Home » Example for the day » रुरोध 3As-लिँट्

रुरोध 3As-लिँट्

Today we will look at the form रुरोध 3As-लिँट् from श्रीमद्भागवतम् 10.70.29

तन्नो भवान्प्रणतशोकहराङ्घ्रियुग्मो बद्धान्वियुङ्क्ष्व मगधाह्वयकर्मपाशात् ।
यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद्रुरोध भवने मृगराडिवावीः ।। १०-७०-२९ ।।

श्रीधर-स्वामि-टीका
त्वन्मायाकृतं कर्मबन्धं त्वमेव निवर्तयेति प्रार्थयन्ते – तन्न इति । वियुङ्क्ष्व मोचय । मगधो जरासन्धस्तत्संज्ञकात्कर्मपाशात् भवद्भिरेव विक्रम्य ततो निर्गम्यतामिति चेदत आहुः – इति । एक एवायुतमतंगजानां वीर्यं बिभ्रत्सन्स्वभवने भूभुजोऽस्मान् रुरोध । सिंहो मेषीरिव ।।

Gita Press translation “O Lord, Your feet remove the grief of those who fall at them. Therefore, kindly release us, who are bound with the rope of Karma in the form of Jarāsandha. Possessing the strength of ten thousand elephants himself he has imprisoned us kings in his palace even as the lion would round up (a flock of) sheep.”

रुरोध is derived from the धातुः √रुध् (रुधादि-गणः, रुधिँर् आवरणे, धातु-पाठः # ७. १)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “रुधिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रुध्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √रुध्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √रुध् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √रुध्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) रुध् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) रुध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रुध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) रुध् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) रुध् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) रुध् रुध् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) रु रुध् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) रुरोध । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Questions:

1. Where has 7-3-86 पुगन्‍तलघूपधस्‍य च (used in the last step of this example) been used in a तिङन्तं पदम् in the last five verses of Chapter Twelve of the गीता?

2. Can you spot a “श्नम्”-प्रत्यय: in the verse?

3. In the commentary, can you spot two words wherein the हि-प्रत्यय: has taken the लुक् elision?

4. Which सूत्रम् is used for the “आम्”-आदेश: in the form निर्गम्यताम् in the commentary?

5. Where has 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः been used in the commentary?

6. How would you say this in Sanskrit?
“Ravana confined Sita in a grove of Asoka trees.” Use the neuter प्रातिपदिकम् “उपवन” for “grove” and the (compound) masculine प्रातिपदिकम् “अशोकवृक्ष” for “Asoka tree.”

Easy questions:

1. In the verse, can you spot a word in which a षकारादेश: (letter “ष्” as a substitute) has been used?

2. Where has 7-1-78 नाभ्यस्ताच्छतुः been applied in the verse?


1 Comment

  1. Questions:
    1. Where has 7-3-86 पुगन्तलघूपधस्य च (used in the last step of this example) been used in a तिङन्तं पदम् in the last five verses of Chapter Twelve of the गीता?
    Answer: 7-3-86 पुगन्तलघूपधस्य च has been used in a तिङन्तं पदम् in the last five verses of Chapter Twelve of the गीता in the form शोचति derived from the धातुः √शुच् (भ्वादि-गणः, शुचँ शोके १. २१०)
    यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
    शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः || 12-17||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शुच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शुच् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = शुच् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = शोचति । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। The उपधा – which is the उकार: of the अङ्गम् “शुच्” – gets the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्वं लघु।

    2. Can you spot a “श्नम्”-प्रत्यय: in the verse?
    Answer: A “श्नम्”-प्रत्यय: in the verse is seen in the form वियुङ्क्ष्व derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७)
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “थास्”।
    युज् + लोँट् । By 3-3-162 लोट् च।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = युज् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.
    = युज् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
    = यु श्नम् ज् + स्व । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “युज्”।
    This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप् ।
    = युनज् + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = युन्ज् + स्व । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
    Note: “श्न” refers to the “श्नम्”-प्रत्यय: (ref. 3-1-78 रुधादिभ्यः श्नम्)।
    Note: By 1-2-4 सार्वधातुकमपित्, the “स्व”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 6-4-111 श्नसोरल्लोपः to apply.
    = युन्ग् + स्व । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.
    = युंग् + स्व । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.
    = युंग् + ष्व । By 8-3-59 आदेशप्रत्यययोः – The letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
    = युंक् + ष्व । By 8-4-55 खरि च।
    = युङ्क्ष्व । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + युङ्क्ष्व = वियुङ्क्ष्व।

    3. In the commentary, can you spot two words wherein the हि-प्रत्यय: has taken the लुक् elision?
    Answer: In the commentary, two words wherein the हि-प्रत्यय: has taken the लुक् elision are (1) निवर्तय derived from the धातुः √वृत् (वृतुँ वर्तने १. ८६२) and (2) मोचय derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)
    The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।

    वृत् + णिच् । By 3-1-26 हेतुमति च। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर्ति । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    “वर्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वर्ति + लोँट् । By 3-3-162 लोट् च।
    = वर्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वर्ति + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्ति + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
    = वर्ति + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = वर्ति + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = वर्ते + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = वर्तय + हि । By 6-1-78 एचोऽयवायावः।
    = वर्तय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + वर्तय = निवर्तय।

    मुच् + णिच् । By 3-1-26 हेतुमति च। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मुच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोचि । By 7-3-86 पुगन्तलघूपधस्य च।
    “मोचि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मोचि + लोँट् । By 3-3-162 लोट् च।
    = मोचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोचि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मोचि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोचि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = मोचि + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = मोचि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मोचे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मोचय + हि । By 6-1-78 एचोऽयवायावः।
    = मोचय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:

    4. Which सूत्रम् is used for the “आम्”-आदेश: in the form निर्गम्यताम् in the commentary?
    Answer: The सूत्रम् used is 3-4-90 आमेतः – the एकार: of लोँट् is replaced by “आम्”। निर्गम्यताम् is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)।
    The विवक्षा is लोँट्, भावे प्रयोग:। भावे-प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: is “त”।
    गम् + लोँट् । By 3-3-162 लोट् च।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = गम् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।
    = गम् + यक् + ताम् । By 3-1-67 सार्वधातुके यक्।
    = गम्यताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “निर्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    निर् + गम्यताम् = निर्गम्यताम्।

    5. Where has 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः been used in the commentary?
    Answer: 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुव has been used in the commentary in the form आहुः derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आह् + उस् । By 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः – The first five affixes (“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (“णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।
    1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = आह् + शप् + उस् । By 3-1-68 कर्तरि शप्‌।
    = आह् + उस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आहुः। By रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Ravana confined Sita in a grove of Asoka trees.” Use the neuter प्रातिपदिकम् “उपवन” for “grove” and the (compound) masculine प्रातिपदिकम् “अशोकवृक्ष” for “Asoka tree.”
    Answer: रावणः सीताम् अशोकवृक्षाणाम् उपवने रुरोध = रावणः सीतामशोकवृक्षाणामुपवने रुरोध।

    Easy questions:
    1. In the verse, can you spot a word in which a षकारादेश: (letter “ष्” as a substitute) has been used?
    Answer: A षकारादेश: (letter “ष्” as a substitute) has been used in the form वियुङ्क्ष्व। See question #2 above for details.

    2. Where has 7-1-78 नाभ्यस्ताच्छतुः been applied in the verse?
    Answer: 7-1-78 नाभ्यस्ताच्छतुः has been applied in the verse in the form बिभ्रत् (प्रातिपदिकम् “बिभ्रत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। The प्रातिपदिकम् “बिभ्रत्” ends in the शतृँ-प्रत्यय:।
    बिभ्रत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा……….।
    = बिभ्रत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = बिभ्रत् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    Here the शतृँ-प्रत्यय: follows an अङ्गम् (“बिभृ”) which has the अभ्यस्त-सञ्ज्ञा (by 6-1-5 उभे अभ्यस्तम्)। Hence 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः and the शतृँ-प्रत्यय: does not take the नुँम् augment.
    = बिभ्रद् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् is replaced by a जश् letter.
    = बिभ्रद् / बिभ्रत् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics