Home » Example for the day » रमण mVs

रमण mVs

Today we will look at the form रमण mVs from श्रीमद्भागवतम् 10.30.40.

ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ १०-३०-३८ ॥
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ १०-३०-३९ ॥
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ १०-३०-४० ॥

कामिनां दैन्यं दर्शयति – एवमुक्त इति । अखण्डितत्वमाह – ततश्चेति । तस्यां स्कन्धारोहोद्यतायामन्तर्हित इत्यर्थः ॥ ३९ ॥ अनुतापमाह – हा नाथेति ॥ ४० ॥

Gita Press translation – Then, reaching a certain part of the forest, she arrogantly said to Lord Śrī Kṛṣṇa (the Ruler even of Brahmā and Lord Śiva,) “I am unable to walk (any more); carry me wherever it pleases you.” (38) Requested thus, the Lord replied to His lady-love, “Mount my shoulder (then)!” After that, (however, as soon as the lady tried to mount His shoulder,) Śrī Kṛṣṇa disappeared and the said lady repented (in the following words): – (39) “My most beloved lord, O delighter of my soul, where are you, where are you, O mighty-armed one, pray reveal your presence, O friend, to me, your wretched servant.”(40)

रमत इति रमयतीति वा रमणः।

“रमण” may be derived as a causative form or a non-causative form, from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९). In the present context the causative form is more appropriate.

The derivation of the causative form is as follows:

(1) रम् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) रम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

(3) राम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” are considered to be “मित्” (having मकार: as a इत्)।

(4) रमि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
“रमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The प्रातिपदिकम् “रमण” is derived as follows:

(5) रमि + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। Note: The word रमण: is listed in the नन्द्यादि-गण:। See question 2.

(6) रमि + यु । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(7) रमि + अन । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”।

(8) रम् + अन । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

(9) रमण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(10) (हे) रमण + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(11) (हे) रमण + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is an एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(12) (हे) रमण । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः

Note: To derive ‘रमण’ as a non-causative form we add the affix ‘ल्यु’ (by 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) directly to the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९). After अनुबन्ध-लोपः (by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः) and the substitution ‘अन’ (by 7-1-1 युवोरनाकौ), the remaining steps are the same as step 9 onwards shown above.

Questions:

1. In the first ten verses of Chapter Seventeen of the गीता, can you spot a प्रातिपदिकम् (used as a part of a compound) ending in the affix ‘ल्यु’?

2. Commenting on 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः the काशिका says – नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते। किं तर्हि? नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। Please explain.

3. Which सूत्रम् is used for the “आम्”-आदेशः in the form आरुह्यताम्?

4. Where has the सूत्रम् 7-4-50 तासस्त्योर्लोपः been used in the verses?

5. How would you say this in Sanskrit?
“There was a sage by the name Ramaṇa.” Use the अव्ययम् “नाम” for “by the name.”

6. How would you say this in Sanskrit?
“Who is brave? The man who conquers cupid.” For “cupid” use a प्रातिपदिकम् ending in the affix “ल्यु”। Use the verbal root √जि (जि अभिभवे १. १०९६) with the उपसर्गः “परा” for “to conquer.”

Easy Questions:

1. Which सूत्रम् is used for the augment “आट्” in the form दास्याः?

2. In the verses can you spot a प्रातिपदिकम् for which the प्रथमा-एकवचनम् is the same as the द्वितीया-बहुवचनम्?


1 Comment

  1. 1. In the first ten verses of Chapter Seventeen of the गीता, can you spot a प्रातिपदिकम् (used as a part of a compound) ending in the affix ‘ल्यु’?

    Answer: The प्रातिपदिकम् “वर्धन” in the following verse ends the affix “ल्यु”।
    आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
    रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः || 17-8||

    Also the प्रातिपदिकम् “लवण” in the following verse ends the affix “ल्यु”।
    कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
    आहारा राजसस्येष्टा दुःखशोकामयप्रदाः || 17-9||

    वर्धयतीति वर्धनः।
    “वर्धन” is derived from a causative form of √वृध् (वृधुँ वृद्धौ १. ८६३)
    वृध् + णिच् । By 3-1-26 हेतुमति च।
    = वृध् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर्ध् + इ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर्धि । “वर्धि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वर्धि + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।
    = वर्धि + यु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर्धि + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = वर्ध् + अन = वर्धन । By 6-4-51 णेरनिटि।

    “वर्धन” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    लुनातीति लवणम् (रसविशेष:)।
    “लवण” is derived from √लू (लूञ् छेदने ९.१६).

    लू + ल्यु । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।
    = लू + यु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = लू + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = लो + अन । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = लव् + अन = लवन । By 6-1-78 एचोऽयवायावः।
    = लवण । गणपाठे निपातनात् णत्वम्।

    “लवण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Commenting on 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः the काशिका says – नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते। किं तर्हि? नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। Please explain.
    Answer: नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते means that the list of terms belonging to the नन्द्यादि-गणः, ग्रह्यादि-गणः and पचादि-गणः are not verbal roots taken directly from a section of the धातुपाठः।
    किं तर्हि? What then is listed in the गणपाठ:?
    नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। The final forms such as ‘नन्दन’, ‘रमण’ etc. formed using the affixes “ल्यु”, “णिनिँ” and “अच्” (as prescribed by 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) are listed in the गणपाठः। From these forms we have to extract (separate out) the verbal roots (like ‘नन्दि’ etc.) from which these forms are derived.

    3. Which सूत्रम् is used for the “आम्”-आदेशः in the form आरुह्यताम्?
    Answer: The सूत्रम् 3-4-90 आमेतः is used for the “आम्”-आदेशः in the form आरुह्यताम् derived from √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५).

    The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।
    रुह् + लोँट् । By 3-3-162 लोट् च।
    = रुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = रुह् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = रुह् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
    = रुह् + यक् + ताम् । By 3-1-67 सार्वधातुके यक्। Note: 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = रुह्यताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “आङ” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + रुह्यताम् = आरुह्यताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    4. Where has the सूत्रम् 7-4-50 तासस्त्योर्लोपः been used in the verses?
    Answer: The सूत्रम् 7-4-50 तासस्त्योर्लोपः has been used in the form असि derived from√अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

    5. How would you say this in Sanskrit?
    “There was a sage by the name Ramaṇa.” Use the अव्ययम् “नाम” for “by the name.”
    Answer: रमणः नाम ऋषिः/मुनिः बभूव = रमणो नामर्षिर्बभूव / नाम मुनिर्बभूव।

    6. How would you say this in Sanskrit?
    “Who is brave? The man who conquers cupid.” For “cupid” use a प्रातिपदिकम् ending in the affix “ल्यु”। Use the verbal root √जि (जि अभिभवे १. १०९६) with the उपसर्गः “परा” for “to conquer.”
    Answer: कः धीरः/वीरः? यः नरः मदनम् पराजयते (सः धीरः) = को धीरः/वीरः? यो  नरो मदनं पराजयते (स धीरः) ।

    Note: As per the सूत्रम् 1-3-19 विपराभ्यां जेः, आत्मनेपदम् is used in the form पराजयते।

    Easy Questions:

    1. Which सूत्रम् is used for the augment “आट्” in the form दास्याः?
    Answer: The सूत्रम् 7-3-112 आण्नद्याः is used for the augment “आट्” in the form दास्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “दासी”, षष्ठी-एकवचनम्।)

    दासी + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। “दासी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = दासी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्-सञ्ज्ञा।
    = दासी + आट् अस् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of the प्रत्यय: “ङस्”।
    = दासी + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दासी + आस् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    = दास्यास् । By 6-1-77 इको यणचि।
    = दास्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verses can you spot a प्रातिपदिकम् for which the प्रथमा-एकवचनम् is the same as the द्वितीया-बहुवचनम्?
    Answer: The प्रथमा-एकवचनम् form is the same as the द्वितीया-बहुवचनम् form for the स्त्रीलिङ्ग-प्रातिपदिकम् “वधू”।

    The प्रथमा-एकवचनम् form is derived as follows:
    वधू + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = वधू + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = वधूः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    The द्वितीया-बहुवचनम् form is derived as follows:
    वधू + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = वधू + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अस्” from getting the इत्-सञ्ज्ञा।
    = वधूस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = वधूः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published. Required fields are marked *

September 2012
M T W T F S S
« Aug   Oct »
 12
3456789
10111213141516
17181920212223
24252627282930

Topics