Table of Contents

<<8-3-91 —- 8-3-93>>

8-3-92 प्रष्ठो ऽग्रगामिनि

प्रथमावृत्तिः

TBD.

काशिका

प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये। प्रतिष्ठते इति प्रष्ठः अश्वः। अग्रतो गच्छति इत्यर्थः। अग्रगामिनि इति किम्? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

733 प्रष्ठोऽग्रगामिनि। प्रपूर्वात्स्थाधातोः `आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः। स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते। इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः। प्रतिष्ठत इति। अग्रे गच्छतीत्यर्थः, उपसर्गवशात्। प्रष्ठो गौरिति। अग्रगामीत्यर्थः। एवं प्रष्ठोऽ\उfffदा इत्यादि।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.