Home » Example for the day » विस्मर्यते 3Ps-लँट्

विस्मर्यते 3Ps-लँट्

Today we will look at the form विस्मर्यते 3Ps-लँट् from श्रीमद्भागवतम् 4.9.8.

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ।। ४-९-८ ।।
नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ।। ४-९-९ ।।

श्रीधर-स्वामि-टीका
अपि च किं वक्तव्यं वह्न्यादयो ज्ञानादिशक्तिधरा न भवन्तीति, यस्माद्ब्रह्मणोऽपि ज्ञानं त्वदधीनमेवेत्याह । त्वद्दत्तया वयुनया ज्ञानेन भवन्तं शरणं प्रपन्नो ब्रह्मा इदं विश्वमचष्टापश्यत् । कथम् । सुप्तः पुरुषः प्रबुद्धः सन्यथा पश्यति तद्वत् । अत आपवर्ग्या मुक्तास्तेषामपि शरणम् । कृतविदा सर्वेन्द्रियजीवनेन त्वत्कृतमुपकारं जानता कथं विस्मर्यते । एवंभूतं त्वामभजन्तः कृतघ्ना इत्यर्थः ।। ८ ।। ये च मादृशाः कामाद्यर्थं भजन्ति तेऽतिमूढा इत्याह – नूनमिति । भवाप्ययौ जन्ममरणे तद्विमोक्षे हेतुं त्वामन्यहेतोः कामाद्यर्थं ये भजन्ति ते नूनं विमुष्टमतयो वञ्चितचित्ताः । यतस्ते कल्पतरुं त्वामर्चन्ति । ततः कुणपतुल्येन देहेनोपभोग्यं सुखमिच्छन्ति । न चेच्छायोग्यं तदित्याह । यत्स्पर्शजं विषयसंबन्धजन्यं सुखं तन्नरकेऽपि भवति ।। ९ ।।

Gita Press translation “Through the vision conferred by You, O Lord, Brahmā (who sought refuge in You) viewed this universe like one who has just woke from sleep. How can the soles of Your feet, the resort of even liberated souls, be forgotten by him who is conscious of Your benevolent acts. O friend of the afflicted? (8) Their mind has surely been beguiled by Your Māyā (deluding potency), who worship You – a veritable wish-yielding tree, capable of freeing one from (the bondage of) birth and death – for other purposes and hanker after the pleasures of sense, enjoyable by the body (which is no better than a corpse), and which can be had by living beings even in hell.”

स्मर्यते is a passive form derived from the धातुः √स्मृ (स्मृ चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०८२)

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) स्मृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) स्मृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्मृ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) स्मृ + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) स्मर्यते । By 7-4-29 गुणोऽर्तिसंयोगाद्योः, the verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) as well as any verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant) takes a गुण: substitute when followed by either the affix यक् or a लिँङ् affix which has the आर्धधातुक-सञ्ज्ञा and begins with a यकार:। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending ऋकार: of the verbal root takes the गुण: substitute. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
See question 2.

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्मर्यते = विस्मर्यते ।

Questions:

1. Where has 3-1-67 सार्वधातुके यक् (used in step 5 of the example) been used in the first ten verses of Chapter Eighteen of the गीता?

2. In the absence of 7-4-29 गुणोऽर्तिसंयोगाद्योः, which सूत्रम् would have applied in step 7?

3. Commenting on the सूत्रम् 7-4-29 गुणोऽर्तिसंयोगाद्योः, the काशिका says – श इत्यसम्भवात् निवृत्तम्। Please explain.

4. Where has 8-2-29 स्कोः संयोगाद्योरन्ते च been used in the verses?

5. From which verbal root is the form इच्छन्ति used in the verses derived?

6. How would you say this in Sanskrit?
“I forget your name.” Paraphrase to “Your name is forgotten by me.”

Easy questions:

1. Where has 6-4-137 न संयोगाद्वमन्तात्‌ been used in the commentary?

2. What would be an alternate form for the word नॄणाम् used in the verses?


1 Comment

  1. 1. Where has 3-1-67 सार्वधातुके यक् (used in step 5 of the example) been used in the first ten verses of Chapter Eighteen of the गीता?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् has been used in the form क्रियते derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
    सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ।। 18-9 ।।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = कृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च। Note: रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न । 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः is not applied after applying 7-4-28 for the following reason – In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)
    = क् रि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रियते ।

    2. In the absence of 7-4-29 गुणोऽर्तिसंयोगाद्योः, which सूत्रम् would have applied in step 7?
    Answer: In the absence of 7-4-29 गुणोऽर्तिसंयोगाद्योः, the सूत्रम् 7-4-28 रिङ् शयग्लिङ्क्षु would have applied (as in answer 1 above.)

    3. Commenting on the सूत्रम् 7-4-29 गुणोऽर्तिसंयोगाद्योः, the काशिका says – श इत्यसम्भवात् निवृत्तम्। Please explain.
    Answer: In the तुदादि-गणः, there is no verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant.) Hence there is no case where the affix “श” follows a अङ्गम् which ends in a ऋकार: and begins with a संयोगः। So even though the अनुवृत्तिः of the term शयग्लिङ्क्षु comes (from 7-4-28) into 7-4-29, the वृत्तिः of 7-4-29 does not mention the affix “श”। This is what is meant by “श इत्यसम्भवात् निवृत्तम्।”

    4. Where has 8-2-29 स्कोः संयोगाद्योरन्ते च been used in the verses?
    Answer: The सूत्रम् 8-2-29 स्कोः संयोगाद्योरन्ते च been used in the verses in the form अचष्ट, derived from the धातुः √चक्ष् (चक्षिँङ् व्यक्तायां वाचि । अयं दर्शनेऽपि २. ७).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    चक्ष् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = चक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चक्ष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = चक्ष् + शप् + त । By 3-1-68 कर्तरि शप्‌।
    = चक् ष् + त । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अट् चक् ष् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ चक् ष् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अचष्त । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.
    = अचष्ट । By 8-4-41 ष्टुना ष्टुः।

    5. From which verbal root is the form इच्छन्ति used in the verses derived?
    Answer: The form इच्छन्ति is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    इष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इष् + श + झि । By 3-1-77 तुदादिभ्यः शः।
    = इष् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The affix ‘श’ is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = इछ् + अ + झि । By 7-3-77 इषुगमियमां छः।
    = इ तुँक् छ् + अ + झि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = इ त् छ् + अ + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ त् छ् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = इ त् छन्ति । By 6-1-97 अतो गुणे।
    = इच्छन्ति । By 8-4-40 स्तोः श्चुना श्चुः।

    6. How would you say this in Sanskrit?
    “I forget your name.” Paraphrase to “Your name is forgotten by me.”
    Answer: मया तव/ते नाम विस्मर्यते।

    Easy questions:

    1. Where has 6-4-137 न संयोगाद्वमन्तात्‌ been used in the commentary?
    Answer: The सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ has been used in the form ब्रह्मण: (प्रातिपदिकम् “ब्रह्मन्”, पुंलिङ्गे षष्ठी-एकवचनम्)

    ब्रह्मन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = ब्रह्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    Note: By 6-4-137 न संयोगाद्वमन्तात्‌, the अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 is a निषेध-सूत्रम् to 6-4-134. In this example, we have the conjunct “ह्म्” preceding “अन्” – hence 6-4-137 stops 6-4-134.
    = ब्रह्मनः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = ब्रह्मणः । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. What would be an alternate form for the word नॄणाम् used in the verses?
    Answer: An alternate form for नॄणाम् (प्रातिपदिकम् “नृ”, षष्ठी-बहुवचनम्) would be नृणाम्
    नृ + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting the इत्-सञ्ज्ञा।
    = नृ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = नृ + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = नॄनाम् or नृनाम् । By 6-4-6 नृ च, the ऋकारः of “नृ” is elongated optionally when followed by the affix “नाम्”
    = नॄणाम् or नृणाम् । By the वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics