Home » Example for the day » हर्ता 3As-लुँट्

हर्ता 3As-लुँट्

Today we will look at the form हर्ता 3As-लुँट् from श्रीमद्भागवतम् 6.11.18.

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ।। ६-११-१८ ।।
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् ।
मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा ।। ६-११-१९ ।।

श्रीधर-स्वामि-टीका
अथो अथवा। हरे भो इन्द्र, यदि भवानेव मम शिरो हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबन्धः सन्भूतेभ्यो बलिं देहेन विधाय मनस्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ।। १८ ।। जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह – सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्ञा यथा निष्फला तथा न स्यात् ।। १९ ।।

Gita Press translation – “If, on the other hand, O valiant Indra, you actually succeed in crushing my army and severing my (own) head with your thunderbolt in this encounter, I shall in that case offer my body as a (propitiatory) oblation to birds and beasts (such as vultures and jackals) and (thus) freed from all debts (of Karma), attain to the dust of feet (destiny or abode) of enlightened souls (Nārada and others). O ruler of gods, wherefore do you not hurl your unfailing thunderbolt at me, your enemy, stationed before you? (Pray) do not entertain any misgiving (in your mind). (Rest assured that) the thunderbolt will not prove ineffectual as your mace or as an entreaty seeking its fulfilment from a miser.”

हर्ता is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

In the धातु-पाठः, “हृञ्” has one इत् letter which is the ending ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √हृ takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – √हृ takes परस्मैपद-प्रत्ययाः। In short, √हृ is उभयपदी।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप्/त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्/त” as the substitute for the लकारः।

(4) हृ + ति/त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हृ + तासिँ + ति/त । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हृ + तास् + ति/त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इड्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) हृ + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) हृ + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) हर् + तास् + आ । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) हर्ता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last five verses of Chapter Six of the गीता?

2. Besides in 6-4-143 टेः, in which other सूत्रम् (which we have studied) does the term टे: appear?

3. Can you spot a “श्नु”-प्रत्यय: in the verses?

4. Can you spot a “श”-प्रत्यय: in the commentary?

5. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“Relax! I will take away all your worries.” Use √श्रम् (श्रमुँ तपसि खेदे च ४. १०१) with the उपसर्ग: “वि” for “to relax.” Use √हृ (हृञ् हरणे १. १०४६) with the उपसर्ग: “अप” for “to take away.” Use the feminine noun “चिन्ता” for “worry.”

Easy questions:

1. Please do पदच्छेद: of भो इन्द्र (used in the commentary) and mention the relevant rules.

2. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the commentary?


1 Comment

  1. Questions:
    1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last five verses of Chapter Six of the गीता?
    Answer: √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) has been used in a तिङन्तं पदम् in the last five verses of Chapter Six of the गीता in the form ह्रियते।

    पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || 6-44||

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। As per 1-3-13 भावकर्मणोः, a आत्मनेपदम् affix is used.
    हृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हृ + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = हृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च। Note: रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न । 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः is not applied after applying 7-4-28 for the following reason – In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)
    = ह्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Besides in 6-4-143 टेः, in which other सूत्रम् (which we have studied) does the term टे: appear?
    Answer: The term टे: appears in two other सूत्रे which we have studied –
    (1) 7-1-88 भस्य टेर्लोपः – The टि-भागः of “पथिन्”, “मथिन्” and “ऋभुक्षिन्”, when they have the भ-सञ्ज्ञा, takes लोपः।
    (2) 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

    3. Can you spot a “श्नु”-प्रत्यय: in the verses?
    Answer: A “श्नु”-प्रत्यय: in the verses is seen in the form हिनोषि derived from the धातुः √हि (हि गतौ वृद्धौ च ५. १२).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    हि + लँट् । By 3-2-123 वर्तमाने लट्।
    = हि+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हि+ सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “सिप्” has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = हि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हि + श्नु + सि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्ययः is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌।
    = हि + नु + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: Since the प्रत्यय: “नु” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending इकार: of the अङ्गम् “हि” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = हि + नो + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = हिनोषि । By 8-3-59 आदेशप्रत्यययोः।

    4. Can you spot a “श”-प्रत्यय: in the commentary?
    Answer: A “श”-प्रत्यय: is seen in the form क्षिपसि derived from the धातुः √क्षिप् (क्षिपँ प्रेरणे ६. ५).
    क्षिप् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = क्षिप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “सिप्” has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = क्षिप् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + श + सि । By 3-1-77 तुदादिभ्यः शः। Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate इकार: of the अङ्गम् “क्षिप्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = क्षिपसि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    5. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?
    Answer: 6-4-111 श्नसोरल्लोपः has been used in the verses in the form स्यात् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = अस् + त् । By 3-4-100 इतश्च।
    = अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = स्यात् । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
    Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित्। This allows 6-4-111 to apply.

    6. How would you say this in Sanskrit?
    “Relax! I will take away all your worries.” Use √श्रम् (श्रमुँ तपसि खेदे च ४. १०१) with the उपसर्ग: “वि” for “to relax.” Use √हृ (हृञ् हरणे १. १०४६) with the उपसर्ग: “अप” for “to take away.” Use the feminine noun “चिन्ता” for “worry.”
    Answer: विश्राम्य । तव सर्वाः चिन्ताः अपहर्तास्मि । = विश्राम्य । तव सर्वाश्चिन्ता अपहर्तास्मि ।

    Easy questions:

    1. Please do पदच्छेद: of भो इन्द्र (used in the commentary) and mention the relevant rules.
    Answer: पदच्छेद: of भो इन्द्र is भो:, इन्द्र।
    भोस् इन्द्र
    = भोरुँ इन्द्र । By 8-2-66 ससजुषो रुँ।
    = भोय् इन्द्र । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = भो इन्द्र । By 8-3-20 ओतो गार्ग्यस्य। (We have not studied this सूत्रम् in the class.) The वृत्ति: for this सूत्रम् says – ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोप: स्यात् – Following a ओकार:, a यकार: which is at the end of a पदम् and is not of subdued articulation (ref. 8-3-18) is always elided. Note: After this 6-1-78 एचोऽयवायावः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the commentary?
    Answer: 6-4-14 अत्वसन्तस्य चाधातोः has been used in the commentary in the form भवान् (सर्वनाम-प्रातिपदिकम् “भवत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। “भवत्” ends in the डवतुँ-प्रत्यय:।
    भवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = भवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भवात् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
    Note: 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    = भवा नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = भवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भवान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = भवान् । By 8-2-23 संयोगान्तस्य लोपः।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics