Table of Contents

<<8-3-68 —- 8-3-70>>

8-3-69 वेश् च स्वनो भोजने

प्रथमावृत्तिः

TBD.

काशिका

वेः उपसर्गातवात् च उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषो ऽभिधीयते, यत्र स्वननम् अस्ति। भोजने इति किम्? विस्वनति मृदङ्गः। अवस्वनति मृदङ्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

118 वेश्च। अवादित्यनुकर्षणार्थश्चकारः। तदाह– व्यवाभ्यामिति। विष्वणति। अवष्वणति। सशब्दं भुङ्क्ते इत्यर्थ-। अट्कुप्वाङिति णत्वम्।

तत्त्वबोधिनी

93 वेश्च। विष्वणति सशब्दं भुङ्क्त इत्यर्थः। `अट्कुप्वा'ङिति णत्वम्. एवम्?- - अवष्वणति। व्यष्वणत्। विषष्वाण। `स्थादिष्वभ्यासेन चे'ति षत्वम्। भोजने किम् ?। विखनति वीणा।

Satishji's सूत्र-सूचिः

TBD.