Home » Example for the day » स्पृहणीयाम् fAs

स्पृहणीयाम् fAs

Today we will look at the form स्पृहणीयाम् fAs from श्रीमद्भागवतम् 3.25.35.

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३-२५-३५ ॥
तैर्दर्शनीयावयवैरुदारविलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३-२५-३६ ॥

श्रीधर-स्वामि-टीका
प्रसन्नानि वक्त्राण्यरुणानि लोचनानि च येषु तैर्मद्रूपैः साकं सह । नित्यं परमेश्वरानुभवसुखं भक्तावधिकमिति भावः ॥ ३५ ॥ आत्मानन्दस्त्ववश्यंभावीत्याह – तैरिति । दर्शनीया मनोहरा अवयवा मुखनेत्रादयो येषु तैः । हृत आत्मा चित्तं येषाम् । हृता आकृष्टाः प्राणाश्चेन्द्रियाणि येषां तान्भजतोऽनिच्छत इच्छाहीनानप्यण्वीं गतिं मुक्तिं प्रयुङ्क्ते प्रापयति । कैः साधनैर्हृतात्मनः । उदारैर्विलासादिभिः । तत्र विलासो लीला, वामं मनोहरं सूक्तं मधुरभाषणम् ॥ ३६ ॥

Gita Press translation – The aforesaid saints, O mother, behold My charming and divine forms possessed of a smiling face and ruddy eyes – forms which confer boons on them – and have talks with them, which are the envy (even of the greatest sages) (35). Their devotion (to Me) secures to them (a place in) My subtle Abode even though they never seek it, their mind and senses fascinated by those forms with attractive limbs, captivating playful gestures, glances accompanied with a smile and delightful speech (36).

“स्पृहणीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०).

(1) स्पृह + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(2) स्पृह + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पृह् + इ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

Note: As per 7-3-86 पुगन्तलघूपधस्य च, the णिच्-प्रत्यय: would do a गुणः substitution in place of the ऋकार: of the अङ्गम् “स्पृह्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 अतो लोपः has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुणः) that would be performed to the left of it. Hence as far as 7-3-86 पुगन्तलघूपधस्य च is concerned, the उपधा of the अङ्गम् is the हकार: and hence it cannot apply.

“स्पृहि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) स्पृहि + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(5) स्पृहि + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) स्पृह् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। See question 4.

(7) स्पृहणीय । By वार्त्तिकम् – ऋवर्णान्नस्य णत्वं वाच्यम्8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

“स्पृहणीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(8) स्पृहणीय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) स्पृहणीय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) स्पृहणीया । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, द्वितीया-एकवचनम्

(11) स्पृहणीया + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) स्पृहणीयाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

Questions:

1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः (used in step 4) been used for the last time in the गीता?

2. Where has the affix “अनीयर्” been used in the commentary?

3. Can you spot an affix “श्नम्” in the verses?

4. The सूत्रम् 6-4-51 णेरनिटि (used in step 6) belongs to the अधिकारः of आर्धधातुके। From which सूत्रम् up to which सूत्रम् does पाणिनिः run this अधिकारः?

5. पाणिनिः runs another “आर्धधातुके” अधिकारः in a different section of the अष्टाध्यायी। From which सूत्रम् up to which सूत्रम् does this अधिकारः go?

6. How would you say this in Sanskrit?
“All of the Lord’s qualities are enviable (to be longed for.)”

Easy Questions:

1. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) अम्ब?

2. Which सूत्रम् is used for the “पश्य”-आदेशः in the form पश्यन्ति?


1 Comment

  1. 1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः (used in step 4) been used for the last time in the गीता?
    Answer: The सूत्रम् 3-1-96 तव्यत्तव्यानीयरः has been used for the last time in the प्रातिपदिकम् “कर्तव्य” used in the form कर्तव्यानि।
    एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
    कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्‌ ।। 18-6 ।।

    The कृदन्त-प्रातिपदिकम् “कर्तव्य” is derived from √कृ (डुकृञ् करणे ८. १०).
    कृ + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
    = कृ + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “तव्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कर् + तव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    “कर्तव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-बहुवचनम्।
    कर्तव्य + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = कर्तव्य + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = कर्तव्य नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = कर्तव्य न् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कर्तव्यानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    2. Where has the affix “अनीयर्” been used in the commentary?
    Answer: The affix “अनीयर्” has been used in the form दर्शनीयाः derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    The derivation of the कृदन्त-प्रातिपदिकम् “दर्शनीय” is as follows:
    दृश् + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
    = दृश् + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “तव्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दर्श् + अनीय । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “दर्शनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-बहुवचनम्।
    दर्शनीय + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = दर्शनीय + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अस्” from getting the इत्-सञ्ज्ञा।
    = दर्शनीयास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = दर्शनीयाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Can you spot an affix “श्नम्” in the verses?
    Answer: An affix “श्नम्” is seen in the form प्रयुङ्क्ते derived from युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    युज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = युज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = यु श्नम् ज् + ते । By 3-1-78 रुधादिभ्यः श्नम् – The श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. As per 1-1-47 मिदचोऽन्त्यात्परः, the “श्नम्” affix attaches itself after the last vowel (the उकार:) of the अङ्गम् “युज्”।
    = युनज् + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = युन्ज् + ते । By 6-4-111 श्नसोरल्लोपः। Note: By 1-2-4 सार्वधातुकमपित्, the “ते”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 6-4-111 to apply.
    = युन्ग् + ते । By 8-2-30 चोः कुः।
    = युंग् + ते । By 8-3-24 नश्चापदान्तस्य झलि।
    = युंक् + ते । By 8-4-55 खरि च।
    = युङ्क्ते । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    “प्र” has been used as a उपसर्ग: (ref: 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + युङ्क्ते = प्रयुङ्क्ते ।

    4. The सूत्रम् 6-4-51 णेरनिटि (used in step 6) belongs to the अधिकारः of आर्धधातुके। From which सूत्रम् up to which सूत्रम् does पाणिनिः run this अधिकारः?
    Answer: The अधिकारः of आर्धधातुके runs from 6-4-46 आर्धधातुके through 6-4-68 वाऽन्यस्य संयोगादेः।

    5. पाणिनिः runs another “आर्धधातुके” अधिकारः in a different section of the अष्टाध्यायी। From which सूत्रम् up to which सूत्रम् does this अधिकारः go?
    Answer: The other “आर्धधातुके” अधिकारः runs from 2-4-35 आर्धधातुके through 2-4-57 वा यौ।

    6. How would you say this in Sanskrit?
    “All of the Lord’s qualities are enviable (to be longed for.)”
    Answer: भगवतः सर्वे गुणाः स्पृहणीयाः।

    Easy Questions:

    1. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) अम्ब?
    Answer: The सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः is used for the ह्रस्वादेशः in the form (हे) अम्ब (स्त्रीलिङ्ग-प्रातिपदिकम् “अम्बा”, सम्बुद्धि:।)
    (हे) अम्बा + सुँ । By 4-1-2 स्वौजसमौट्… । Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) अम्बा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) अम्ब + स् । By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows. As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending vowel of the अङ्गम् is replaced by its short counterpart
    = (हे) अम्ब । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।

    2. Which सूत्रम् is used for the “पश्य”-आदेशः in the form पश्यन्ति?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः is used for the “पश्य”-आदेशः in the form पश्यन्ति derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्य + अ + झि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = पश्य + अ + अन्ति । By 7-1-3 झोऽन्तः ।
    = पश्यन्ति । By 6-1-97 अतो गुणे (applied twice.)

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics