Home » Example for the day » व्यकम्पयन् 3Ap-लँङ्

व्यकम्पयन् 3Ap-लँङ्

Today we will look at the form व्यकम्पयन् 3Ap-लँङ् from श्रीमद्भागवतम् 4.9.8.

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः । मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ।। १२-८-२४ ।।
सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ।। १२-८-२५ ।।

श्रीधर-स्वामि-टीका
शोषणदीपनसंमोहनतापनोन्मादनाख्यानि पञ्च मुखानि यस्य तदस्त्रं संदधेतदैमधुर्वसन्तः । रजस्तोकश्च । पुंस्त्वमार्षम् । अन्ये चेन्द्रभृत्यास्तस्य मनो व्यकम्पयन् ।। २५ ।।

Gita Press translation “The damsels danced and the songsters sang, while other Gandharvas played charmingly on clay tomtoms, lutes and small drums before him. (24) Then Love set the five-pointed arrow to his bow; while Spring, Greed (the son of Rajas) and other servants of Indra tired to agitate the sage’s mind.(25)”

अकम्पयन् is derived from the धातुः √कम्प् (भ्वादि-गणः, कपिँ चलने, धातु-पाठः #१. ४३५)

The इकारः at the end of “कपिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

क नुँम् प् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “कप्”।

= क न् प् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
= कंप् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
= कम्प् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

कम्प् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कम्प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कम्पि । “कम्पि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः are उभयपदी। But by 1-3-87 निगरणचलनार्थेभ्यः, when used in the causative, a verbal root which has the sense of “eating or swallowing” or “shaking or moving” takes a परस्मैपद-प्रत्ययः। Since √कम्प् has the meaning of “shaking”, a परस्मैपद-प्रत्ययः is used here.

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

(1) कम्पि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) कम्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कम्पि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कम्पि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) कम्पि + शप् + झ् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) कम्पि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) कम्पे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) कम्पे + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) कम्पय + अन्त् । By 6-1-78 एचोऽयवायावः

(10) कम्पयन्त् । एकादेश: by 6-1-97 अतो गुणे

(11) अट् कम्पयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(12) अकम्पयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(13) अकम्पयन् । By 8-2-23 संयोगान्तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + अकम्पयन् = व्यकम्पयन् । By 6-1-77 इको यणचि

Questions:

1. In the last twenty verses of Chapter Two of the गीता can you spot a तिङन्तं पदम् in which a इदित् verbal root (like कपिँ चलने) has been used?

2. Commenting on the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः, the काशिका says – अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च। Please explain.

3. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verses?

4. Can you spot two words in the verse in which a आकार-लोप: has taken place?

5. Which सूत्रम् is used for the चकारादेश: in the form चक्रु:?

6. How would you say this in Sanskrit?
“I wonder who could shake this huge tree?” Use the अव्ययम् “नु” to express the meaning of “I wonder” and use the adjective प्रतिपदिकम् “महत्” for “huge.”

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the word स्त्रिय: (प्रातिपदिकम् “स्त्री”, प्रथमा-बहुवचनम्)?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?


1 Comment

  1. 1. In the last twenty verses of Chapter Two of the गीता can you spot a तिङन्तं पदम् in which a इदित् verbal root (like कपिँ चलने) has been used?
    Answer: The धातुः √नन्द् (टुनदिँ समृद्धौ १. ७०) a इदित्, has been used in the word अभिनन्दति in verse 57 of Chapter 2.
    यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ ।
    नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ।। 2-57 ।।

    The “टु” at the beginning of “टुनदिँ” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्। Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः and only “नद्” remains.
    = न नुँम् द् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
    = न न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नन्द् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नन्द् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नन्द् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नन्द् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = नन्द् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नन्दति ।

    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + नन्दति = अभिनन्दति।

    2. Commenting on the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः, the काशिका says – अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च। Please explain.
    Answer: The वृत्तिः of the सूत्रम् 1-3-87 निगरणचलनार्थेभ्यः is – निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। When used in the causative, a verbal root which has the sense of ‘eating or swallowing’ or ‘shaking or moving’ takes a परस्मैपद-प्रत्ययः।
    The next सूत्रम् after 1-3-87 is 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्। वृत्तिः अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद्ण्यन्तात् परस्मैपदं भवति – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

    In the cases where the verbal root which in its non-causal state is intransitive and has a sentient being for its agent, are covered by 1-3-88. So (just like the preceding rule 1-3-86) 1-3-87 is only required for the cases where the verbal root which in its non-causal state is transitive or does not have a sentient being for its agent. This is what the काशिका means by “अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च।”

    3. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verses?
    Answer: The above वार्तिकम् has been used in the form ननृतुः derived from √नृत् (नृतीँ गात्रविक्षेपे ४. १०)
    This वार्तिकम् states that – When 1-2-5 असंयोगाल्लिट् कित् and 7-3-86 पुगन्तलघूपधस्य च are simultaneously applicable in the situation where a लिँट् affix follows a धातु: that has ऋकार: as the penultimate letter, 1-2-5 (even though an earlier rule in the अष्टाध्यायी) shall prevail over 7-3-86.
    Note: This वार्त्तिकम् is required only in the case where a ऋकार: is the उपधा (penultimate letter) of a धातु:। In the cases where a इकार: or उकार: is the उपधा of a धातु:, no वार्त्तिकम् is required because in these cases 1-2-5 is a नित्य-कार्यम् (it applies regardless of 7-3-86) and hence prevails as per the परिभाषा – पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीय:।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नृत् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = नृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नृत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नृत् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = नृत् नृत् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = नर् त् नृत् + उस् । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = न नृत् + उस् । By 7-4-60 हलादिः शेषः।
    Note: As per the वार्त्तिकम् above, 1-2-5 असंयोगाल्लिट् कित् applies first (before 7-3-86 पुगन्तलघूपधस्य च) and makes “उस्” a कित्-प्रत्यय:। Then 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च। Note: If 7-3-86 (along with 1-1-51) would apply first, then we would have a संयोग: preceding the “उस्”-प्रत्यय: and hence 1-2-5 could not be applied.
    = ननृतुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot two words in the verse in which a आकार-लोप: has taken place?
    Answer:  A आकार-लोप: has taken place by 6-4-64 आतो लोप इटि च in the forms जगुः and सन्दधे

    जगुः is derived from √गै (गै शब्दे १. १०६५). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गा + लिँट् । By 3-2-115 परोक्षे लिँट्, 6-1-45 आदेच उपदेशेऽशिति।
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = जा गा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = ज गा + उस् । By 7-4-59 ह्रस्वः।
    = ज ग् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is कित् here. This allows 6-4-64 to apply.
    = जगुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    सन्दधे is derived from √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = धा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य।
    = धा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा धा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = ध धा + ए । By 7-4-59 ह्रस्वः।
    = धधे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित् here. This allows 6-4-64 to apply.
    = दधे । By 8-4-54 अभ्यासे चर्च।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + दधे = संदधे । By 8-3-23 मोऽनुस्वारः।
    = सन्दधे/संदधे । By 8-4-59 वा पदान्तस्य।

    5. Which सूत्रम् is used for the चकारादेश: in the form चक्रु:?
    Answer: The सूत्रम् 7-4-62 कुहोश्चुः is used for the चकारादेश: in the form चक्रुः derived from √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट्|
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “उस्” is कित् here. Hence 1-1-5 ग्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कृ कृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + उस् । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + उस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + उस् । By 7-4-60 हलादिः शेषः।
    = चक्रुस् । By 6-1-77 इको यणचि।
    = चक्रुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “I wonder who could shake this huge tree?” Use the अव्ययम् “नु” to express the meaning of “I wonder” and use the adjective प्रतिपदिकम् “महत्” for “huge.”
    Answer: कः नु इमम् महान्तम् वृक्षम् कम्पयेत् = को न्विमं महान्तं वृक्षं कम्पयेत्?

    Easy questions:

    1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the word स्त्रिय: (प्रातिपदिकम् “स्त्री”, प्रथमा-बहुवचनम्)?
    Answer: The सूत्रम् 6-4-79 स्त्रिया: is used for the “इयँङ्”-आदेश: in the form स्त्रिय:।
    स्त्री + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = स्त्री + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = स्त्र् इयँङ् + अस् । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “स्त्री” is replaced by “इयँङ्”।
    = स्त्रिय् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्त्रिय: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in the सन्धि-कार्यम् between गायकाः + जगुः = गायका जगुः and इन्द्रभृत्याः + व्यकम्पयन् = इन्द्रभृत्या व्यकम्पयन्
    गायकास् + जगुः
    = गायकारुँ + जगुः । By 8-2-66 ससजुषो रुः।
    = गायकाय् + जगुः । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = गायका जगुः । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।

    Similarly इन्द्रभृत्याः + व्यकम्पयन् = इन्द्रभृत्या व्यकम्पयन्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics