Home » Example for the day » भूयाः 2As-आशीर्लिँङ्

भूयाः 2As-आशीर्लिँङ्

Today we will look at the form भूयाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 9.5.4.

अम्बरीष उवाच
त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ।। ९-५-३ ।।
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन्विप्राय स्वस्ति भूया इडस्पते ।। ९-५-४ ।।

श्रीधर-स्वामि-टीका
ज्योतिषां नक्षत्राणां पतिः सोमस्त्वम् । मात्राणीन्द्रियाणि । त्वच्छक्त्यैवाग्न्यादयः स्वं स्वं कार्यं कुर्वन्तीत्यर्थः ।। ३ ।। सहस्रमरा यस्य हे सहस्रारस्वस्ति शरणं भूयाःइडस्पते पृथ्वीपते ।। ४ ।।

Gita Press translation – Ambarīṣa prayed : “You are Agni (the god of fire) and the glorious sun-god; You are Soma (the moon-god), the lord of the (other) luminaries (lunar mansions). You are water, You are the earth and the sky, the air, the (five) objects of senses (viz., sound, touch, sight, taste and smell) and the senses (themselves). (3) Hail to You, O Sudarśana, endowed with a thousand spokes and beloved of the immortal Lord! O Destroyer of all (other) missiles, may You be propitious to the Brāhmaṇs (the sage Durvāsā), O Protector of the earth!”

भूयाः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(7) भू + यास् स् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास् स्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास् स्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
See question 2.

(8) भूयास् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

(9) भूयाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter One of the गीता, can you find a word which is derived from √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) and contains the augment यासुट् (as in this example)?

2. Commenting on the सूत्रम् 3-4-104 किदाशिषि (used in step 7), the तत्त्वबोधिनी says – ङित्त्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्। Please explain. (Hint: Consider the form इज्यात्।)

3. Commenting on the same सूत्रम् 3-4-104 the काशिका says – आशिषि इति किम्? वच्यात्। Please explain.

4. Why doesn’t the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 7 in the example? (Which condition is not satisfied?)

5. Why doesn’t the सूत्रम् 8-2-77 हलि च apply in the word कुर्वन्ति used in the commentary?

6. How would you say this in Sanskrit?
“May you be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. In the verses can you spot a प्रातिपदिकम् which ends in “अन्”?


1 Comment

  1. 1. In Chapter One of the गीता, can you find a word which is derived from √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) and contains the augment यासुट् (as in this example)?
    Answer: The “यासुट्”-आगम: has been used in the form भवेत्‌ in verse 46 of Chapter 1.
    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ।। 1-46 ।।

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = भू + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = भो + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भव + यास् त् । By 6-1-78 एचोऽयवायावः।
    = भव + इय् त् । By 7-2-80 अतो येयः।
    = भव + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = भवेत् । By 6-1-87 आद्गुणः।

    2. Commenting on the सूत्रम् 3-4-104 किदाशिषि (used in step 7), the तत्त्वबोधिनी says – ङित्त्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्। Please explain. (Hint: Consider the form इज्यात्।)
    Answer: The सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च prescribes the augment “यासुट्” as a ङित्। “ङित्त्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे” means that the prohibition of गुणः and वृद्धिः is already accomplished (by 1-1-5 ग्क्ङिति) on account of the fact that “यासुट्” is a ङित्। Then what is the purpose of making “यासुट्” a कित् when used आशिषि? “किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्” – means that the reason for making “यासुट्” a “कित्” by 3-4-104 किदाशिषि, is to allow for सम्प्रसारणम् in forms such as इज्यात्।

    इज्यात् is derived from the form the धातुः √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७)।
    The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    यज् + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ।
    = यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = यज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + त् । By 3-4-100 इतश्‍च।
    = यज् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च।
    = यज् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    Note: By 3-4-104 किदाशिषि, the augment “यासुट्” (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence 6-1-15 वचिस्वपियजादीनां किति applies in the following step.
    = इ अ ज् + यास् त् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्। As per 1-1-45 इग्यणः सम्प्रसारणम्, the इक् letter that is ordained in the place of a यण् letter gets the designation सम्प्रसारणम्।
    = इ ज् + यास् त् । By 6-1-108 सम्प्रसारणाच्च। Now “इज् यास् त्” has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = इज्यात् । By 8-2-29 स्कोः संयोगाद्योरन्ते च।

    3. Commenting on the same सूत्रम् 3-4-104 the काशिका says – आशिषि इति किम्? वच्यात्। Please explain.
    Answer: काशिका explains the reason for using the term आशिषि in 3-4-104 किदाशिषि। Consider the form वच्यात् derived from the धातुः √वच् (वचँ परिभाषणे २. ५८)।
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वच् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + त् । By 3-4-100 इतश्‍च।
    = वच् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च।
    = वच् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = वच् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = वच् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    Note: Here लिँङ् has not been used आशिषि, hence 3-4-104 किदाशिषि does not apply. If the augment “यासुट्” were to become a कित् here, it would cause सम्प्रसारणम् (by 6-1-15 वचिस्वपियजादीनां किति) resulting in an undesired form.
    = वच्यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।

    4. Why doesn’t the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 7 in the example? (Which condition is not satisfied?)
    Answer: By 7-2-35 आर्धधातुकस्येड् वलादेः – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट्।
    Here the प्रत्यय: “यास् स्” is not वलादिः (does not belong to a letter of the वल्-प्रत्याहारः) and hence it cannot take the augment इट्।

    5. Why doesn’t the सूत्रम् 8-2-77 हलि च apply in the word कुर्वन्ति used in the commentary?
    Answer: 8-2-77 हलि च does not apply because of the निषेध-सूत्रम् 8-2-79 न भकुर्छुराम् – The दीर्घादेश: (prescribed by 8-2-77) for the penultimate (उपधा) इक् letter of an अङ्गम् does not take place in the following three cases:
    i. The अङ्गम् has the भ-सञ्ज्ञा or
    ii. The अङ्गम् is “कुर्” or
    iii. The अङ्गम् is “छुर्”।

    6. How would you say this in Sanskrit?
    “May you be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”
    Answer: सुखी भूयाः ।

    Easy questions:

    1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?
    Answer: The सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् has been used in the form आपः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’)। This is a नित्यं बहुवचनान्त-शब्द:। The विवक्षा here is प्रथमा-बहुवचनम् ।

    अप् + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। The प्रत्यय: “जस्” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = अप् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = आप् + अस् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.
    = आपः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verses can you spot a प्रातिपदिकम् which ends in “अन्”?
    Answer: The प्रातिपदिकम् “व्योमन्” used in the form व्योम (नपुंसकलिङ्गे, प्रथमा-एकवचनम्) ends in “अन्”।

    व्योमन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = व्योमन् । By 7-1-23 स्वमोर् नपुंसकात्।
    = व्योम । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्, 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics