Home » Example for the day » मा कृढ्वम् 2Ap-लुँङ्

मा कृढ्वम् 2Ap-लुँङ्

Today we will look at the form मा कृढ्वम् 2Ap-लुँङ् from श्रीमद्भागवम् 6.11.19.

रजन्येषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ।। १०-२९-१९ ।।
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ।। १०-२९-२० ।।

श्रीधर-स्वामि-टीका
लज्जया मन्दहसितमालक्ष्याह – रजन्येषेति ।। १९ ।। किंच मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृढ्वं मा कुरुतेत्यर्थः ।। २० ।।

Gita Press translation – Frightful in aspect is this night and characterized by the presence of hideous creatures (too.) (Therefore) return to Vraja (forthwith); you should not tarry here, O slender-waisted ones! (19) Not finding you (at home), mothers and fathers, sons, brothers and husbands must be looking for you. (Pray,) do not cause anxiety to your near and dear ones (20).

मा कृढ्वम् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The धातुः “डुकृञ्” is a ञित् (has ञकारः as इत् by 1-3-3 हलन्त्यम्) and therefore it is उभयपदी। The “डु” and ञकारः take लोप: by 1-3-9 तस्य लोपः। By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) माङ् कृ + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा कृ + ध्वम् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “ध्वम्” as the substitute for the लकारः।

(4) मा कृ + च्लि + ध्वम् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मा कृ + सिँच् + ध्वम् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मा कृ + स् + ध्वम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(7) मा कृ + ध्वम् । By 8-2-25 धि च – A सकारः is elided when followed by a प्रत्ययः beginning with a धकारः।

(8) मा कृढ्वम् । By 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ – Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute.

Questions:

1. In the गीता, can you find a तिङन्तं पदम् (which is a आर्ष-प्रयोगः) in which “ध्वम्” has been used as the substitute for the लकारः?

2. Commenting on the सूत्रम् 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ (used in step 8), the तत्त्वबोधिनी says ‘इण्कोः’ इत्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेह न । पक्षीध्वम् ।। Please explain.

3. Which सूत्रम् is used for the यणादेशः in the form विचिन्वन्ति?

4. Where has लोँट् been used in the verses? Where has it been used in the commentary?

5. How would you say this in Sanskrit?
“Do not be proud.” Paraphrase to “Do not make pride.” Use the masculine प्रातिपदिकम् “गर्व” for “pride”.

Advanced Question:

1. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have not discussed in the class) by which only आत्मनेपदम् may be used in the form मृगयन्ते (used in the commentary)?

Easy Questions:

1. In the verses, in which word has the युष्मद्-प्रातिपदिकम् been used?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?


1 Comment

  1. 1. In the गीता, can you find a तिङन्तं पदम् (which is a आर्ष-प्रयोगः) in which “ध्वम्” has been used as the substitute for the लकारः?
    Answer: “ध्वम्” has been used as the substitute for the लकारः in the form प्रसविष्यध्वम् in verse 10 of Chapter 3. This is a आर्ष-प्रयोग: derived from the verbal root √सू (षूङ् प्राणिप्रसवे ४. २७ or षूङ् प्राणिगर्भविमोचने २. २५). It is a combination of the लृँट् form प्रसविष्यध्वे and the लोँट् form  प्रसूयध्वम् (derived from षूङ् प्राणिप्रसवे ४. २७)/प्रसूध्वम् (derived from षूङ् प्राणिगर्भविमोचने २. २५)।
    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ ॥ 3-10 ॥

    The विवक्षा is कर्तरि प्रयोग:, मध्यम-पुरुष:, बहुवचनम्।

    The grammatically correct form in लृँट् is प्रसविष्यध्वे। Steps are as follows:
    सू + लृँट् । By 3-3-13 लृट् शेषे च।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + ध्वम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + ध्वे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सू + स्य + ध्वे । By 3-1-33 स्यतासी लृलुटोः।
    = सू + इट् स्य + ध्वे । By  7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा, 1-1-46 आद्यन्तौ टकितौ।
    = सू + इस्य + ध्वे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सो + इस्य + ध्वे । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = सविस्यध्वे । By 6-1-78 एचोऽयवायावः।
    = सविष्यध्वे । By 8-3-59 आदेशप्रत्यययो:।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + सविष्यध्वे = प्रसविष्यध्वे ।

    The grammatically correct form in लोँट् is प्रसूयध्वम् (derived from षूङ् प्राणिप्रसवे ४. २७)। Steps are as follows:
    सू + लोँट् । By 3-3-162 लोट् च।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + ध्वम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + ध्वे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सू + ध्वम् । By 3-4-91 सवाभ्यां वामौ। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ध्वम्” from getting the इत्-सञ्ज्ञा।
    = सू + श्यन् + ध्वम् । By 3-1-69 दिवादिभ्यः श्यन्। Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending ऊकार: of the अङ्गम् “सू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = सू + य + ध्वम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सूयध्वम् ।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + सूयध्वम् = प्रसूयध्वम् ।

    The grammatically correct form in लोँट् is प्रसूध्वम् (derived from षूङ् प्राणिगर्भविमोचने २. २५)। Steps are as follows:
    सू + लोँट् । By 3-3-162 लोट् च।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + ध्वम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सू + ध्वे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सू + ध्वम् । By 3-4-91 सवाभ्यां वामौ। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ध्वम्” from getting the इत्-सञ्ज्ञा।
    = सू + शप् + ध्वम् । By 3-1-68 कर्तरि शप्‌।
    = सूध्वम् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: Since the सार्वधातुक-प्रत्यय: “ध्वम्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending ऊकार: of the अङ्गम् “सू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + सूध्वम् = प्रसूध्वम् ।

    2. Commenting on the सूत्रम् 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ (used in step 8), the तत्त्वबोधिनी says ‘इण्कोः’ इत्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेह न । पक्षीध्वम् ।। Please explain.
    Answer: The वृत्तिः of the सूत्रम् 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ says “इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्।” – Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute. The अनुवृत्तिः of इण्कोः is coming down from 8-3-57 इण्कोः। But the reason that पानिणिः specifies “इणः” again in this सूत्रम् is to prevent 8-3-78 from applying, in forms like पक्षीध्वम्, when a letter of the क-वर्गः (“कु”) precedes.

    पक्षीध्वम् is derived from √पच् (डुपचँष् पाके १. ११५१).

    The विवक्षा is लिँङ् (आशिषि), कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    पच् + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + ध्वम् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ध्वम्” from getting the इत्-सञ्ज्ञा।
    Note: As per 3-4-116 लिङाशिषि, the affix “ध्वम्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ does not apply.
    = पच् + सीयुट् ध्वम् । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = पच् + सीय् ध्वम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “सीय् ध्वम्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = पच् + सीध्वम् । By 6-1-66 लोपो व्योर्वलि।
    = पक्सीध्वम् । By 8-2-30 चोः कुः।
    = पक्षीध्वम् । By 8-3-59 आदेशप्रत्यययोः।
    Note: Here the अङ्गम् “पक्” ends in a letter of the क-वर्गः and not in a इण् letter. Therefore the धकार: belonging to the term “षीध्वम्” does not take ढकार: as a substitute by 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌।

    3. Which सूत्रम् is used for the यणादेशः in the form विचिन्वन्ति?
    Answer: The सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके is used for the यणादेशः in the form विचिन्वन्ति derived from √चि (चिञ् चयने ५. ५).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    चि + लँट् । By 3-2-123 वर्तमाने लट्।
    = चि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = चि + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः।
    = चि + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    Note: Since the सार्वधातुक-प्रत्यय: “श्नु” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending इकार: of the अङ्गम् “चि” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः। Similarly, since the सार्वधातुक-प्रत्यय: “झि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending उकार: of the अङ्गम् “चिनु” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चि + नु + अन्ति । By 7-1-3 झोऽन्तः।
    = चि + न् व् + अन्ति = चिन्वन्ति । By 6-4-87 हुश्नुवोः सार्वधातुके – The वकारः is the replacement for उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
    i) a conjunct consonant does not precede the उकारः।
    ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।

    Note: The यण्-आदेश: prescribed by this सूत्रम् is an अपवाद: for the “उवँङ्”-आदेश: that would have otherwise been done by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।

    4. Where has लोँट् been used in the verses? Where has it been used in the commentary?
    Answer: In the verses लोँट् been used in the form प्रतियात derived from √या (या प्रापणे २. ४४). In the commentary लोँट् been used in the form कुरुत derived from √कृ (डुकृञ् करणे ८. १०).

    प्रतियात – The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
    या + लोँट् । By 3-3-162 लोट् च – The affix लोँट् follows a धातुः when used in the sense of command/request.
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = या + शप् + त । By 3-1-68 कर्तरि शप्।
    = यात । By 2-4-72 अदिप्रभृतिभ्यः शपः।

    “प्रति” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्रति + यात = प्रतियात ।

    कुरुत – The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च – The affix लोँट् follows a धातुः when used in the sense of command/request.
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = कृ + उ + त । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    Note: Since the सार्वधातुक-प्रत्यय: “त” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरुत । By 6-4-110 अत उत् सार्वधातुके – When √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।

    5. How would you say this in Sanskrit?
    “Do not be proud.” Paraphrase to “Do not make pride.” Use the masculine प्रातिपदिकम् “गर्व” for “pride”.
    Answer: (यूयम्) गर्वम् मा कृढ्वम् = (यूयं) गर्वं मा कृढ्वम्।

    Advanced Question:

    1. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have not discussed in the class) by which only आत्मनेपदम् may be used in the form मृगयन्ते (used in the commentary)?
    Answer: The form मृगयन्ते is derived from √मृग (मृग अन्वेषणे १०. ४४२) which belongs to the class of verbal roots called आगर्वीयाः (verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९)). As per the गणसूत्रम् “आ गर्वादात्मनेपदिनः” (in the चुरादि-गण: of the धातुपाठ:) – The verbal roots beginning from √पद (पद गतौ १०. ४४०) and ending with √गर्व (गर्व माने १०. ४४९) shall take आत्मनेपद-प्रत्यया: (only.)

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

    मृग + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मृग + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृग् + इ । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
    Note: The गुणादेशः by 7-3-86 पुगन्‍तलघूपधस्‍य च does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुण:) that would be performed to the left of it. Hence as far as 7-3-86 is concerned, the उपधा of the अङ्गम् is the गकार: and hence it cannot apply.
    = मृगि । “मृगि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मृगि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मृगि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगि + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, गणसूत्रम् “आ गर्वादात्मनेपदिनः”
    = मृगि + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = मृगि + शप् + झे । By 3-1-68 कर्तरि शप्।
    = मृगि + अ + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगे + अ + झे । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मृगय + झे । By 6-1-78 एचोऽयवायावः।
    = मृगय + अन्ते । By 7-1-3 झोऽन्तः।
    = मृगयन्ते । By 6-1-97 अतो गुणे।

    Easy Questions:

    1. In the verses, in which word has the युष्मद्-प्रातिपदिकम् been used?
    Answer: The युष्मद्-प्रातिपदिकम् has been used in the form वः – alternate form of युष्माकम् (युष्मद्-प्रातिपदिकम्, षष्ठी-बहुवचनम्)। This form is possible according to 8-1-21 बहुवचनस्य वस्नसौ, because the following two conditions are satisfied:
    i) There is a पदम् (च) in the same sentence preceding वः।
    ii) वः is not at the beginning of a metrical पाद:।

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in the सन्धि-कार्यम् between पुत्राः + भ्रातरः = पुत्रा भ्रातरः
    पुत्रास् + भ्रातरः
    = पुत्रारुँ + भ्रातरः । By 8-2-66 ससजुषो रुः।
    = पुत्राय् + भ्रातरः । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = पुत्रा भ्रातरः । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

May 2012
M T W T F S S
« Apr   Jun »
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics