TBD.
यङः उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति वा। शाकुनिको लालपीति। दुन्दुभिर् वावदीति। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश। न च भवति। वर्वर्ति, चर्कर्ति चक्रम्। हलादेः पितः सार्वधातुकस्य यङन्तादभावः इति यङ्लुगन्तस्य उदाहरणम्।
TBD.
722
–
410 यङो वा। `नाभ्यस्तस्याची'ति सूत्रात्पिति सार्वधातुक इति,`उतो वृद्धि'रित्यतो हलीति चानुवर्तते, `ब्राउव ई'डित्यत ईडिति च। तदेतदाह– यङन्तादित्यादि। यङो लुक्यपि प्रत्ययलक्षणेनाऽत्र यङन्तत्वम्। एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम्। उक्तरीत्या यङन्तत्वानपायात्। किं च यङन्ताद्वलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपि `सन्यङो'रिति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाऽभावाद्यङ्लुकि द्वित्वाऽभावप्रसङ्गादिति दिक्। छन्दसि निपातनादिति। गुणनिषेधे सिद्धे निपातनमिदं `छन्दस्येव गुणनिषेधो नाऽन्यत्रे'ति नियमार्थमित्यर्थः। बोभूत्विति। समुदायस्याऽतिरिक्तत्वात् `भूसुवो'रिति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह– न चेत्। द्विः प्रयोग इति। तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमित्येतन्न्यायसिद्धं, नाऽपूर्वं वचनमिति बावः। बोभुवतीति। `अदभ्यस्ता'दित्यत्। बोभूवीदिति। केचिदिह `भुवो वुगि'ति सूत्रे `ओः सुपी'त्यत ओरित्यनुवर्तते। तथा च उवर्णान्तस्य भुवो वुगित्यर्थाद्गुणे कृते वुकः प्राप्तिर्न#आस्तीत्यनित्यो वुक्। स च पराभ्यां गुणवृद्धिभ्यां बाध्यते। तेनाऽबोभवी'दिति रूपमाहुः। तच्चिन्त्यम्। `भुवो वुको नित्यत्वा'दिति भाष्याग्रन्थविरोधात्। तस्माद्वुको नित्यत्वमाश्रित्य `इन्धिभवतिभ्यां चे'ति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनसंमतमेव। `आत' इति नियमाज्जुसभावमाशङ्क्याह–अभ्यस्ताश्रय इति। अयं भावः– `सिजभ्यस्ते' ति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवाऽयं नियमो न त्वभ्यस्ताश्रयस्य जुस इति। `जुसि चे'ति गुणमाशङ्क्याह— नित्यत्वाद्वुगिति। अबोभूविरिति। न चाऽत्र परत्वात् `अदभ्यस्ता'दित्यदादेशः स्यादिति वाच्यम्, अभ्यस्ताश्रयजुसोऽदादेशाऽपवादत्वात्। पास्पर्धीतीति। स्पर्ध संघर्षे। `दीर्घोऽकितः' इत्यभ्यासस्यदीर्घः। `यङो वे'ति ईड्विकल्पः। ईडभापक्षे `झषस्तथो'रिति धत्वं, `झरो झरि सवर्णे' इति वा धलोपः। लिटि– पास्पर्धाचकार। लुट- - पास्पर्धिता। लृटि– पास्पर्द्धिष्यति। लोटि पास्पर्धीतु। पास्पर्द्धु। पास्पर्धात्। पास्पर्धाम्। पास्पर्धतु। पास्पद्र्धीति। हेर्धित्वे वा धलोपः। लङि इडागमपक्षे– अपास्पर्धीत्। रुत्वपक्षे इति। पक्षान्तरे तु अपास्पत्। अपास्दद्र्ध। लिङि– पास्पध्र्यात्। पास्पध्र्याताम्। पास्पध्र्यास्ताम्। लुङि- - `अस्तिसिचोऽपृक्ते' इति नित्यमीट्। `इट ईटी'ति सलोपः। अपास्पर्धीति। अपास्पर्द्धिष्टाम्। अपास्पर्धिषुः। लृङि— अपास्पर्धिष्यत्। जागाद्धीति। गाधृ प्रतिष्ठादौ। ईट्पक्षे तु जागाधीति। जाघात्सीति `एकाच' इति भष्भावः। धस्य चत्र्वम्। लोटि– जागाधीतु। जागाद्धु। जागाद्धाम्। जागाधतु। लङि– अजगाधीत्। अजाघात्। अजागाद्धाम्। अजागाधुः। लुङि– अजागाधीत्। अजागाधिष्टाम्। नाथ नाधृ याच्ञादौ। नानात्तीति। ईट्पक्षे – दादधीति। लुङि `अतो हलादे'रिति वा वृद्धिः। चोस्कुन्दीति। स्कुदि। आप्रवणे। `इदितः' इति नुम्। ईडभावे `झरो झरि सवर्णे' इति वा लोपः। लङि–ईट्पक्षे–अचोस्कुन्दीत्। लुङि तु `अस्तिसिचः' इति नित्यमिट्। अचोस्कुन्दीत्। अचोस्कुन्दिष्टाम्। मोमुदीतीति। मुद हर्षे। `नाभ्यस्तस्याऽची'ति लघूपधगुणनिषेधः। मोमोदितेति। न चाऽत्र `न धातुलोप' इति गुणनिषेधः शङ्क्यः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात्। लुङि गुण इति। सिज्निमित्तकोऽयं गुणस्तेन `नाभ्यस्तस्याची'ति निषेधो न शङ्कनीय इति भावः। चोकूर्तीति। कुर्द खुर्द गुर्द गुद क्रीडायाम्। लङि तिपि ईट्पक्षे अचोकूर्दीत्। अचोखूर्दीत्। अचोगूर्दीत्। पक्षे अचोकूरिति। `दश्चे'ति रुत्वपक्षे इत्यर्थः। वनीवञ्चीतीति। वञ्च गतौ। `नित्यं कौटिल्ये गतौ' इति यङ्। `नीग्वञ्चु' इत्यभ्यासस्य नीगागमः। यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः। वनीवक्त इति। तसो ङित्त्वदिह स्यादेव `अनिदिता'मिति नलोपः। लोटि- - वनीवञ्चीतु। वनीवङ्क्तु। वनीवक्तात्। वनीवक्ताम्। वनीवचतु। वनीवग्धि। वनीवञ्चानि। जह्गमीतीति। `नुगतोऽनुनासिकान्तस्ये'ति नुक्। जङ्ग्मतीति। `गमहने'त्युपधालोपः। अजङ्गन्निति। ईट्पक्षे त्वजङ्गमीत्। अजङ्गताम्। अजङ्ग्मुः। अजङ्गमीः। अजङ्गतम्। अजङ्गत। अजङ्गमम्। अजङ्गन्व। अजङ्गम। सामन्यापेक्षेति। अयं भावः– एकाच इत्यत्रैकाज्ग्रहणाद्यङ्लुकि द्विर्वचनं न कुत्रापि प्राप्नोति, तथा च `गुणो यङ्लुको' इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विनानिवेशमलभमानः सन् `श्तिपा शपा' इति सर्वेषामपि निषेधानां क्वचिद्यङलुक्यप्रवृतिं?त ज्ञापयतीति। तथा च प्रयुज्यते– `राजा वृत्रं जङ्घनत्' इत्यादि। द्वित्वं तु न भवतीति। वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्य `हनो वध लिङि', `लुङि च' इति वधादेशात्पुनर्द्वित्वं न भवतीत्यर्थः। तत्र हेतुमाह– स्थानिवत्त्वेनेति। आङ्पूर्वादिति। प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः। चञ्चूर्तीति। चरतिर्गतौ भक्षणे च। `चरफलोश्च' इत्यभ्यासस्य नुक्। `उतपरस्याऽतः' इत्युत्वम्। `हलि च' इति दीर्घः। अचञ्चूरित्यत्र तु पदान्तविषयत्वात् `र्वोरुपधायाः' इति दीर्घः। चङ्खनीतीति। खनु अवदारणे। चङ्खात इति। यत्तु केचिद्धातुग्रहणेन कृतं कार्यं यङ्लुकि वेति `जनसने'त्यात्वाऽभावे `अनुनासिकस्य क्विझलोः' इति दीर्घोऽपि न भवति। क्विप्साहर्याद्धि झलादिः कृदेव तत्र गृह्रते न तु तिङित्यभ्युपेत्य चङ्खन्त इति रूपमाहुः, तदयुक्तम्। धातुग्रहणेन कृतस्य यङ्लुक्यप्रवृत्तौ मानाऽभावात्। सत्यपि प्रमाणे आत्वं वेति विकल्पोत्तया चङ्खात इति रूपं केन वार्यताम्। यच्चोक्तम् `अनुनासिकस्य' इति सूत्रे क्विप्साहचर्याद्धि झलादिरपि कृदेव गृह्रत इति, तदप्युक्तमेव। यदि हि कृदेव क्विप्स्यात्तदा साहचर्योक्तिः सङ्गच्छेत। किं तु कृद्भिन्नोऽप्यस्त्येवाचारक्विप्। अतएव राजानति चर्माणतीत्यादौ माधवादिभिः क्विनिमित्तो दीर्घ उक्तः। चङ्खाहीति। हेरपित्त्वेन ङित्वात् `जनसने' त्यात्वम्। अचङ्खानीदिति। `अतो हलादेः' इति वा वृद्धिः। जाहेतीत्यादि। हाङ्हाकोस्तुल्यानि र#ऊपाणि, ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः। `भृञामित्' इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च। नच अकितैति निषेधेन हाकोऽभ्यासस्य दीर्घो दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्क्यम्, अकित इत्यत्र हि न विद्यते किद्य्सयाभ्यासस्येति बहुव्रीहिराश्रीयते, तेन `द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इत्यस्याऽभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनीवञ्चीतीत्यादाविव कित्त्वाऽभावान्न दोषः। किंच द्वित्वाऽभावे केवलस्यार्थवत्त्वेऽपि द्वित्वे सति समुदाय एवार्थवानिति हि सर्वसंमतम्। तथा कित्त्वमपि समुदायस्यैवास्तु न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः। जाहीयादिति। `ई हल्यघोः' इतीत्वम्। लुका लुप्त इति। सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वात्। अकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्क्यमेवेति भावः। उत्वं नेति। फलितार्थकथनमिदम्। `स्वपिस्यमि' इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः। असास्वापीदिति। `अतो हलादेः'- - इति विकल्पेन वृद्धिः।
वृत्तिः यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात् । When preceded by the verbal root ending in the affix “यङ्” which has taken the लुक् elision, a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, optionally gets the augment ईट्। Note: This सूत्रम् cannot apply when there is no लुक् elision of the affix “यङ्” because in that case only आत्मनेपदम् is used (as per 1-3-12) and there is no आत्मनेपदम् affix which is हलादि-पित्-सार्वधातुकम्।
वृत्तिः यङ्लुगन्तमप्यादादिकं परस्मैपदि चेत्यर्थः । A धातुः ending in यङ्-लुक् is also considered to belong to the अदादि-गणः and takes परस्मैपदम् affixes only (in कर्तरि प्रयोगः।)
Note: चर्करीतम् is an ancient name for a धातुः ending in यङ्-लुक्।
उदाहरणम् – पुनः पुनर्भृशं वा भवति = बोभवीति/बोभोति – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).
The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
भू + यङ् 3-1-22
= भू 2-4-74, 1-1-61
= भू भू 6-1-9 with the help of 1-1-62
= भु भू 7-4-59
= भोभू 7-4-82, 1-1-3, 1-1-52
= बोभू 8-4-54
“बोभू” gets the धातु-सञ्ज्ञा by 3-1-32 with the help of the परिभाषा “एकदेशविकृतमनन्यवत्” – A thing is called or taken as that very thing although it is lacking in a part. Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च is placed in the धातु-पाठः (in the अदादि-गणः)। Hence “बोभू” gets the धातु-सञ्ज्ञा।
बोभू + लँट् 3-2-123
= बोभू + ल् 1-3-2, 1-3-3, 1-3-9
= बोभू + तिप् 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् “चर्करीतं च।”
= बोभू + ति 1-3-3, 1-3-9
= बोभू + शप् + ति 3-1-68. Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “बोभू” is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
= बोभू + ति 2-4-72
Let us consider the case when the augment ईट् is taken optionally.
बोभू + ति
= बोभू + ईट् ति 7-3-94, 1-1-46
= बोभू + ई ति 1-3-3, 1-3-9
= बोभो + ईति 7-3-84. Note: 7-3-88 भूसुवोस्तिङि should have blocked 7-3-84 here. But the fact that पाणिनिः has given बोभूतु (ref : 7-4-65 …बोभूतुतेतिक्ते…) as a special form to be used छन्दसि (in the Vedas) only, tells us that 7-3-88 does not apply in the case of a यङ्-लुक् form used in classical Sanskrit.
= बोभवीति 6-1-78
When the optional augment ईट् is not taken, the form is बोभोति।
बोभू + ति
= बोभोति 7-3-84
उदाहरणम् – पुनः पुनर्भृशं वा भवन्ति = बोभुवति – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).
बोभुवति is derived from the यङ्लुगन्त-धातुः “बोभू”।
The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
बोभू + लँट् 3-2-123
= बोभू + ल् 1-3-2, 1-3-3, 1-3-9
= बोभू + झि 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् “चर्करीतं च।”
= बोभू + शप् + झि 3-1-68. Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “बोभू” is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
= बोभू + झि 2-4-72
= बोभू + अति 7-1-4, 6-1-5
= बोभ् उवँङ् + अति 6-4-77, 1-1-53
= बोभ् उव् + अति 1-3-2, 1-3-3, 1-3-9
= बोभुवति