Home » Example for the day » समवस्यति 3As-लँट्

समवस्यति 3As-लँट्

Today we will look at the form समवस्यति 3As-लँट् from श्रीमद्भागवतम् 2.7.41.

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ यः स्वरंहसास्खलता त्रिपृष्ठं यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् ।। २-७-४० ।।
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन्गुणान्दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम् ।। २-७-४१ ।।

श्रीधर-स्वामि-टीका
इदं मया संक्षेपेणोक्तं विस्तरेण वक्तुं न कोऽपि समर्थ इत्याह । पृथिव्याः परमाणूनपि यो विममे गणितवांस्तादृशोऽपि को नु विष्णोर्वीर्यगणनां कर्तुमर्हति । कथंभूतस्य । यो विष्णुस्त्रिपृष्ठं सत्यलोकं चस्कम्भ धृतवान् । किमिति चस्कम्भ । यस्मात्त्रैविक्रमेऽस्खलता प्रतिघातशून्येन स्वरंहसा स्वपादवेगेन त्रिसाम्यरूपं सदनमधिष्ठानं प्रधानं तस्मादारभ्योरु अधिकं कम्पयानं कम्पमानम्, कम्पेन यानं यस्येति वा । अतः कारणाच्चस्कम्भ । आ त्रिपृष्ठमिति वा च्छेदः, सत्यलोकमभिव्याप्य यः सर्वं धृतवानित्यर्थः । तथाच मन्त्रः ‘विष्णोर्नु कम्’ इति । अस्यार्थः – विष्णोर्नु वीर्याणि कं प्रवोचम्, कः प्रावोचदित्यर्थः । यः पार्थिवानि रजांस्यपि विममे सोऽपि । यो विष्णुस्त्रेधा विचक्रमाणस्त्रिविक्रमं कुर्वन्नुत्तरं लोकमस्कभायदवष्टब्धवान् । कथंभूतम् । सधस्थम् । सहस्य सधादेशः । तिष्ठन्तीति स्थाः, तत्रस्थैर्देवैः सह वर्तमानमित्यर्थः ।। ४० ।। एतत्प्रपञ्चयति – नान्तमिति । पुरषस्य यन्मायाबलं तस्यान्तं न विदामि न वेद्मि । दशशतान्याननानि यस्य स शेषोऽप्यस्य गुणान्गायन्पारं न समवस्यति न प्राप्नोति ।। ४१ ।।

Gita Press translation “What man, gifted with insight, in this world could catalogue the powers of Lord Viṣṇu, even though he might have counted all the particles of dust on the earth? (As the Lord proceeded to measure the three worlds with His strides), He raised His legs with such irresistible force that the whole universe from the outermost sheath of Prakṛti (primordial matter) to the highest heaven (Satyaloka) began to shake violently, when He supported it by His own might. (40) (O Nārada!) neither myself nor those elder brothers of yours (Sanaka and others) know the whole truth about the Lord, who is a storehouse of innumerable potencies, Māyā (who brings forth and withdraws into herself the entire creation) being one of them. How, then, could others know it? Even the Primal Deity, Lord Śeṣa (the serpent-god); who is possessed of a thousand mouths, cannot reach His end even to this day, though he has been singing His praises (from eternity). (41)”

स्यति is derived from the धातुः √सो (दिवादि-गणः, षो अन्तकर्मणि, धातु-पाठः #४. ४२)

The धातुः “षो” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। So we now have √सो।

In the धातु-पाठः, √सो has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √सो takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √सो can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “ति”।

(1) सो + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) सो + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सो + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) सो + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सो + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) सो + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) स्यति । By 7-3-71 ओतः श्यनि, the ending ओकारः of an अङ्गम् is elided when followed by the श्यन्-प्रत्यय:।

“सम्” and “अव” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + अव + स्यति = समवस्यति ।

Questions:

1. In which chapter of the गीता has the affix श्यन् (used in step 5 of the example) been used in the last verse?

2. Where has 6-4-64 आतो लोप इटि च been used in a तिङन्तं पदम् in the verses?

3. The form विदामि used in the verses is grammatically irregular (आर्ष-प्रयोग:)। What would be the grammatically correct form?

4. Which सूत्रम् is used for the तिष्ठादेश: in the form तिष्ठन्ति used in the commentary?

5. Can you spot a तिङन्तं पदम् in the following sentence? राघवस्य शरैर्घोरैर्घोरं रावणमाहवे।

6. How would you say this in Sanskrit?
“All of us determined that there is no answer to (of) this question.” Use √सो (दिवादि-गणः, षो अन्तकर्मणि, धातु-पाठः #४. ४२) with the उपसर्गौ “वि” + “अव” for “to determine.” Use the अव्ययम् “इति” to express the meaning of “that.”

Easy questions:

1. Which प्रातिपदिकम् has been used in the form अमी used in the verses?

2. Where has 6-4-10 सान्तमहतः संयोगस्य been used in the verses?


1 Comment

  1. 1. In which chapter of the गीता has the affix श्यन् (used in step 5 of the example) been used in the last verse?

    Answer: In the last verse of Chapter 2, the affix श्यन् has been used in the word विमुह्यति derived from √मुह् (मुहँ वैचित्ये ४. ९५).
    एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
    स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ।। 2-72 ।।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मुह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मुह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुह् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन् – The श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = मुह् + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = मुह्यति ।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + मुह्यति = विमुह्यति ।

    2. Where has 6-4-64 आतो लोप इटि च been used in a तिङन्तं पदम् in the verses?
    Answer: The सूत्रम् 6-4-64 आतो लोप इटि च has been used in the form विममे derived from √मा (माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    मा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = मा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मा मा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = म मा + ए । By 7-4-59 ह्रस्वः।
    = ममे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either: (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्। Note: As per 1-2-5 असंयोगाल्लिट् कित्, “ए” is a कित् here. This allows 6-4-64 to apply.

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + ममे = विममे ।

    3. The form विदामि used in the verses is grammatically irregular (आर्ष-प्रयोग:)। What would be the grammatically correct form?
    Answer: The grammatically correct form is either वेद or वेद्मि। The verbal root is √विद् (विदँ ज्ञाने २. ५९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद् + णल् । By 3-4-83 विदो लटो वा, the affixes (“तिप्”, “तस्” etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९) optionally get the nine affixes “णल्”, “अतुस्” etc., as replacements respectively.
    Note: The nine परस्मैपद-प्रत्यया: [“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्”, “मस्”] of लँट् optionally get “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व”, “म” as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively.
    = विद् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + अ । By 3-1-68 कर्तरि शप्।
    = विद् + अ । By 2-4-72 अदिप्रभृतिभ्यः शप:।
    = वेद । By 7-3-86 पुगन्तलघूपधस्य च।

    When the optional substitution “णल्” is not done, the form is वेद्मि, derived as follows:
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + मि । By 3-1-68 कर्तरि शप्।
    = विद् + मि । By 2-4-72 अदिप्रभृतिभ्यः शप:।
    = वेद्मि । By 7-3-86 पुगन्तलघूपधस्य च।

    Thus there are two optional forms वेद and वेद्मि।

    4. Which सूत्रम् is used for the तिष्ठादेश: in the form तिष्ठन्ति used in the commentary?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः is used for the तिष्ठादेश: in place of “स्था” in the form तिष्ठन्ति।
    तिष्ठन्ति is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, it’s effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    स्था + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = स्था + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = स्था + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तिष्ठ + अ + झि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = तिष्ठ + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = तिष्ठन्ति । By 6-1-97 अतो गुणे (applied twice.)

    5. Can you spot a तिङन्तं पदम् in the following sentence? राघवस्य शरैर्घोरैर्घोरं रावणमाहवे।
    Answer: The word स्य is a तिङन्तं पदम् derived from √सो (षो अन्तकर्मणि ४. ४२).
    पदान्वयः of the sentence is as follows: (हे) राघव र्घोरम् रावणम् आहवे (= युद्धे) घोरैः शरैः स्य (= नाशय)

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    सो + लोँट् । By 3-3-162 लोट् च।
    = सो + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सो + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सो + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सो + हि । By 3-4-87 सेर्ह्यपिच्च।
    = सो + श्यन् + हि । By 3-1-69 दिवादिभ्यः श्यन्।
    = सो + य + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्यहि । By 7-3-71 ओतः श्यनि।
    = स्य । By 6-4-105 अतो हेः।

    6. How would you say this in Sanskrit?
    “All of us determined that there is no answer to (of) this question.” Use √सो (दिवादि-गणः, षो अन्तकर्मणि, धातु-पाठः #४. ४२) with the उपसर्गौ “वि” + “अव” for “to determine.” Use the अव्ययम् “इति” to express the meaning of “that.”
    Answer: अस्य प्रश्नस्य उत्तरम् न अस्ति इति (वयम्) सर्वे व्यवास्याम = अस्य प्रश्नस्योत्तरं नास्तीति (वयं) सर्वे व्यवास्याम।

    Easy questions:

    1. Which प्रातिपदिकम् has been used in the form अमी used in the verses?
    Answer: The सर्वनाम-प्रातिपदिकम् “अदस्” has been used in the form of अमी। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्।

    अदस् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अद अ + जस् । By 7-2-102 त्यदादीनामः।
    = अद + जस् । By 6-1-97 अतो गुणे।
    = अद + शी । By 7-1-17 जसः शी।
    = अद + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अदे । By 6-1-87 आद्गुणः। Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-104 नादिचि।
    = अमी । By 8-2-81 एत ईद्बहुवचने, in the plural, the letter ‘ई’ is substituted in place of the letter ‘ए’ that follows the letter ‘द्’ of ‘अदस्’ and the letter ‘द्’ gets substituted by the letter ‘म्’।

    2. Where has 6-4-10 सान्तमहतः संयोगस्य been used in the verses?
    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य has been used in the form रजांसि (नपुंसकलिङ्ग-प्रातिपदिकम् “रजस्”, द्वितीया-बहुवचनम्)।

    रजस् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = रजस् + शि । By 7-1-20 जश्शसोः शिः। By 1-1-42 शि सर्वनामस्थानम्, the affix ‘शि’ gets the designation सर्वनामस्थानम्। This allows 7-1-72 and 6-4-10 to apply below.
    = रजस् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = रज नुँम् स् + इ । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = रज न् स् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रजान्सि । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the letter ‘न्’ of a base that ends in a सान्त-संयोग: (a conjunct ending in the letter ‘स्’) or of the word महत् is elongated.
    = रजांसि । By 8-3-24 नश्चापदान्तस्य झलि।

Leave a comment

Your email address will not be published.

Recent Posts

April 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics