)
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्था + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्था + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्था + औ । By 7-1-34 आत औ णलः – The “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।
    = स्था स्था + औ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = था स्था + औ । By 7-4-61 शर्पूर्वाः खयः। Note: 7-4-61 is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = थ स्था + औ । By 7-4-59 ह्रस्वः।
    = थ स्थौ । By 6-1-88 वृद्धिरेचि।
    = तस्थौ । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. How would you say this in Sanskrit?
    “I am a resident of India.” For “resident” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।
    Answer: भारतदेशस्य निवासी अस्मि = भारतदेशस्य निवास्यस्मि।

    6. How would you say this in Sanskrit?
    “All the students in this class are enthusiastic.” For “enthusiastic” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।
    Answer: अस्मिन् वर्गे सर्वे शिष्याः/विद्यार्थिनः उत्साहिनः सन्ति = अस्मिन् वर्गे सर्वे शिष्या/विद्यार्थिन उत्साहिनः सन्ति।

    Easy Questions:

    1. Can you spot an augment नुँट् in the verses?
    Answer: An augment नुँट् can be seen in the form सखीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “सखी”, षष्ठी-बहुवचनम्)।
    सखी + आम् । By 4-1-2 स्वौजसमौट्छष्टा… । “सखी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = सखी + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् – The affix “आम्” takes the augment “नुँट्” when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”। As per 1-1-46 आद्यन्तौ टकितौ, the augment “नुँट्” attaches itself to the beginning of “आम्”।
    = सखीनाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. In step 11 why do we need 6-4-13 सौ च? Why not just use 6-4-8 सर्वनामस्थाने चासम्बुद्धौ?
    Answer: By 6-4-12 इन्हन्पूषार्यम्णां शौ – The lengthening (ordained by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ) of the penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” should be done only when the शि-प्रत्यय: follows, not when followed by other सर्वनामस्थानम् affixes. 6-4-12 इन्हन्पूषार्यम्णां शौ limits the application of 6-4-8. That is why 6-4-13 is required for the उपधा-दीर्घः here.

Leave a comment

Your email address will not be published. Required fields are marked *

September 2012
M T W T F S S
« Aug   Oct »
 12
3456789
10111213141516
17181920212223
24252627282930

Topics