Table of Contents

<<8-1-50 —- 8-1-52>>

8-1-51 गत्यर्थलोटा लृण् न चेत् कारकं सर्वान्यत्

प्रथमावृत्तिः

TBD.

काशिका

गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकम् सर्वान्यद् भवति। यत्र एव कारके कर्तरि कर्मणि वा लोट्, तत्र एव यदि लृडपि भवति इत्यर्थः। कर्तृकर्मणी एव अत्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामम्, द्रक्ष्यसि एनम्। आगच्छ देवदत्त ग्रामम्, ओदनं भोक्ष्यसे। उह्यन्तां देवदत्तेन शालयः, तेन एव भोक्ष्यन्ते। उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते। गत्यर्थग्रहणं किम्? पच देवदत्त ओदनम्, भोक्ष्यसे एनम्। लोटा इति किम्? आगच्छेः देव्दत्त ग्रामम्, द्रक्ष्यसि एनम्। लृटिति किम्? आगच्छ देवदत्त ग्रामम्, पश्यसि एनम्। न चेत् कारकम् सर्वान्यतिति किम्? आगच्छ देवदत्त ग्रामम्, पिता ते ओदनं भोक्ष्यते। उह्यन्तां देवदत्तेन शालयः, सक्तवः तेन पास्यन्ते। सर्वग्रहणम् किम्? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्यावः एनम् इत्यत्र अपि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके अन्यस्मिन् न भवितव्यम्, इह तु यत् लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेन उच्यते इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.