Home » Example for the day » अहीयन्त 3Pp-लँङ्

अहीयन्त 3Pp-लँङ्

Today we will look at the form अहीयन्त 3Pp-लँङ् from श्रीमद्भागवतम् Sb3-20-48.

येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे ।
सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ।। ३-२०-४८ ।।

Gita Press translation “The hair that dropped from that body (as he apparently pulled them in a fit of excitement) were transformed into snakes, dear Vidura: while, even as the body crawled along (with its hands and feet contracted), there sprang from it ferocious serpents and Nāgas with their necks dilated in the form of hood.”

अहीयन्त is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)

The विवक्षा is लँङ्, कर्मणि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains.

Since the विवक्षा is कर्मणि (passive) only आत्मनेपदम् can be used as per 1-3-13 भावकर्मणोः – when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्ययः will be “झ”।

(1) हा + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हा + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) हा + यक् + झ । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(5) हा + य + झ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) हा + य + अन्त् अ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) ही + य + अन्त । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

(8) ही + यन्त । By 6-1-97 अतो गुणे, in the place of an अकार: which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(9) अट् हीयन्त । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अहीयन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. The यक्-प्रत्यय: (used in step 4 in this example) is used many times in the गीता। Where is it used for the first time in a तिङन्तं पदम्? Where is it used for the last time in a तिङन्तं पदम्?

2. Can you recall another सूत्रम् (besides 6-4-66 घुमास्थागापाजहातिसां हलि) by which पाणिनि: prescribes a ईकारादेश:?

3. In which सूत्रम् used in the steps in this example has the श्तिप्-प्रत्यय: been used?

4. What would have been the final form in this example if the विवक्षा had been कर्तरि (rather that कर्मणि)?

5. Which अव्ययम् used in the verse has been translated to “dear (Vidura)”?

6. How would you say this in Sanskrit?
“Do whatever needs to be done.” Use the neuter प्रातिपदिकम् “कार्य” for “needs to be done.” Use the combination of यावत्/तावत् to express the meaning of “whatever.” Use √कृ (डुकृञ् करणे ८. १०) for “to do.”

Easy Questions:

1. Where is the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि used in the verse?

2. Can you spot a “शी”-आदेश: in the verse?


1 Comment

  1. Questions:

    1. The यक्-प्रत्यय: (used in step 4 in this example) is used many times in the गीता। Where is it used for the first time in a तिङन्तं पदम्? Where is it used for the last time in a तिङन्तं पदम्?
    Answer: The यक्-पत्यय: has been used for the first time in the form अभ्यहन्यन्त (chapter 1, verse 13) and the last time in the form उच्यते (chapter 18, verse 28) in a तिङन्तं पदम्।
    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
    सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 1-13||
    अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः |
    विषादी दीर्घसूत्री च कर्ता तामस उच्यते || 18-28||

    अभ्यहन्यन्त is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २). The विवक्षा is लँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    हन् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + झ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = हन् + यक् + झ । By 3-1-67 सार्वधातुके यक्।
    = हन् + य + झ । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + य + अन्त् अ । By 7-1-3 झोऽन्तः।
    = हन्यन्त । 6-1-97 अतो गुणे ।
    = अट् हन्यन्त । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अहन्यन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।

    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
    अभि + अहन्यन्त = अभ्यहन्यन्त । By 6-1-77 इको यणचि ।

    उच्यते is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)
    The विवक्षा is लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = वच् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = वच् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व् अ च् + य + ते = उ अ च् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति।
    = उच्यते । By 6-1-108 सम्प्रसारणाच्च।

    2. Can you recall another सूत्रम् (besides 6-4-66 घुमास्थागापाजहातिसां हलि) by which पाणिनि: prescribes a ईकारादेश:?
    Answer: पाणिनि: prescribes a ईकारादेश: by the सूत्रम् 6-4-113 ई हल्यधोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा ।

    3. In which सूत्रम् used in the steps in this example has the श्तिप्-प्रत्यय: been used?
    Answer: The श्तिप्-प्रत्यय: been used in the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि। पाणिनि: has used “जहाति” to refer to the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९) ।
    हा + श्तिप् । वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् under 3-3-108 रोगाऽख्यायं ण्वुल् बहुलम्, the affix “इक्” as also the affix “श्तिप्” may be used by पाणिनि: to make reference to a धातु: (verbal root). श्तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = हा + शप् + श्तिप् । 3-1-68 कर्तरि शप् ।
    = हा + श्तिप् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = हा + हा + ति । By 6-1-10 श्लौ।
    = झा + हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ + हा + ति । By 7-4-59 ह्रस्वः।
    = जहाति । By 8-4-54 अभ्यासे चर्च।

    4. What would have been the final form in this example if the विवक्षा had been कर्तरि (rather that कर्मणि)?
    Answer: The final form in this example if the विवक्षा had been कर्तरि (rather that कर्मणि) would be अजहुः
    हा + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + झि। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हा + जुस् । By 3-4-109 सिजभ्यस्तविदिभ्यश्च।
    = हा + उस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
    = हा + शप् + उस् । By 3-1-68 कर्तरि शप्।
    = हा + उस् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा + हा + उस् । By 6-1-10 श्लौ।
    = झा + हा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ + हा + उस् । By 7-4-59 ह्रस्वः।
    = झ + ह् + उस् । By 6-4-112 श्नाभ्यस् तयोरातः।
    = अट् झहुस् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः,1-1-46 आद्यन्तौ टकितौ ।
    = अझहुस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अझहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
    = अजहुः । 8-4-54 अभ्यासे चर्च।

    5. Which अव्ययम् used in the verse has been translated to “dear (Vidura)”?
    Answer: अव्ययम् “अङ्ग” used in the verse has been translated to “dear (Vidura.)” “अङ्ग” is a member of the चादि-गण: (1-4-57 चादयोऽसत्त्वे)। It gets the निपात-सञ्ज्ञा because 1-4-57 is part of the अधिकार: 1-4-56 प्राग्रीश्वरान्निपाताः। And a निपात: gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् ।

    6. How would you say this in Sanskrit?
    “Do whatever needs to be done.” Use the neuter प्रातिपदिकम् “कार्य” for “needs to be done.” Use the combination of यावत्/तावत् to express the meaning of “whatever.” Use √कृ (डुकृञ् करणे ८. १०) for “to do.”
    Answer: यावत् कार्यम् तावत् कुरु = यावत्कार्यं तावत्कुरु।

    Easy Questions:

    1. Where is the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि used in the verse?
    Answer: The सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि has been used in सन्धि-कार्यम् between:
    (1) केशाः and अहयः।
    (2) क्रूराः and नागाः।
    (3) नागाः and भोगोरुकन्धराः।

    केशास् + अहयः ।
    = केशारुँ + अहयः (8-2-66 ससजुषो रुः )
    = केशाय् + अहयः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि, when the letter “रुँ” is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः, then it is replaced by the यकारः।)
    = केशा अहयः (8-3-19 लोपः शाकल्यस्य। After this 6-1-101 अकः सवर्णे दीर्घः does not apply because of 8-2-1 पूर्वत्रासिद्धम्)।

    Similarly for (2) and (3) – only difference is that in the last step 8-3-22 हलि सर्वेषाम् is applied (instead of 8-3-19.)

    2. Can you spot a “शी”-आदेश: in the verse?
    Answer: “शी”-आदेश: by 7-1-17 जसः शी is seen in the forms ये (प्रातिपदिकम् “यद्”, पुंलिङ्गे प्रथमा-बहुवचनम्) and ते (प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-बहुवचनम्) ।
    यद् + जस् । 4-1-2 स्वौजसमौट्…।
    = य अ + जस् । 7-2-102 त्यदादीनामः।
    = य + जस् । 6-1-97 अतो गुणे।
    = य + शी । “शी”-आदेश: by 7-1-17 जसः शी, following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”
    = य + ई । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = ये । 6-1-87 आद्गुणः । (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)

    Similarly for ते।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics