Home » Example for the day » अन्वभावि 3Ps-लुँङ्

अन्वभावि 3Ps-लुँङ्

Today we will look at the form अभावि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.11.57.

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ १०-११-५७ ॥
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन्भववेदनाम् ॥ १०-११-५८ ॥

श्रीधर-स्वामि-टीका
गर्गो यदाह – “तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः” इत्यादि ॥ ५७ ॥

Gita Press translation – “Ah, the words of the knowers of Brahma can never be untrue! Whatever the worshipful Garga uttered has been fully verified.” (57) Thus recounting with joy the story of Śrī Kṛṣṇa and Balarāma and rejoicing (over it), the cowherds headed by Nanda did not experience the agony of mundane life (58).

अभावि is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

Since this is a कर्मणि प्रयोग:, the verbal root √भू takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) भू + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) भू + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) See question 2.

(6) भू + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भू + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) भौ + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(9) भावि । By 6-1-78 एचोऽयवायावः

(10) अट् भावि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अभावि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + अभावि = अन्वभावि । By 6-1-77 इको यणचि।

Questions:

1. Where has लुँङ् been used with the verbal root √भू (भू सत्तायाम् १. १) in the गीता?

2. The सूत्रम् 3-1-66 चिण् भावकर्मणोः is अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 6-4-104 चिणो लुक् the तत्त्वबोधिनी says तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् “प्रत्ययस्य लुक्श्लुलुपः” इति वचनात्तशब्दस्यैव।

4. Which सूत्रम् is used for the नुँम्-आगमः in the form अविन्दन्?

5. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“It was very hot in the afternoon.” Paraphrase it to “Intense heat was experienced in the afternoon.” Use the masculine noun “अपराह्ण” for “afternoon”, the adjective प्रातिपदिकम् “तीव्र” for “intense” and the masculine/neuter प्रातिपदिकम् “उष्ण” for “heat”.

Easy Questions:
1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the commentary?

2. By which सूत्रम् does the term अहो (used in the verses) get the अव्यय सञ्ज्ञा?


1 Comment

  1. 1. Where has लुँङ् been used with the verbal root √भू (भू सत्तायाम् १. १) in the गीता?
    Answer: In verse 47 of Chapter Two, लुँङ् has used with the verbal root √भू (भू सत्तायाम् १. १) in मा भूः
    कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
    मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ 2-47 ॥

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    माङ् भू + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
    Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।
    = मा भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा भू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मा भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा भू + स् । By 3-4-100 इतश्च।
    = मा भू + च्लि + स् । By 3-1-43 च्लि लुङि।
    = मा भू + सिँच् + स् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।
    = मा भू + स् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। Here 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = मा भूः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. The सूत्रम् 3-1-66 चिण् भावकर्मणोः is अपवादः for which सूत्रम्?
    Answer: 3-1-66 चिण् भावकर्मणोः is अपवादः for the सूत्रम् 3-1-44 च्लेः सिच्

    3. Commenting on the सूत्रम् 6-4-104 चिणो लुक् the तत्त्वबोधिनी says तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् “प्रत्ययस्य लुक्श्लुलुपः” इति वचनात्तशब्दस्यैव।
    Answer: तशब्दे परतश्चिणि विहिते means that चिण् is prescribed (by the सूत्राणि 3-1-60 चिण् ते पदः to 3-1-66 चिण् भावकर्मणोः) only when the term “त” follows. Now as per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः, a लुक् elision can only be done to a प्रत्ययः (affix.) And in the case of a अङ्गम् ending in चिण्, the प्रत्ययः which follows can only be “त”। Thus even though “त” is not specifically mentioned in the सूत्रम् 6-4-104, we understand that the लुक् elision can only be of the affix “त” (आत्मनेपदप्रथमपुरुषैकवचनम्)।

    4. Which सूत्रम् is used for the नुँम्-आगमः in the form अविन्दन्?
    Answer: The सूत्रम् 7-1-59 शे मुचादीनाम् is used for the नुँम्-आगमः in the form अविन्दन् derived from √विद् (तुदादि-गणः, विदॢ्ँ लाभे, धातु-पाठः #६. १६८).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    विद् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + झ् । By 3-4-100 इतश्च।
    = विद् + श + झ् । By 3-1-77 तुदादिभ्यः शः।
    = विद् + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = वि नुँम् द् + अ + झ् । By 7-1-59 शे मुचादीनाम् – the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (इकार:) of “विद्”।
    = वि न् द् + अ + झ् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वि न् द् + अ + अन्त् । By 7-1-3 झोऽन्तः।
    = विन्दन्त् । By 6-1-97 अतो गुणे।
    = अट् विन्दन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अविन्दन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = अविन्दन् । By 8-2-23 संयोगान्तस्य लोपः
    = अविंदन् । By 8-3-24 नश्चापदान्तस्य झलि।
    = अविन्दन् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    5. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः is used for the अकारलोप: in the form सन्ति derived from √अस् (असँ भुवि २. ६०).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = अस् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + अन्ति । By 7-1-3 झोऽन्तः।
    = सन्ति । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
    Note: Since the सार्वधातुक-प्रत्यय: “अन्ति” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

    6. How would you say this in Sanskrit?
    “It was very hot in the afternoon.” Paraphrase it to “Intense heat was experienced in the afternoon.” Use the masculine noun “अपराह्ण” for “afternoon”, the adjective प्रातिपदिकम् “तीव्र” for “intense” and the masculine/neuter प्रातिपदिकम् “उष्ण” for “heat”.
    Answer: अपराह्णे तीव्रम् उष्णम् अन्वभावि = अपराह्णे तीव्रमुष्णमन्वभावि ।
    अथवा
    अपराह्णे तीव्रः उष्णः अन्वभावि = अपराह्णे तीव्र उष्णोऽन्वभावि ।

    Easy Questions:
    1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the commentary?
    Answer: The सूत्रम् 7-2-111 इदोऽय् पुंसि has been used in the form अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।

    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इद म् + सुँ । By 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः।
    = अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि – When the affix “सुँ” follows, the “इद्” part of “इदम्” gets the replacement “अय्”, in the context of the masculine gender.
    = अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अयम् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    2. By which सूत्रम् does the term अहो (used in the verses) get the अव्यय सञ्ज्ञा?
    Answer: अहो belongs to the चादि-गण: – referenced in 1-4-57 चादयोऽसत्त्वे। It is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics