Table of Contents

<<8-3-68 —- 8-3-70>>

8-3-69 वेश् च स्वनो भोजने

प्रथमावृत्तिः

TBD.

काशिका

वेः उपसर्गातवात् च उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषो ऽभिधीयते, यत्र स्वननम् अस्ति। भोजने इति किम्? विस्वनति मृदङ्गः। अवस्वनति मृदङ्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

118 वेश्च। अवादित्यनुकर्षणार्थश्चकारः। तदाह– व्यवाभ्यामिति। विष्वणति। अवष्वणति। सशब्दं भुङ्क्ते इत्यर्थ-। अट्कुप्वाङिति णत्वम्।

तत्त्वबोधिनी

93 वेश्च। विष्वणति सशब्दं भुङ्क्त इत्यर्थः। `अट्कुप्वा'ङिति णत्वम्. एवम्?- - अवष्वणति। व्यष्वणत्। विषष्वाण। `स्थादिष्वभ्यासेन चे'ति षत्वम्। भोजने किम् ?। विखनति वीणा।

Satishji's सूत्र-सूचिः

TBD.