Home » Texts » श्रीमद्भगवद्गीता

श्रीमद्भगवद्गीता

<Source – sanskritdocuments.org>

|| ॐ श्री परमात्मने नमः ||
|| अथ श्रीमद्भगवद्‌गीता ||

अथ प्रथमोऽध्यायः |   अर्जुनविषादयोगः
धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ Bg1-1
सञ्जय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत्‌ ॥ Bg1-2
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ Bg1-3
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ Bg1-4
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌ |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ Bg1-5
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्‌ |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ Bg1-6
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ Bg1-7
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ Bg1-8
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ Bg1-9
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌ |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥ Bg1-10
अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ Bg1-11
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्‌ ॥ Bg1-12
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌ ॥ Bg1-13
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ Bg1-14
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ Bg1-15
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ Bg1-16
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ Bg1-17
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्‌ ॥ Bg1-18
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्‌ |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन्‌ ॥ Bg1-19
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्‌ कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ Bg1-20
हृषीकेशं तदा वाक्यमिदमाह महीपते |
अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ Bg1-21
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्‌ |
कैर्मया सह योद्धव्यमस्मिन्‌ रणसमुद्यमे ॥ Bg1-22
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ Bg1-23
सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्‌ ॥ Bg1-24
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ Bg1-25
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्‌ |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ Bg1-26
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्‌ ॥ Bg1-27
कृपया परयाविष्टो विषीदन्निदमब्रवीत्‌ |
अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ॥ Bg1-28
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ Bg1-29
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ Bg1-30
निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ Bg1-31
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ Bg1-32
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ Bg1-33
आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ Bg1-34
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ Bg1-35
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ Bg1-36
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ Bg1-37
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्‌ ॥ Bg1-38
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ Bg1-39
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ Bg1-40
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ Bg1-41
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ Bg1-42
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ Bg1-43
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ Bg1-44
अहो बत महत्पापं कर्तुं व्यवसिता वयम्‌ |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ Bg1-45
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ॥ Bg1-46
सञ्जय उवाच |
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्‌ |
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ Bg1-47
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः || 1||
अथ द्वितीयोऽध्यायः |   साङ्ख्ययोगः
सञ्जय उवाच |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्‌ |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ Bg2-1
श्रीभगवानुवाच |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌ |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ Bg2-2
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ Bg2-3
अर्जुन उवाच |
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ Bg2-4
गुरूनहत्वा हि महानुभावान्‌
श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान्‌ रुधिरप्रदिग्धान्‌ ॥ Bg2-5
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ Bg2-6
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ ॥ Bg2-7
न हि प्रपश्यामि ममापनुद्याद्‌
यच्छोकमुच्छोषणमिन्द्रियाणाम्‌ |
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम्‌ ॥ Bg2-8
सञ्जय उवाच |
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ Bg2-9
तमुवाच हृषीकेशः प्रहसन्निव भारत |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ Bg2-10
श्रीभगवानुवाच |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ Bg2-11
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
न चैव न भविष्यामः सर्वे वयमतः परम्‌ ॥ Bg2-12
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ Bg2-13
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ Bg2-14
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ Bg2-15
नासतो विद्यते भावो नाभावो विद्यते सतः |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ Bg2-16
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌ |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ Bg2-17
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ Bg2-18
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ Bg2-19
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ Bg2-20
वेदाविनाशिनं नित्यं य एनमजमव्ययम्‌ |
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्‌ ॥ Bg2-21
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ Bg2-22
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ Bg2-23
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ Bg2-24
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ Bg2-25
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्‌ |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ Bg2-26
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ Bg2-27
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ Bg2-28
आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्‌ ॥ Bg2-29
देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ Bg2-30
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ Bg2-31
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्‌ |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्‌ ॥ Bg2-32
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ Bg2-33
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ |
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ Bg2-34
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ ॥ Bg2-35
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्‌ ॥ Bg2-36
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्‌ |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ Bg2-37
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ Bg2-38
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ Bg2-39
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌ ॥ Bg2-40
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्‌ ॥ Bg2-41
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ Bg2-42
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्‌ |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ Bg2-43
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्‌ |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ Bg2-44
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्‌ ॥ Bg2-45
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ Bg2-46
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ Bg2-47
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्‌ध्यसिद्‌ध्योः समो भूत्वा समत्वं योग उच्यते ॥ Bg2-48
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ Bg2-49
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्‌ ॥ Bg2-50
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्‌ ॥ Bg2-51
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ Bg2-52
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ Bg2-53
अर्जुन उवाच |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्‌ ॥ Bg2-54
श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्‌ |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ Bg2-55
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ Bg2-56
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ Bg2-57
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ Bg2-58
विषया विनिवर्तन्ते निराहारस्य देहिनः |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ Bg2-59
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ Bg2-60
तानि सर्वाणि संयम्य युक्त आसीत मत्परः |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ Bg2-61
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ Bg2-62
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |
स्मृतिभ्रंशाद्‌ बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ Bg2-63
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्‌ |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ Bg2-64
प्रसादे सर्वदुःखानां हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ Bg2-65
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ Bg2-66
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ Bg2-67
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ Bg2-68
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ Bg2-69
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत्‌ |
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ Bg2-70
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ Bg2-71
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ Bg2-72
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः || 2||
अथ तृतीयोऽध्यायः |   कर्मयोगः
अर्जुन उवाच |
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ Bg3-1
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्‌ ॥ Bg3-2
श्रीभगवानुवाच |
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्‌ ॥ Bg3-3
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ Bg3-4
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्‌ |
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ Bg3-5
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्‌ |
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ Bg3-6
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ Bg3-7
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |
शरीरयात्रापि च ते न प्रसिद्‌ध्येदकर्मणः ॥ Bg3-8
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ Bg3-9
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ ॥ Bg3-10
देवान्भावयतानेन ते देवा भावयन्तु वः |
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ Bg3-11
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ Bg3-12
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌ ॥ Bg3-13
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ Bg3-14
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्‌ |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्‌ ॥ Bg3-15
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ Bg3-16
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ Bg3-17
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ Bg3-18
तस्मादसक्तः सततं कार्यं कर्म समाचर |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ Bg3-19
कर्मणैव हि संसिद्धिमास्थिता जनकादयः |
लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ Bg3-20
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ Bg3-21
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ Bg3-22
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ Bg3-23
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ |
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ Bg3-24
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ ॥ Bg3-25
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌ |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌ ॥ Bg3-26
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ Bg3-27
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ Bg3-28
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु |
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्‌ ॥ Bg3-29
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ Bg3-30
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ Bg3-31
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्‌ |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ Bg3-32
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ Bg3-33
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ Bg3-34
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌ |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ Bg3-35
अर्जुन उवाच |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ Bg3-36
श्रीभगवानुवाच |
काम एष क्रोध एष रजोगुणसमुद्भवः |
महाशनो महापाप्मा विद्‌ध्येनमिह वैरिणम्‌ ॥ Bg3-37
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्‌ ॥ Bg3-38
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ Bg3-39
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्‌ ॥ Bg3-40
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्‌ ॥ Bg3-41
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg3-42
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |
जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌ ॥ Bg3-43
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः || 3||
अथ चतुर्थोऽध्यायः |   ज्ञानकर्मसंन्यासयोगः
श्रीभगवानुवाच |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्‌ |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्‌ ॥ Bg4-1
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |
स कालेनेह महता योगो नष्टः परन्तप ॥ Bg4-2
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्‌ ॥ Bg4-3
अर्जुन उवाच |
अपरं भवतो जन्म परं जन्म विवस्वतः |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ Bg4-4
श्रीभगवानुवाच |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ Bg4-5
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्‌ |
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ Bg4-6
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्‌ ॥ Bg4-7
परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ Bg4-8
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ Bg4-9
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ Bg4-10
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्‌ |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ Bg4-11
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ Bg4-12
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |
तस्य कर्तारमपि मां विद्‌ध्यकर्तारमव्ययम्‌ ॥ Bg4-13
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ Bg4-14
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्‌ ॥ Bg4-15
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥ Bg4-16
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ Bg4-17
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्‌ ॥ Bg4-18
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः |
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ Bg4-19
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः |
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ Bg4-20
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‌ ॥ Bg4-21
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ Bg4-22
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ Bg4-23
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्‌ |
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ Bg4-24
दैवमेवापरे यज्ञं योगिनः पर्युपासते |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ Bg4-25
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ Bg4-26
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ Bg4-27
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ Bg4-28
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
प्राणापानगती रुद्‌ध्वा प्राणायामपरायणाः ॥ Bg4-29
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ Bg4-30
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्‌ |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ Bg4-31
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ Bg4-32
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ Bg4-33
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ Bg4-34
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ Bg4-35
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ Bg4-36
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ Bg4-37
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ Bg4-38
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः |
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ Bg4-39
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ Bg4-40
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्‌ |
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ Bg4-41
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ Bg4-42
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः || 4||
अथ पञ्चमोऽध्यायः |   संन्यासयोगः
अर्जुन उवाच |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥ Bg5-1
श्रीभगवानुवाच |
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ Bg5-2
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ Bg5-3
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्‌ ॥ Bg5-4
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते |
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ Bg5-5
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ Bg5-6
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ Bg5-7
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्‌ |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्‌ ॥ Bg5-8
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्‌ ॥ Bg5-9
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ Bg5-10
कायेन मनसा बुद्‌ध्या केवलैरिन्द्रियैरपि |
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ Bg5-11
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्‌ |
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ Bg5-12
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन्‌ ॥ Bg5-13
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ Bg5-14
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ Bg5-15
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्‌ ॥ Bg5-16
तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः |
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ Bg5-17
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ Bg5-18
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः |
निर्दोषं हि समं ब्रह्म तस्माद्‌ ब्रह्मणि ते स्थिताः ॥ Bg5-19
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्‌ |
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्‌ ब्रह्मणि स्थितः ॥ Bg5-20
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्‌ |
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ Bg5-21
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ Bg5-22
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्‌ |
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ Bg5-23
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः |
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ Bg5-24
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः |
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ Bg5-25
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्‌ |
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्‌ ॥ Bg5-26
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ Bg5-27
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ Bg5-28
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌ |
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ Bg5-29
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः || 5||
अथ षष्ठोऽध्यायः |   आत्मसंयमयोगः
श्रीभगवानुवाच |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ Bg6-1
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ Bg6-2
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ Bg6-3
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ Bg6-4
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌ |
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ Bg6-5
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्‌ ॥ Bg6-6
जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ Bg6-7
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ Bg6-8
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ Bg6-9
योगी युञ्जीत सततमात्मानं रहसि स्थितः |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ Bg6-10
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्‌ ॥ Bg6-11
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ Bg6-12
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्‌ ॥ Bg6-13
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ Bg6-14
युञ्जन्नेवं सदात्मानं योगी नियतमानसः |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ Bg6-15
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ Bg6-16
युक्ताहारविहारस्य  युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ Bg6-17
यदा विनियतं चित्तमात्मन्येवावतिष्ठते |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ Bg6-18
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ Bg6-19
यत्रोपरमते चित्तं निरुद्धं योगसेवया |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ Bg6-20
सुखमात्यन्तिकं यत्तद्‌ बुद्धिग्राह्यमतीन्द्रियम्‌ |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ Bg6-21
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ Bg6-22
तं विद्याद्‌ दुःखसंयोगवियोगं योगसंज्ञितम्‌ |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ Bg6-23
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ Bg6-24
शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ ॥ Bg6-25
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्‌ |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्‌ ॥ Bg6-26
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्‌ |
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्‌ ॥ Bg6-27
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ Bg6-28
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ Bg6-29
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ Bg6-30
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ Bg6-31
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ Bg6-32
अर्जुन उवाच |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्‌ ॥ Bg6-33
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌ दृढम्‌ |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ ॥ Bg6-34
श्रीभगवानुवाच |
असंशयं महाबाहो मनो दुर्निग्रहं चलम्‌ |
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ Bg6-35
असंयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ Bg6-36
अर्जुन उवाच |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ Bg6-37
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ Bg6-38
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ Bg6-39
श्रीभगवानुवाच |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्‌ दुर्गतिं तात गच्छति ॥ Bg6-40
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ Bg6-41
अथवा योगिनामेव कुले भवति धीमताम्‌ |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्‌ ॥ Bg6-42
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्‌ |
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ Bg6-43
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ Bg6-44
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ ॥ Bg6-45
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ Bg6-46
योगिनामपि सर्वेषां मद्‌गतेनान्तरात्मना |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ Bg6-47
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः || 6||
अथ सप्तमोऽध्यायः |   ज्ञानविज्ञानयोगः
श्रीभगवानुवाच |
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ Bg7-1
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ Bg7-2
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ Bg7-3
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ Bg7-4
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्‌ |
जीवभूतां महाबाहो ययेदं धार्यते जगत्‌ ॥ Bg7-5
एतद्योनीनि भूतानि सर्वाणीत्युपधारय |
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ Bg7-6
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय |
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ Bg7-7
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ Bg7-8
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ Bg7-9
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्‌ |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्‌ ॥ Bg7-10
बलं बलवतां चाहं कामरागविवर्जितम्‌ |
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ Bg7-11
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ Bg7-12
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्‌ |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम्‌ ॥ Bg7-13
दैवी ह्येषा गुणमयी मम माया दुरत्यया |
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ Bg7-14
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ Bg7-15
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ Bg7-16
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ Bg7-17
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्‌ |
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्‌ ॥ Bg7-18
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ Bg7-19
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ Bg7-20
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति |
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्‌ ॥ Bg7-21
स तया श्रद्धया युक्तस्तस्याराधनमीहते |
लभते च ततः कामान्मयैव विहितान्हि तान्‌ ॥ Bg7-22
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्‌ |
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ Bg7-23
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |
परं भावमजानन्तो ममाव्ययमनुत्तमम्‌ ॥ Bg7-24
नाहं प्रकाशः सर्वस्य योगमायासमावृतः |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम्‌ ॥ Bg7-25
वेदाहं समतीतानि वर्तमानानि चार्जुन |
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ Bg7-26
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ Bg7-27
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्‌ |
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ Bg7-28
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्‌ ॥ Bg7-29
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ Bg7-30
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः || 7||
अथऽष्टमोऽध्यायः |   अक्षरब्रह्मयोगः
अर्जुन उवाच |
किं तद्‌ ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ Bg8-1
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन |
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ Bg8-2
श्रीभगवानुवाच |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते |
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ Bg8-3
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्‌ |
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ Bg8-4
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्‌ |
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ Bg8-5
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्‌ |
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ Bg8-6
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ Bg8-7 ॥ ##ओर्##संशयम्
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना |
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्‌ ॥ Bg8-8
कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः |
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात्‌ ॥ Bg8-9
प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव |
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्‌
स तं परं पुरुषमुपैति दिव्यम्‌ ॥ Bg8-10
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ Bg8-11
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्‌ ॥ Bg8-12
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्‌ |
यः प्रयाति त्यजन्देहं स याति परमां गतिम्‌ ॥ Bg8-13
अनन्यचेताः सततं यो मां स्मरति नित्यशः |
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ Bg8-14
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्‌ |
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ Bg8-15
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ Bg8-16
सहस्रयुगपर्यन्तमहर्यद्‌ ब्रह्मणो विदुः |
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ Bg8-17
अव्यक्ताद्‌ व्यक्तयः सर्वाः प्रभवन्त्यहरागमे |
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ Bg8-18
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ Bg8-19
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ Bg8-20
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्‌ |
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ Bg8-21
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्‌ ॥ Bg8-22
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ Bg8-23
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्‌ |
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ Bg8-24
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्‌ |
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ Bg8-25
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ Bg8-26
नैते सृती पार्थ ज्ञानन्योगी मुह्यति कश्चन |
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ Bg8-27
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्‌ |
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्‌ ॥ Bg8-28
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः || 8||
अथ नवमोऽध्यायः |   राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥ Bg9-1
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्‌ |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्‌ ॥ Bg9-2
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ Bg9-3
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ Bg9-4
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्‌ |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ Bg9-5
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्‌ |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ Bg9-6
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्‌ |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्‌ ॥ Bg9-7
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्‌ ॥ Bg9-8
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ Bg9-9
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ |
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ Bg9-10
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्‌ |
परं भावमजानन्तो मम भूतमहेश्वरम्‌ ॥ Bg9-11
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ Bg9-12
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्‌ ॥ Bg9-13
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ Bg9-14
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्‌ ॥ Bg9-15
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्‌ |
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्‌ ॥ Bg9-16
पिताहमस्य जगतो माता धाता पितामहः |
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ Bg9-17
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्‌ |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्‌ ॥ Bg9-18
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ Bg9-19
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्‌ ॥ Bg9-20
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ Bg9-21
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥ Bg9-22
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्‌ ॥ Bg9-23
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ Bg9-24
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्‌ ॥ Bg9-25
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ Bg9-26
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ |
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ ॥ Bg9-27
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ Bg9-28
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्‌ ॥ Bg9-29
अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ |
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ Bg9-30
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ Bg9-31
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्‌ ॥ Bg9-32
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्‌ ॥ Bg9-33
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ Bg9-34
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः || 9||
अथ दशमोऽध्यायः |   विभूतियोगः
श्रीभगवानुवाच |
भूय एव महाबाहो शृणु मे परमं वचः |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 10-1||
न मे विदुः सुरगणाः प्रभवं न महर्षयः |
अहमादिर्हि देवानां महर्षीणां च सर्वशः || 10-2||
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्‌ |
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते || 10-3||
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च || 10-4||
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः || 10-5||
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || 10-6||
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |
सोऽविकम्पेन योगेन युज्यते नात्र संशयः || 10-7||
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
इति मत्वा भजन्ते मां बुधा भावसमन्विताः || 10-8||
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्‌ |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || 10-9||
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्‌ |
ददामि बुद्धियोगं तं येन मामुपयान्ति ते || 10-10||
तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 10-11||
अर्जुन उवाच |
परं ब्रह्म परं धाम पवित्रं परमं भवान्‌ |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्‌ || 10-12||
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे || 10-13||
सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः || 10-14||
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
भूतभावन भूतेश देवदेव जगत्पते || 10-15||
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || 10-16||
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्‌ |
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || 10-17||
विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्‌ || 10-18||
श्रीभगवानुवाच |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे || 10-19||
अहमात्मा गुडाकेश सर्वभूताशयस्थितः |
अहमादिश्च मध्यं च भूतानामन्त एव च || 10-20||
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्‌ |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || 10-21||
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || 10-22||
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्‌ |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्‌ || 10-23||
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्‌ |
सेनानीनामहं स्कन्दः सरसामस्मि सागरः || 10-24||
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः || 10-25||
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः || 10-26||
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्‌ |
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्‌ || 10-27||
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ |
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || 10-28||
अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌ |
पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ || 10-29||
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्‌ |
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्‌ || 10-30||
पवनः पवतामस्मि रामः शस्त्रभृतामहम्‌ |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || 10-31||
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्‌ || 10-32||
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः || 10-33||
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्‌ |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || 10-34||
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्‌ |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः || 10-35||
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्‌ |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्‌ || 10-36||
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |
मुनीनामप्यहं व्यासः कवीनामुशना कविः || 10-37||
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ || 10-38||
यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्‌ || 10-39||
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया || 10-40||
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ || 10-41||
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्‌ || 10-42||
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः || 10||
अथैकादशोऽध्यायः |   विश्वरूपदर्शनयोगः
अर्जुन उवाच |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्‌ |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ Bg11-1
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्‌ ॥ Bg11-2
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ Bg11-3
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्‌ ॥ Bg11-4
श्रीभगवानुवाच |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ Bg11-5
पश्यादित्यान्वसून्‌रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ Bg11-6
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्‌ |
मम देहे गुडाकेश यच्चान्यद्‌ द्रष्टुमिच्छसि ॥ Bg11-7
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्‌ ॥ Bg11-8
सञ्जय उवाच |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम्‌ ॥ Bg11-9
अनेकवक्त्रनयनमनेकाद्‌भुतदर्शनम्‌ |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्‌ ॥ Bg11-10
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्‌ |
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्‌ ॥ Bg11-11
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ Bg11-12
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ Bg11-13
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ Bg11-14
अर्जुन उवाच |
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान्‌ |
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान्‌ ॥ Bg11-15
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम्‌ |
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर  विश्वरूप ॥ Bg11-16
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम्‌ |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्‌
दीप्तानलार्कद्युतिमप्रमेयम्‌ ॥ Bg11-17
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्‌ |
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ Bg11-18
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम्‌ |
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम्‌ ॥ Bg11-19
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः |
दृष्ट्वाद्‌भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन्‌ ॥ Bg11-20
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति |
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ Bg11-21
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ Bg11-22
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्‌ |
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्‌ ॥ Bg11-23
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्‌ |
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ Bg11-24
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि |
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ Bg11-25
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः |
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ Bg11-26
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि |
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ Bg11-27
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति |
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ Bg11-28
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः |
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ Bg11-29
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः |
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ Bg11-30
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्‌ ॥ Bg11-31
श्रीभगवानुवाच |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः |
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ Bg11-32
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्‌ भुङ्‌क्ष्व राज्यं समृद्धम्‌ |
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ Bg11-33
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ |
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ ॥ Bg11-34
सञ्जय उवाच |
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी |
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ Bg11-35
अर्जुन उवाच |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ Bg11-36
कस्माच्च ते न नमेरन्महात्मन्‌ गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्‌ ॥ Bg11-37
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्‌ |
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ Bg11-38
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ Bg11-39
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ Bg11-40
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति |
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ Bg11-41
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु |
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्‌ ॥ Bg11-42
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्‌ |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ Bg11-43
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्‌ |
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्‌ ॥ Bg11-44
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ Bg11-45
किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ Bg11-46
श्रीभगवानुवाच |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्‌ |
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्‌ ॥ Bg11-47
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ Bg11-48
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्‌ममेदम्‌ |
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ Bg11-49
सञ्जय उवाच |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः |
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ Bg11-50
अर्जुन उवाच |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ Bg11-51
श्रीभगवानुवाच |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ Bg11-52
नाहं वेदैर्न तपसा न दानेन न चेज्यया |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ Bg11-53
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ Bg11-54
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ Bg11-55
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ Bg12-11
अथ द्वादशोऽध्यायः |   भक्तियोगः
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ Bg12-1
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ Bg12-2
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम्‌ ॥ Bg12-3
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ Bg12-4
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्‌ ||
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ Bg12-5
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः |
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ Bg12-6
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्‌ |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्‌ ॥ Bg12-7
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ Bg12-8
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्‌ |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ Bg12-9
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ Bg12-10
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्‌ ॥ Bg12-11
श्रेयो हि ज्ञानमभ्यासाज्ज्ञनाद्‌ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्‌ ॥ Bg12-12
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ Bg12-13
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ Bg12-14
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ Bg12-15
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ Bg12-16
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ Bg12-17
समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ Bg12-18
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्‌ |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ Bg12-19
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ Bg12-20
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः || 12||
अथ त्रयोदशोऽध्यायः |   क्षेत्रक्षेत्रज्ञविभागयोगः
अर्जुन उवाच |
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ Bg13-1
श्रीभगवानुवाच |
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ Bg13-2
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ Bg13-3
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्‌ |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ Bg13-4
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्‌ |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ Bg13-5
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ Bg13-6
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्‌ ॥ Bg13-7
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्‌ |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ Bg13-8
इन्द्रियार्थेषु वैराग्यमनहंकार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्‌ ॥ Bg13-9
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ Bg13-10
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ Bg13-11
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्‌ |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ Bg13-12
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ Bg13-13
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्‌ |
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ Bg13-14
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्‌ |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ Bg13-15
बहिरन्तश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्‌ ॥ Bg13-16
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्‌ |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ Bg13-17
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्‌ ॥ Bg13-18
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ Bg13-19
प्रकृतिं पुरुषं चैव विद्‌ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्‌ ॥ Bg13-20
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ Bg13-21
पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान्‌ |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ Bg13-22
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ Bg13-23
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ Bg13-24
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ Bg13-25
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ Bg13-26
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्‌ |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ Bg13-27
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्‌ |
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ Bg13-28
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्‌ |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्‌ ॥ Bg13-29
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ Bg13-30
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ Bg13-31
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ Bg13-32
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ Bg13-33
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ Bg13-34
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्‌ ॥ Bg13-35
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः || 13||

अथ चतुर्दशोऽध्यायः |   गुणत्रयविभागयोगः

श्रीभगवानुवाच |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्‌ |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ Bg14-1
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ Bg14-2
