Home » Example for the day » युगायते 3As-लँट्

युगायते 3As-लँट्

Today we will look at the form युगायते 3As-लँट् from श्रीमद्भागवतम् 10.31.15.

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १०-३१-१४ ॥
अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १०-३१-१५ ॥

श्रीधर-स्वामि-टीका
अपि च हे वीर, तेऽधरामृतं नो वितर देहि । स्वरितेन नादितेन वेणुना सुष्ठु चुम्बितमिति नादामृतवासितमिति भावः । इतररागविस्मारणं नृणामितरेषु सार्वभौमादिसुखेषु रागमिच्छां विस्मारयति विलापयतीति तथा तत् ॥ १४ ॥ किंच क्षणमपि त्वददर्शने दुःखं दर्शने च सुखं दृष्ट्वा सर्वसङ्गपरित्यागेन यतय इव वयं त्वामुपागतास्त्वं तु कथमस्मांस्त्यक्तुमुत्सहसे इति सकरुणमूचुः – अटतीति द्वयेन । यद्यदा भवान् काननं वृन्दावनं प्रत्यटति गच्छति तदा त्वामपश्यतां प्राणिनां त्रुटिः क्षणार्धमपि युगवद्भवति । एवमदर्शने दुःखमुक्तम् । पुनश्च कथंचिद्दिनान्ते ते तव श्रीमन्मुखमुदुच्चैरीक्षमाणानां तेषां दृशां पक्ष्मकृद् ब्रह्मा जडो मन्द एव । निमेषमात्रमप्यन्तरमसह्यमिति दर्शने सुखमुक्तम् ॥ १५ ॥

Gita Press translation – Vouchsafe to us, O heroic Lord, the nectar of Your lips, which heightens our enjoyment and destroys (all) grief, (nay,) which is fully enjoyed by the flute sounded by You and makes people forget all other attachments (14). When You proceed to the woods during daytime, (even) half a moment becomes an age to us, who fail to see You. And dull-witted is he (Brahmā) who has created rows of hair on the edge (and thus interrupted the joy) of eyes of us (all,) that eagerly behold (without winking) Your splendid countenance overhung by curly hair (on Your return from the woods at eventide) (15).

युगमिवाचरति =  युगायते।

First we derive the नाम-धातुः “युगाय” as follows:

(1) युग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) युग + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) युग + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“युग + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) युग + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(5) युगाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “युगाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(6) युगाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(7) युगाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) युगाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(9) युगाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(10) युगाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) युगाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(12) युगायते । By 6-1-97 अतो गुणे

Questions:

1. Can you spot a ॠकारान्त-धातुः used in a तिङन्तं पदम् in the verses?

2. Can you spot a ऋकारान्त-धातुः used in a तिङन्तं पदम् in the commentary?

3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the commentary?

4. How would you say this in Sanskrit?
“This awful day seems to last forever.” Paraphrase “seems to last forever” to “acts like a Yuga.” Use the neuter प्रातिपदिकम् “दुर्दिन” for “awful day.”

5. How would you say this in Sanskrit?
“Without my beloved, even life feels (acts) like a burden.” Use the masculine प्रातिपदिकम् “प्राण” for “life” and “भार” for “burden.” Use the affix “क्यङ्”। Use the adjective प्रातिपदिकम् “प्रिय” (feminine “प्रिया”) for “beloved.”

6. How would you say this in Sanskrit?
“Without salt, food tastes (acts) like cow-dung.” Use the masculine/neuter प्रातिपदिकम् “गोमय” for “cow-dung.”

Easy Questions:

1. What is the alternate form for नृणाम्?

2. What would be the alternate form for अह्नि?


1 Comment

  1. 1. Can you spot a ॠकारान्त-धातुः used in a तिङन्तं पदम् in the verses?
    Answer: A ॠकारान्त-धातुः has been used in the form वितर derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    तॄ + लोँट् । By 3-3-162 लोट् च।
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = तॄ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + हि । By 3-4-87 सेर्ह्यपिच्च।
    = तॄ + शप् + हि । By 3-1-68 कर्तरि शप्।
    = तॄ + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = तर् + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = तर । By 6-4-105 अतो हेः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + तर = वितर।

    2. Can you spot a ऋकारान्त-धातुः used in a तिङन्तं पदम् in the commentary?
    Answer: A ऋकारान्त-धातुः has been used in the form विस्मारयति derived from the verbal root √स्मृ (स्मृ चिन्तायाम् १. १०८२).

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    स्मृ + णिच् । By 3-1-26 हेतुमति च।
    = स्मृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्मर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = स्मारि । By 7-2-116 अत उपधायाः। “स्मारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्मारि + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्मारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्मारि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्मारि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्मारि + शप् + ति । By 3-1-68 कर्तरि शप्।
    = स्मारि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्मारे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्मारयति । By 6-1-78 एचोऽयवायावः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + स्मारयति = विस्मारयति।

    3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the commentary?
    Answer: The सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च has been used in the form देहि derived from √दा (डुदाञ् दाने ३. १०).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    दा + लोँट् । By 3-3-162 लोट् च।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = दा + हि । By 3-4-87 सेर्ह्यपिच्च।
    = दा + शप् + हि । By 3-1-68 कर्तरि शप्।
    = दा + हि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = दा दा + हि । By 6-1-10 श्लौ।
    = द + दा + हि । By 7-4-59 ह्रस्वः।
    = देहि । By 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any). √दा (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of “दा” is replaced by a एकारः।

    4. How would you say this in Sanskrit?
    “This awful day seems to last forever.” Paraphrase “seems to last forever” to “acts like a Yuga.” Use the neuter प्रातिपदिकम् “दुर्दिन” for “awful day.”
    Answer: इदम् दुर्दिनम् युगायते = इदं दुर्दिनं युगायते।

    5. How would you say this in Sanskrit?
    “Without my beloved, even life feels (acts) like a burden.” Use the masculine प्रातिपदिकम् “प्राण” for “life” and “भार” for “burden.” Use the affix “क्यङ्”। Use the adjective प्रातिपदिकम् “प्रिय” (feminine “प्रिया”) for “beloved.”
    Answer: मम प्रियम्/प्रियाम् विना प्राणः अपि भारायते = मम प्रियं/प्रियां विना प्राणोऽपि भारायते।
    अथवा
    मम प्रियेण/प्रियया विना प्राणः अपि भारायते = मम प्रियेण/प्रियया विना प्राणोऽपि भारायते।

    6. How would you say this in Sanskrit?
    “Without salt, food tastes (acts) like cow-dung.” Use the masculine/neuter प्रातिपदिकम् “गोमय” for “cow-dung.”
    Answer: लवणम् विना अन्नम् गोमयायते = लवणं विनान्नं गोमयायते ।
    अथवा
    लवणेन विना अन्नम् गोमयायते = लवणेन विनान्नं गोमयायते ।

    Easy Questions:

    1. What is the alternate form for नृणाम्?
    Answer: The alternate form for नृणाम् (पुंलिङ्ग-प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्) is नॄणाम्

    नृ + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting the इत्-सञ्ज्ञा।
    = नृ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = नृ + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = नॄनाम् or नृनाम् । By 6-4-6 नृ च, the ऋकारः of “नृ” is elongated optionally when followed by the affix “नाम्”।
    = नॄणाम् or नृणाम् । By the वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    2. What would be the alternate form for अह्नि?
    Answer: The alternate form for अह्नि would be अहनि (नपुंसकलिङ्ग-प्रातिपदिकम् “अहन्”, सप्तमी-एकवचनम्)।

    अहन् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अहन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अहनि or अह्नि । Here the अकारः prior to the नकारः would have been necessarily elided by 6-4-134 अल्लोपोऽनः – The अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows. But by 6-4-136 विभाषा ङिश्योः – The अकार-लोपः prescribed by 6-4-134 अल्लोपोऽनः takes place only optionally when the प्रत्यय: that is following the अङ्गम् is “ङि” or “शी”।

Leave a comment

Your email address will not be published. Required fields are marked *

August 2012
M T W T F S S
« Jul   Sep »
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics