Home » Example for the day » पथः mAp

पथः mAp

Today we will look at the form पथः from श्रीमद्भागवतम् SB 11-20-37.

एवमेतान् मया दिष्टाननुतिष्ठन्ति मे पथः
क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ।।११-२०-३७ ।।

Gita Press translation “Those who follow in the aforesaid manner the paths shown by Me as leading to Me attain to My realm, which is free from fear (of death etc.), and realize that which is known as the supreme Brahma.”

‘पथिन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पथिन्’

(1) पथिन् + शस् ।

(2) पथ् इन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा । ‘पथिन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) पथ् + अस् । ‘इन्’ of ‘पथिन्’ gets टि-सञ्ज्ञा by । The टि-भागः of पथिन् which has the भ-सञ्ज्ञा, takes लोपः by 7-1-88 भस्य टेर्लोपः

(4) पथः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Use a verb from the verse to construct the following sentence in Sanskrit:
“All four sons of this man follow the advice of the scriptures.” Use the प्रातिपदिकम् “उपदेश” (masculine) for “advice” and “शास्त्र” (neuter) for “scripture.”

2. Where is the सूत्रम् “7-1-88 भस्य टेर्लोपः” used in the गीता?

3. What could be the reason for पाणिनि: not putting the सूत्रम् 7-1-88 भस्य टेर्लोपः in the “6-4-129 भस्य ” अधिकार: ? (That way he wouldn’t have had to say “भस्य” in 7-1-88.)

4. Why didn’t 7-1-85, 7-1-86 or 7-1-87 apply in this example?

5. Please list the eleven synonyms for the word “क्षेम:/क्षेमम्” (प्रातिपदिकम् “क्षेम” masculine/neuter, meaning “well-being”) as given in the अमर-कोश:।
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ।।१-४-२५।।
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्।
शस्तं च ।।१-४-२६।।
(इति द्वादश “कल्याणमात्रस्य” नामानि)

6. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि used in this verse?

7. What were the other possibilities for “पथ:” besides द्वितीया-बहुवचनम् ? Which word(s) in the verse give(s) us the hint that “पथ:” is द्वितीया-बहुवचनम् here (and not the other possibilities)?

8. Why didn’t 7-2-102 त्यदादीनामः apply in the form “यद्” ?

Easy questions:

1. List the five प्रत्यया: that are included in the सुँट्-प्रत्याहार:।

2. Consider the सन्धि: between दिष्टान् + अनुतिष्ठन्ति। Why didn’t 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply here? (Which condition was not satisfied?)


2 Comments

  1. Questions:
    1. Use a verb from the verse to construct the following sentence in Sanskrit:
    “All four sons of this man follow the advice of the scriptures.” Use the प्रातिपदिकम् “उपदेश” (masculine) for “advice” and “शास्त्र” (neuter) for “scripture.”
    अस्य नरस्य सर्वे चत्वारः पुत्राः शास्त्राणाम् उपदेशम् अनुतिष्ठन्ति = अस्य नरस्य सर्वे चत्वारः पुत्राः शास्त्राणामुपदेशमनुतिष्ठन्ति।

    2. Where is the सूत्रम् “7-1-88 भस्य टेर्लोपः” used in the गीता?
    Chapter 6 verse 38 पथि।
    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि || 6-38||

    पथि, प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्।
    पथिन् + ङि (4-1-2 स्वौजसमौट्…) = पथ् इन् + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, पथिन् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्) = पथ् + इ (the टि-भागः ‘इन्’ of पथिन् takes लोपः by 7-1-88 भस्य टेर्लोपः) = पथि

    4. Why didn’t 7-1-85, 7-1-86 or 7-1-87 apply in this example?
    7-1-85 पथिमथ्यृभुक्षामात् will apply only when followed by the सुँ affix (not applicable here.)
    7-1-86 इतोऽत् सर्वनामस्थाने and 7-1-87 थो न्थः can apply only when followed by a सर्वनामस्थानम् affix.
    The affix शस् is not a सर्वनामस्थानम् by 1-1-43 सुडनपुंसकस्य। So 7-1-86 and 7-1-87 are not applicable here.

    5. Please list the eleven synonyms for the word “क्षेम:/क्षेमम्” (प्रातिपदिकम् “क्षेम” masculine/neuter, meaning “well-being”) as given in the अमर-कोश:।
    श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ।।१-४-२५।।
    भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्।
    शस्तं च ।।१-४-२६।।
    (इति द्वादश “कल्याणमात्रस्य” नामानि)

    The synonyms (all neuter, except the last one which is masculine/neuter) of “क्षेम:/क्षेमम्” are:
    1. श्वःश्रेयसम् (प्रातिपदिकम् “श्वःश्रेयस”)
    2. शिवम् (प्रातिपदिकम् “शिव”)
    3. भद्रम् (प्रातिपदिकम् “भद्र”)
    4. कल्याणम् (प्रातिपदिकम् “कल्याण”)
    5. मङ्गलम् (प्रातिपदिकम् “मङ्गल”)
    6. शुभम् (प्रातिपदिकम् “शुभ”)
    7. भावुकम् (प्रातिपदिकम् “भावुक”)
    8. भविकम् (प्रातिपदिकम् “भविक”)
    9. भव्यम् (प्रातिपदिकम् “भव्य”)
    10. कुशलम् (प्रातिपदिकम् “कुशल”)
    11. शस्त:/शस्तम् (प्रातिपदिकम् “शस्त”)

    6. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि used in this verse?
    In एतान् (प्रातिपदिकम् ‘एतद्’; द्वितीया-बहुवचनम्). So also in दिष्टान् (प्रातिपदिकम् ‘दिष्ट’; द्वितीया-बहुवचनम्)

    7. What were the other possibilities for “पथ:” besides द्वितीया-बहुवचनम् ? Which word(s) in the verse give(s) us the hint that “पथ:” is द्वितीया-बहुवचनम् here (and not the other possibilities)?
    पथः can be पञ्चमी-एकवचनम् or षष्ठी-एकवचनम्।
    We know that पथः is द्वितीया-बहुवचनम् because it has समानाधिकरणम् with एतान् (द्वितीया-बहुवचनम्) and दिष्टान् (द्वितीया-बहुवचनम्).

    8. Why didn’t 7-2-102 त्यदादीनामः apply in the form “यद्” ?
    प्रातिपदिकम् “यद्”, अत्र नपुंसकलिङ्गे प्रथमा-एकवचनम्, qualifying ब्रह्म।
    यद् + सुँ = यद् (सुँ takes लुक् elision by 7-1-23 स्वमोर्नपुंसकात्‌)
    By 1-1-63 न लुमताऽङ्गस्य, when an affix takes the लुक्, श्लु or लुप् elision, the operations that were ordained on the अङ्गम् by the affix, shall not be carried out. Thus 7-2-102 त्यदादीनामः does not apply. 1-1-63 is निषेध-सूत्रम् to 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

    Easy questions:
    1. List the five प्रत्यया: that are included in the सुँट्-प्रत्याहार:।
    सुँ, औ, जस्, अम्, औट्।

    2. Consider the सन्धि: between दिष्टान् + अनुतिष्ठन्ति। Why didn’t 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply here? (Which condition was not satisfied?)
    By 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम्, when there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।
    Here the preceding vowel to the नकारः (in दिष्टान्) is दीर्घः (आकारः) । So we cannot apply 8-3-32.

  2. 1. अस्य मनुष्यस्य सर्वे चत्वारः पुत्राः शास्त्रस्य उपदेशान् अनुतिष्ठन्ति = अस्य मनुष्यस्य सर्वे चत्वारः पुत्राः शास्त्रस्योपदेशाननुतिष्ठन्ति ।

    2. 7-1-88 भस्य टेर्लोपः is used in the गीता in पथि, प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्।
    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि || 6-38||

    3. Since the अनुवृत्ति: of पथिमथ्यृभुक्षाम् is available from 7-1-85, पाणिनि: put the सूत्रम् 7-1-88 भस्य टेर्लोपः outside the “6-4-129 भस्य” अधिकार:। It is easier to put “भस्य” here than to repeat the three terms पथिमथ्यृभुक्षाम् in the “भस्य” अधिकार:।

    4. The वृत्तिः of 7-1-85 पथिमथ्यृभुक्षामात्‌ is “एषामाकारोऽन्तादेशः सौ परे।” Thus 7-1-85 is applicable only when सुँ follows. Here we have the शस्-प्रत्यय: following and not सुँ-प्रत्यय:।
    The वृत्तिः of 7-1-86 इतोऽत्‌ सर्वनामस्थाने is “पथ्यादेरिकारस्य अकारः स्यात् सर्वनामस्थाने परे” and the वृत्तिः of 7-1-87 थो न्थः is “पथिमथोस् थस्य न्थादेशः स्यात्, सर्वनामस्थाने परे।” 7-1-86 and 7-1-87 are applicable only when सर्वनामस्थानम् affix follows.
    The शस्-प्रत्ययः is not a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य।
    That’s the reason none of these rules are applicable in the above example.

    5. The synonyms of “क्षेम:/क्षेमम्” are:
    श्वःश्रेयसम्, शिवम्, भद्रम्, कल्याणम्, मङ्गलम्, शुभम्, भावुकम्, भविकम्, भव्यम्, कुशलम्, शस्त:/शस्तम्।
    All of these are neuter except the last one which is masculine/neuter.

    6. In एतान्।
    एतान्, प्रातिपदिकम् “एतद्”, पुंलिङ्गे द्वितीया-बहुवचनम्।
    एतद् + शस् (4-1-2 स्वौजसमौट्…) = एत अ + शस् (7-2-102 त्यदादीनामः) = एत + शस् (6-1-97 अतो गुणे) = एत + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = एतास् (6-1-102 प्रथमयोः पूर्वसवर्णः) = एतान् (6-1-103 तस्माच्छसो नः पुंसि)
    Also in दिष्टान्
    दिष्टान्, प्रातिपदिकम् “दिष्ट”, पुंलिङ्गे द्वितीया-बहुवचनम्।
    दिष्ट + शस् (4-1-2 स्वौजसमौट्…) = दिष्ट + अस् (1-3-8 लशक्वतद्धिते,1-3-9 तस्य लोपः) = दिष्टास् (6-1-102 प्रथमयोः पूर्वसवर्णः) = दिष्टान् (6-1-103 तस्माच्छसो नः पुंसि)

    7. The other possibilities are पञ्चमी-एकवचनम् (ङसिँ-प्रत्ययः) and षष्ठी-एकवचनम् (ङस्-प्रत्ययः)। After अनुबन्ध-लोपः both will be just अस्। Therefore they give the same form as शस् (which is also अस् after अनुबन्ध-लोपः)। Here because पथः has समानाधिकरणम् with एतान् & दिष्टान् (which are both unambiguously द्वितीया-बहुवचनम्) we know that it is also द्वितीया-बहुवचनम्।

Leave a comment

Your email address will not be published. Required fields are marked *

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics