Table of Contents

<<7-4-45 —- 7-4-47>>

7-4-46 दो दद् घोः

प्रथमावृत्तिः

TBD.

काशिका

दा इत्येतस्य घुसंज्ञकस्य ददित्ययम् आदेशो भवति तकारादौ किति प्रत्यय परतः। दत्तः। दत्तवान्। दत्तिः। दः इति किम्? धीतः। धीतवान्। धेटः एतद् रूपम्। घोः इति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातम् मुखम्। अयम् आदेशः थान्तः इष्यते। एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद् दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिस्थान्ते ऽदोषस्तस्मात् थान्तम्। यदि तु दस्ति इति तकारादौ दीर्घत्वं तदा तान्ते ऽपि अदोषः। दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः। अवदत्तं विदत्तम् च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः 7-4-47 इति प्राप्ते निपात्यन्ते। अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

830 घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति. चर्त्वंम्. दत्तः..

बालमनोरमा

तत्त्वबोधिनी

727 दो दद्धोः। इहादेशः थान्त एव, न तु त-द-धान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायां दोषादिति प्राञ्चः। तथा चाहुः– `तान्ते दीर्घत्वाख्यो दोषो, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वाख्यः स्यान्निर्दोषत्वात्थान्तो ग्राह्रः' इति। तदनुसारेणाह– दथ्स्यादिति। दात इति। दाप् लवने। `अदा'बिति निषेधान्न घुत्वम्। इह सर्वे प्षाः सूपपादा इत्याह— तान्तो वेत्यादिना। दीर्घापत्तिरिति। विदत्तमित्यादावुपसर्गस्येत्यर्थः। `दस्तीटत्यत्र द्वौ पक्षौ– इत्यस्य य आदेशः स तकारान्तः' `तकारादिर्वे'ति ?। तत्राद्ये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति– तकारादाविति। निष्टानत्वमिति। `रदाभ्याटमित्यनेन। सन्निपातेति। तादि निमित्तीकृत्य विहतो यो दान्ताद्यादेशः स तकारविघातकनत्वादिविधेर्निमित्तं न भवतीति भावः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः घुसञ्ज्ञकस्‍य ‘दा’ इत्‍यस्‍य ‘दथ्’ स्‍यात् तादौ किति । The term ‘दथ्’ is substituted in place of the (entire) verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्रातिपदिकम् “दत्त” derived from the verbal root √दा (डुदाञ् दाने ३. १०).

दा + क्त 3-2-102, 3-4-70
= दा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= दथ् + त 1-1-20, 7-4-46, 1-1-55
= दत्त 8-4-55. “दत्त” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.