मम योनिर्महद्‌ ब्रह्म तस्मिन्गर्भं दधाम्यहम्‌ |
सम्भवः सर्वभूतानां ततो भवति भारत ॥ Bg14-3
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ Bg14-4
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्‌ ॥ Bg14-5
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्‌ |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ Bg14-6
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्‌ |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्‌ ॥ Bg14-7
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्‌ |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ Bg14-8
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ Bg14-9
रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ Bg14-10
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ Bg14-11
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ Bg14-12
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ Bg14-13
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्‌ |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ Bg14-14
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ Bg14-15
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्‌ |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम्‌ ॥ Bg14-16
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ Bg14-17
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ Bg14-18
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ Bg14-19
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्‌ |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ Bg14-20
अर्जुन उवाच |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ Bg14-21
श्रीभगवानुवाच |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ Bg14-22
उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ Bg14-23
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ Bg14-24
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ Bg14-25
मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ Bg14-26
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ Bg14-27
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागय्ओगो नाम चतुर्दशोऽध्यायः || 14||
अथ पञ्चदशोऽध्यायः |   पुरुषोत्तमयोगः
श्रीभगवानुवाच |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌ |
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥ Bg15-1
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः |
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥ Bg15-2
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥ Bg15-3
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः |
तमेव चाद्यं पुरुषं प्रपद्ये |
यतः प्रवृत्तिः प्रसृता पुराणी ॥ Bg15-4
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः |
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्‌ ॥ Bg15-5
न तद्भासयते सूर्यो न शशाङ्को न पावकः |
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ Bg15-6
ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ Bg15-7
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌ ॥ Bg15-8
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ Bg15-9
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌ |
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ Bg15-10
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्‌ |
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ Bg15-11
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्‌ |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्‌ ॥ Bg15-12
गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ Bg15-13
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ ॥ Bg15-14
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च |
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्‌ ॥ Bg15-15
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ Bg15-16
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ Bg15-17
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ Bg15-18
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्‌ |
स सर्वविद्भजति मां सर्वभावेन भारत ॥ Bg15-19
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्‌ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ Bg15-20
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः || 15||

अथ षोडशोऽध्यायः |   दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्‌ ॥ Bg16-1
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्‌ |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्‌ ॥ Bg16-2
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ Bg16-3
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्‌ ॥ Bg16-4
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ Bg16-5
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ Bg16-6
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ Bg16-7
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्‌ |
अपरस्परसम्भूतं किमन्यत्कामहैतुकम्‌ ॥ Bg16-8
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ Bg16-9
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |
मोहाद्‌गृहीत्वासद्‌ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ Bg16-10
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ॥ Bg16-11
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्‌ ॥ Bg16-12
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्‌ |
इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ ॥ Bg16-13
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ Bg16-14
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ Bg16-15
अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ Bg16-16
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्‌ ॥ Bg16-17
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ Bg16-18
तानहं द्विषतः क्रुरान्संसारेषु नराधमान्‌ |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ Bg16-19
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्‌ ॥ Bg16-20
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्‌ ॥ Bg16-21
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्‌ ॥ Bg16-22
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्‌ ॥ Bg16-23
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ Bg16-24
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः || 16||
अथ सप्तदशोऽध्यायः |   श्रद्धात्रयविभागयोगः
अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ Bg17-1
श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ Bg17-2
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ Bg17-3
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ Bg17-4
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥ Bg17-5
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |
मां चैवान्तःशरीरस्थं तान्विद्‌ध्यासुरनिश्चयान्‌ ॥ Bg17-6
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ Bg17-7
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ Bg17-8
कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ Bg17-9
यातयामं गतरसं पूति पर्युषितं च यत्‌ |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ ॥ Bg17-10
अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ Bg17-11
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्‌ |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्‌ ॥ Bg17-12
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्‌ |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ Bg17-13
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्‌ |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ Bg17-14
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌ |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ Bg17-15
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ Bg17-16
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ Bg17-17
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्‌ |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्‌ ॥ Bg17-18
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्‌ ॥ Bg17-19
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्‌ ॥ Bg17-20
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्‌ ॥ Bg17-21
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ॥ Bg17-22
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ Bg17-23
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्‌ ॥ Bg17-24
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ Bg17-25
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ Bg17-26
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ Bg17-27
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌ |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ Bg17-28
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः || 17||
अथाऽष्टादशोऽध्यायः |   मोक्षसंन्यासयोगः
अर्जुन उवाच |
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्‌ |
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ Bg18-1
श्रीभगवानुवाच |
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ Bg18-2
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ Bg18-3
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ Bg18-4
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्‌ |
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्‌ ॥ Bg18-5
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्‌ ॥ Bg18-6
नियतस्य तु संन्यासः कर्मणो नोपपद्यते |
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ Bg18-7
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्‌ |
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्‌ ॥ Bg18-8
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ Bg18-9
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ Bg18-10
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ Bg18-11
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्‌ |
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्‌ ॥ Bg18-12
पञ्चैतानि महाबाहो कारणानि निबोध मे |
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्‌ ॥ Bg18-13
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्‌ |
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्‌ ॥ Bg18-14
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ Bg18-15
तत्रैवं सति कर्तारमात्मानं केवलं तु यः |
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ Bg18-16
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ Bg18-17
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ Bg18-18
ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः |
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ Bg18-19
सर्वभूतेषु येनैकं भावमव्ययमीक्षते |
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्‌ ॥ Bg18-20
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्‌ |
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्‌ ॥ Bg18-21
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्‌ |
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्‌ ॥ Bg18-22
नियतं सङ्गरहितमरागद्वेषतः कृतम्‌ |
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ Bg18-23
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः |
क्रियते बहुलायासं तद्राजसमुदाहृतम्‌ ॥ Bg18-24
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्‌ |
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ Bg18-25
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |
सिद्‌ध्यसिद्‌ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ Bg18-26
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ Bg18-27
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः |
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ Bg18-28
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ Bg18-29
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ Bg18-30
यया धर्ममधर्मं च कार्यं चाकार्यमेव च |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ Bg18-31
अधर्मं धर्ममिति या मन्यते तमसावृता |
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ Bg18-32
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ Bg18-33
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ Bg18-34
यया स्वप्नं भयं शोकं विषादं मदमेव च |
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ Bg18-35
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ Bg18-36
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्‌ |
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्‌ ॥ Bg18-37
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्‌ |
परिणामे विषमिव तत्सुखं राजसं स्मृतम्‌ ॥ Bg18-38
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्‌ ॥ Bg18-39
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ Bg18-40
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ Bg18-41
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्‌ ॥ Bg18-42
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्‌ |
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्‌ ॥ Bg18-43
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्‌ |
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्‌ ॥ Bg18-44
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ Bg18-45
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्‌ |
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ Bg18-46
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌ |
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्‌ ॥ Bg18-47
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्‌ |
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ Bg18-48
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ Bg18-49
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ Bg18-50
बुद्‌ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ Bg18-51
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ Bg18-52
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम्‌ |
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ Bg18-53
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्‌ ॥ Bg18-54
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्‌ ॥ Bg18-55
सर्वकर्माण्यपि सदा कुर्वाणो मद्‌व्यपाश्रयः |
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्‌ ॥ Bg18-56
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ Bg18-57
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ Bg18-58
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे |
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ Bg18-59
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत्‌ ॥ Bg18-60
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ Bg18-61
तमेव शरणं गच्छ सर्वभावेन भारत |
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्‌ ॥ Bg18-62
इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया |
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ Bg18-63
सर्वगुह्यतमं भूयः शृणु मे परमं वचः |
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्‌ ॥ Bg18-64
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ Bg18-65
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ Bg18-66
इदं ते नातपस्काय नाभक्ताय कदाचन |
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ Bg18-67
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ Bg18-68
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ Bg18-69
अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ Bg18-70
श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्‌ ॥ Bg18-71
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ Bg18-72
अर्जुन उवाच |
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ Bg18-73
सञ्जय उवाच |
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |
संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ ॥ Bg18-74
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्‌ |
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्‌ ॥ Bg18-75
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्‌ |
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ Bg18-76
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |
विस्मयो मे महान्‌ राजन्हृष्यामि च पुनः पुनः ॥ Bg18-77
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ Bg18-78
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः || 18||


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics