Home » Example for the day » विभीषणस्य mGs

विभीषणस्य mGs

Today we will look at the form विभीषणस्य mGs from श्रीमद्-वाल्मीकि-रामायणम् 6.89.5.

ततो विस्फारयामास महद्धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ।। ६-८९-३ ।।
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः । राक्षसान्द्रावयामासुर्वज्राणीव महागिरीन् ।। ६-८९-४ ।।
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः । चिच्छिदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ।। ६-८९-५ ।।

Gita Press translation – Standing firm, he now stretched his mighty bow and loosed long sharp-pointed arrows against the ogres (3). Falling thick and fast, the aforesaid shafts, which impinged like fire, tore the ogres to pieces as thunderbolts would cleave mighty mountains (4). The well-known followers of Vibhīṣaṇa, too, who were the foremost of ogres, rent asunder the heroic ogres in combat with their pikes, swords and sharp-edged spears (5).

विशेषेण भीषयतीति विभीषणः।

“विभीषण” is a causative form derived from the verbal root √भी (ञिभी भये ३. २) with the उपसर्गः “वि”।

(1) भी + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) भी + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

(3) भी षुँक् + इ । By 7-3-40 भियो हेतुभये षुक् – The verbal root √भी (ञिभी भये ३. २) – when it ends in a ईकार: – takes the “षुँक्”-आगम: when the “णि”-प्रत्यय: follows and the हेतु: (ref. 1-4-55 तत्प्रयोजको हेतुश्च) is directly the cause of the fear.

(4) भी ष् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

“भीषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The प्रातिपदिकम् “विभीषण” is derived as follows:

(5) वि भीषि + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। Note: The word विभीषणः is listed in the नन्द्यादि-गण:।

(6) वि भीषि + यु । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(7) वि भीषि + अन । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”।

(8) वि भीष् + अन । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

(9) विभीषण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।

(10) विभीषण + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।

(11) विभीषणस्य । By 7-1-12 टाङसिङसामिनात्स्याः, since the “ङस्”-प्रत्यय: is following an अङ्गम् ending in an अकार:, it is replaced by “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire ङस्-प्रत्यय: is replaced.

Questions:

1. Where has the affix “ल्यु” been used in the last five verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 7-3-40 भियो हेतुभये षुक् the सिद्धान्त-कौमुदी says भी ई इतीकार: प्रश्लिष्यते। ईकारान्तस्य भिय: षुक् स्याण्णौ हेतुभये। Explaining this वृत्तिः the तत्त्वबोधिनी says तेन आत्वपक्षे भापयते इत्येव न त्वत्र षुगित्यर्थः। Please explain.

3. Commenting on the सूत्रम् 7-3-40 भियो हेतुभये षुक् the काशिका says हेतुभय इति किम्? कुञ्चिकयैनं भाययति। Please explain.

4. From which verbal root is the form द्रावयामासुः derived?

5. Can you spot an augment “तुँक्” in the verses?

6. How would you say this in Sanskrit?
Arjuna said to Śrī Kṛṣṇa “Having withdrawn this frightful form show me your gentle one.” Use the अव्ययम् “संहृत्य” for “having withdrawn.”

Easy Questions:

1. Which सूत्रम् is used for the नकारादेशः in the form राक्षसान्?

2. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?


1 Comment

  1. 1. Where has the affix “ल्यु” been used in the last five verses of Chapter Eleven of the गीता?
    Answer: The “ल्यु” been used in the last five verses of Chapter Eleven of the गीता in the form जनार्दन।
    अर्जुन उवाच |
    दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
    इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः || 11-51||

    जनमर्दयतीति जनार्दनः ।
    The कृदन्त-प्रातिपदिकम् “अर्दन” is derived from √अर्द् (अर्दँ हिंसायाम् १०. ३६५).
    अर्द् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = अर्द् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अर्दि । “अर्दि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जन ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + अर्दि + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। Note: जनार्दनः is listed in the नन्द्यादि-गण:। Hence the affix “ल्यु” may be added to the verbal root “अर्दि” on the condition that “जन ङस्” (which is the object of the action) is present as the उपपदम् ।
    = जन ङस् + अर्दि + यु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जन ङस् + अर्दि + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन ङस् + अर्द् + अन = जन ङस् + अर्दन । By 6-4-51 णेरनिटि। Note: “जन ङस् + अर्दन” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = जन + अर्दन । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = जनार्दन । By 6-1-101 अकः सवर्णे दीर्घः।

    The विवक्षा is पुंलिङ्गे सम्बुद्धिः।
    (हे) जनार्दन + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः।
    = (हे) जनार्दन + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is a एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः।
    = (हे) जनार्दन । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः।

    2. Commenting on the सूत्रम् 7-3-40 भियो हेतुभये षुक् the सिद्धान्त-कौमुदी says भी ई इतीकार: प्रश्लिष्यते। ईकारान्तस्य भिय: षुक् स्याण्णौ हेतुभये। Explaining this वृत्तिः the तत्त्वबोधिनी says तेन आत्वपक्षे भापयते इत्येव न त्वत्र षुगित्यर्थः। Please explain.
    Answer: In the सूत्रम् 7-3-40 भियो हेतुभये षुक्, the term भिय: is षष्ठी-एकवचनम् of “भी”। The सिद्धान्त-कौमुदी comment भी ई इतीकार: प्रश्लिष्यते means that in the सूत्रम् 7-3-40, “भी” does not refer simply to the verbal root √भी (ञिभी भये ३. २) but it refers to the coalition (प्रश्लेष:) of “भी + ई” implying that 7-3-40 may be used only when √भी ends in a ईकार:। Hence in the case where the optional substitution of a आकार: (in place of the ईकार: of √भी) is done by 6-1-56 बिभेतेर्हेतुभये, we cannot apply the augment षुक् by 7-3-40. To illustrate this point, the तत्त्वबोधिनी gives the example भापयते where the augment षुक् is not used.

    The विवक्षा in भापयते is लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि (हेतुमति – हेतुभये)।

    भी + णिच् । By 3-1-26 हेतुमति च।
    = भी + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भै + इ । By 7-2-115 अचो ञ्णिति।
    = भा + इ । By 6-1-56 बिभेतेर्हेतुभये – There is optionally a substitution of a आकार: in place of the एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of the verbal root √भी (ञिभी भये ३. २) if the हेतु: (ref. 1-4-55 तत्प्रयोजको हेतुश्च) is directly the cause of the fear.
    Note: As explained above, when there is an optional substitution of the आकारः, the verbal root √भी (ञिभी भये ३. २) does not end in a ईकार: and therefore it does not take the “षुँक्”-आगम: by 7-3-40.
    = भा पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, 1-1-46 आद्यन्तौ टकितौ।
    = भाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
    = भापि । “भापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भापि + लँट् । By 3-2-123 वर्तमाने लट्।
    = भापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भापि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-68 भीस्म्योर्हेतुभये।
    = भापि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भापि + शप् + ते । By 3-1-68 कर्तरि शप्‌।
    = भापि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भापे + अ + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भापय् + अ + ते = भापयते । By 6-1-78 एचोऽयवायावः।

    3. Commenting on the सूत्रम् 7-3-40 भियो हेतुभये षुक् the काशिका says हेतुभय इति किम्? कुञ्चिकयैनं भाययति। Please explain.
    Answer: In the सूत्रम् 7-3-40 भियो हेतुभये षुक्, the word  हेतुभये means – when the  हेतु: (instigator) is directly the cause of the fear. To illustrate the importance of this word हेतुभये, the काशिका gives the example कुञ्चिकयैनं भाययति = कुञ्चिकया एनं भाययति। Here the हेतु: is not directly the cause of the fear but instead causes fear by means of the instrument कुञ्चिका। Hence 7-3-40 does not apply here. Similarly neither 1-3-68 भीस्म्योर्हेतुभये nor 6-1-56 बिभेतेर्हेतुभये (both of which contain the condition हेतुभये) applies here.

    The form भाययति is derived from the verbal root √भी (ञिभी भये ३. २). The विवक्षा is लँट्, प्रथम-पुरुषः, एकवचनम्, कर्तरि (हेतुमति)।

    भी + णिच् । By 3-1-26 हेतुमति च।
    = भी + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। As explained above, 7-3-40 भियो हेतुभये षुक् does not apply here and neither does 6-1-56 बिभेतेर्हेतुभये।
    = भै + इ । By 7-2-115 अचो ञ्णिति।
    = भायि । By 6-1-78 एचोऽयवायावः।
    “भायि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भायि + लँट् । By 3-2-123 वर्तमाने लट्।
    = भायि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भायि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्। As explained above, 1-3-68 भीस्म्योर्हेतुभये does not apply here.
    = भायि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भायि + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = भायि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भाये + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भाययति । By 6-1-78 एचोऽयवायावः।

    4. From which verbal root is the form द्रावयामासुः derived?
    Answer: The form द्रावयामासुः is derived from the verbal root √द्रु (द्रु गतौ १. १०९५).

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    द्रु + णिच् । By 3-1-26 हेतुमति च।
    = द्रु + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = द्रौ + इ । By 7-2-115 अचो ञ्णिति।
    = द्राव् + इ = द्रावि । By 6-1-78 एचोऽयवायावः।
    “द्रावि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    द्रावि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = द्रावि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = द्रावय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = द्रावयाम् । By 2-4-81 आमः।
    = द्रावयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = द्रावयाम् । By 2-4-81 आमः।
    = द्रावयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्।
    Here we consider the case wherein √अस् is annexed.
    = द्रावयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्रावयाम् + अस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = द्रावयाम् + अस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘उस्’ from getting इत्-सञ्ज्ञा।
    = द्रावयाम् + अस् अस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = द्रावयाम् + आस् अस् + उस् । By 7-4-70 अत आदेः।
    = द्रावयाम् + आ अस् + उस् । By 7-4-60 हलादिः शेषः।
    = द्रावयामासुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = द्रावयामासुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Can you spot an augment “तुँक्” in the verses?
    Answer: An augment “तुँक्” is seen in the form चिच्छिदुः derived from √छिद् (रुधादि-गणः, छिदिँर् द्वैधीकरणे, धातु-पाठः # ७. ३).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    छिद् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = छिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छिद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = छिद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the “उस्”-प्रत्यय: is कित्। Therefore 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = छिद् छिद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = छि छिद् + उस् । By 7-4-60 हलादिः शेषः।
    = छि तुँक् छिद् + उस् । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the इकारः।
    = छि त् छिद् + उस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = छि त् छिद् + उः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = छि च् छिद् + उः । By 8-4-40 स्तोः श्चुना श्चुः।
    = चिच्छिदुः । By 8-4-54 अभ्यासे चर्च।

    6. How would you say this in Sanskrit?
    Arjuna said to Śrī Kṛṣṇa “Having withdrawn this frightful form show me your gentle one.” Use the अव्ययम् “संहृत्य” for “having withdrawn.”
    Answer: इदम् भीषणम् रूपम् संहृत्य तव/ते सौम्यम् रूपम् मह्यम्/मे दर्शय इति अर्जुनः श्रीकृष्णम् उवाच = इदं भीषणं रूपं संहृत्य तव/ते सौम्यं रूपं मह्यं/मे दर्शयेत्यर्जुनः श्रीकृष्णमुवाच।

    Easy Questions:

    1. Which सूत्रम् is used for the नकारादेशः in the form राक्षसान्?
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि is used for the नकारादेशः in the form राक्षसान् (पुंलिङ्ग-प्रातिपदिकम् “राक्षस”, द्वितीया-बहुवचनम्)।
    राक्षस + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = राक्षस + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = राक्षसास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = राक्षसान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:।

    2. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?
    Answer: The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the form वज्राणि (नपुंसकलिङ्ग-प्रातिपदिकम् “वज्र”, प्रथमा-बहुवचनम्)

    वज्र + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = वज्र + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = वज्र नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = वज्र न् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वज्रानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    = वज्राणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Leave a comment

Your email address will not be published. Required fields are marked *

September 2012
M T W T F S S
« Aug   Oct »
 12
3456789
10111213141516
17181920212223
24252627282930

Topics